भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 6.4

6.4.1

श्रीनारद उवाच ॥
अथ श्रीकृष्णदेवस्य विवाहं शृणु मैथिल॥
सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदम्

6.4.2

भीष्मकोनाम राजाभूद्विदर्भेषु प्रतापवान् ॥
कुंडिनाधिपतिः श्रीमान्सर्वधर्मविदांवरः

6.4.3

रुक्मिणी तत्सुता जाता श्रियोमात्रातिसुन्दरी ॥
कोटिचन्द्रप्रतीकाशा गुणभूषणभूषिता

6.4.4

श्रुत्वैकदा पुरा सा वै मन्मुखाच्छ्रीहरेर्गुणान् ॥
परिपूर्णतमं तं वै सा मेने सदृशं पतिम्

6.4.5

तद्रूपं सगुणं श्रुत्वा मन्मुखात्प्रीतिवर्द्धनात् ॥
सदृशीं श्रीहरिस्तां वै समुद्वोढुं मनो दधे ।

6.4.6

कृष्णभावविदा राज्ञा सर्वधर्मविदा भृशम् ॥
भीष्मकेणैव कृष्णाय दातुं तां निश्चयः कृतः

6.4.7

युवराजस्ततो रुक्मी तं निवार्य्य प्रयत्नतः ॥
कृष्णशत्रुर्महावीरं शिशुपालममन्यत

6.4.8

ततः खिन्नमना भैष्मी श्रीकृष्णाय महात्मने ॥
दूतं स्वं प्रेषयामास ब्राह्मणं मिथिलेश्वर

6.4.9

स द्वारकां गतो दिव्यां श्रीकृष्णेन प्रपूजितः।
भुक्तवांस्तत्र चासीनो विश्रांतो मंदिरं हरेः

6.4.6.4.10

पृच्छते कुशलं सर्वं श्रीकृष्णाय महात्मने ॥
ब्राह्मणस्तदनुज्ञातस्तस्मै सर्वमवर्णयत्

6.4.11

स्वस्तिश्रीकारपंचाढ्ये नित्यानंदमहोदधौ ॥
श्रीमद्दिव्यगुणैः पूर्णे कोटिशो नतयो मम

6.4.12

शमत्रास्ति च तत्रास्तु ततस्त्वत्पत्रमागतम्॥
नारदोक्तेन वचसा ज्ञातोसि प्रकृतेः परः

6.4.13

सर्वं जानासि सर्वज्ञस्तथा वक्ष्ये वचो रहः ॥
वीरभागं तु मां विद्धि त्वं गृहाण महामते

6.4.14

मां चैद्यः प्रतिगृह्णीयाद्यथा सिंहबलिं मृगः ॥
कथं त्वामुद्वहे दुर्गे स्थितामिति च तच्छृणु

6.4.15

पूर्वेद्युः कुलदेव्यास्तु यात्रास्ति महती हरे ॥
आगमिष्याम्यहं यत्र तत्र मां त्वं गृहाण भोः

6.4.16

॥ श्रीनारद उवाच ॥
रुक्मिण्यास्तमभिप्रायं श्रुत्वा ब्राह्मणभाषितम् ॥
रथः संयुज्यतामाशु दारुकं प्राह मानदः

6.4.17

पश्चिमायां तदा रात्रौ वैकुण्ठप्रभवं परम् ॥
किंकिणीजालसंयुक्तं हेमरत्नखचित्प्रभम्

6.4.18

सदश्वैः शैब्यसुग्रीवमेघपुष्पबलाहकैः ॥
नियोजितैर्दारुकेण चंचलैश्चारुचामरैः

6.4.19

युक्तं महारथे दिव्यं सहस्रादित्यवर्चसम् ॥
आरुह्य सारथेः पृष्ठे धृत्वा श्रीपादपंकजम्

6.4.6.4.20

स्वहस्तेन द्विजं तस्मिन्समारोप्य रमापतिः ॥
विदर्भान्प्रययौ राजञ्श्रीकृष्णो भगवान्हरिः

6.4.21

कृष्णं चैकं गतं हर्तुं कन्यां तु नृपमण्डलात् ॥
कलिप्रशंकितो रामः श्रुत्वा भ्रातृसहायकृत्

6.4.22

नीत्वा यदुबलं सर्वं समर्थबलवाहनम्॥
विपक्षीयान्नृपाञ्जेतुं बलः पश्चाद्ययौ त्वरम्

6.4.23

कुण्डिनोपवनं प्रातः सद्विजः सरथो हरिः ॥
संतस्थौ तिंतिणीवृक्षे आस्तीर्याश्वपरिच्छदम्

6.4.24

दूरात्संदृश्यते तस्मात्कुण्डिनन्तु पुरम्परम् ॥
दीर्घदुर्गसमायुक्तं सप्तयोजनवर्तुलम्

6.4.25

दुर्लंघ्या दुर्गमा यत्र परिखा जलपूरिता ॥
धनुःशतं विस्तृतास्ति चातुर्मास्यनदीवसा

6.4.26

पंचाशद्धस्तमानेन दुर्गभित्तिस्तथोर्ध्वगा ॥
यत्र रम्याणि हर्म्याणि स्फुरद्धेमशिखानि च

6.4.27

हेमकुम्भध्वज स्फूर्ज्जत्तोलकानि विरेजिरे ॥
पारावता मयूराश्च यत्र तत्र पतंति च

6.4.28

शिशुपालाय स्वां कन्यां दास्यन्राजा तु भीष्मकः ॥
चक्रे विवाहसंभारसंचयं रत्नमण्डपे

6.4.29

गीतमंगलसंयुक्ते नारीभिर्भवनोत्तमे ॥
रराज रुक्मिणी राजन्सिद्दिभिर्भूर्यथा भुवि

6.4.6.4.30

अथर्वविद्द्विजा भैष्मी सुस्नातां रत्नवाससम् ॥
चक्रुर्मंत्रैस्तथा रक्षां बध्वा शांतिं विधाय च

6.4.31

हैमानां भारलक्षं च मुक्तानां द्विगुणं तथा॥
सहस्रभारं वस्त्राणां धेनूनामर्बुदानि षट् ।

6.4.32

गदायुतं रथानां च दशलक्षमनोहरम् ॥
दशकोटिहयानां च गुडादितिलपर्वतान्

6.4.33

सहस्रस्वर्णपात्राणां भूषणानां तथायुतम् ॥
विप्रेभ्यः प्रददौ राजा भीष्मकोति महामनाः

6.4.34

तथा वै दमघोषस्य शिशुपालाय वै द्विजाः ॥
चक्रुः शांतिं परां पूर्वं रक्षाबंधनरूपिणीम्

6.4.35

ब्राह्मणैर्मंगलस्नातं पीतकंचुकशोभितम् ॥
मुकुटोपरि विभ्राजत्पुष्पं मौलिधरं शुभम्

6.4.36

हारकंकणकेयूरशिखामणिविभूषितम् ॥
मंगलैर्गीतवादित्रैर्गन्धाक्षतविचर्चितम्

6.4.37

आचारलाजैः सुवरं शिशुपालं विधाय च॥
आरोप्य करिणं प्रोच्चं दमघोषो विनिर्ययौ

6.4.38

जरासंधेन शाल्वेन दंतवक्रेण धीमता ॥
विदूरथेन पौंड्रेण पार्ष्णिग्राहेण मैथिल

6.4.39

विकर्षन्महतीं सेनां दमघोषो महाबलः ॥
दुंदुभीन्नादयन्दीर्घानाययौ कुण्डिनं पुरम्

6.4.6.4.40

संमुखाद्यदुदेवस्य श्रुत्वोद्योगं नृपाः परे॥
सहस्रशः समाजग्मुः शिशुपालसहायिनः

6.4.41

भीष्मको ह्यग्रतो गत्वा संपूज्य विधिवन्नृपम् ॥
काश्मीरकंबलैर्दिव्यारुणैः सामुद्रसंभवैः

6.4.42

मंडितेषु च सर्वेषु मुक्तादामविलंबिषु ॥
सौगंधिकैः पुष्परसै राष्ट्रेषु शिबिरेषु च

6.4.43

वारांगनानृत्यलसन्मृदंगेषु ध्वनत्सु च ॥
निवेशयामास नृपौ विदर्भाधिपतिर्महान्

6.4.4

इति श्रीमद्गर्गसहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे कुण्डिनपुरयानंनाम चतुर्थोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc