भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 6.1

6.1.1

श्रीगणेशाय नमः ॥
अथ द्वारकाखण्डः॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ॥
नन्दगोपकुमाराय गोविंदाय नमोनमः

6.1.2

बहुलाश्व उवाच॥
श्रुतं तवमुखाद्ब्रह्मन्मथुराखण्डमद्भुतम् ॥
वद मां द्वारकाखण्डं श्रीकृष्णचरितामृतम्

6.1.3

विवाहाः कतिपुत्राश्च कति पौत्रा रमापतेः ॥
सर्वं वद महाबुद्धे द्वारकावासकारणम्

6.1.4

श्रीनारद उवाच ॥
अस्तिप्राप्ती महिष्यौ द्वे मृते कंसे महाबले ॥
जरासन्धगृहं दुःखाज्जग्मतुर्मैथिलेश्वर

6.1.5

तन्मुखात्कंसमरणं श्रुत्वा क्रुद्धो जरासुतः ॥
अयादवीं महीं कर्तुमुद्यतोभून्महाबलः

6.1.6

अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः ॥
रम्यां मधुपुरीं राजन्नाययौ बलवान्नृपः

6.1.7

भयातुरां पुरीं वीक्ष्य तत्सेनां सिंधुनादिनीम् ॥
सभायां भगवान्साक्षाद्बलदेवमुवाच ह

6.1.8

सर्वं चास्य बलं राम हंतव्यं वै न संशयः ॥
मागधस्तु न हंतव्यो भूयः कर्ता बलोद्यमम्

6.1.9

जरासंधनिमित्तेन भारं वै भूभुजां भुवः ॥
सर्वं चात्र हरिष्यामि करिष्यामि प्रियं सताम्

6.1.6.1.10

एवं वदति कृष्णे वै वैकुण्ठाच्च रथौ शुभौ ॥
अभूतामागतौ राजन्सर्वेषां पश्यतां च तौ

6.1.11

समारुह्य रथो सद्यो रामकृष्णौ महाबलौ ॥
यादवानां बलैः सूक्ष्मैस्त्वरं निजग्मतुः पुरात्

6.1.12

यादवानां मागधानां पश्यद्भिर्दिविजैर्दिवि ॥
बभूव तुमुलं युद्धमद्भुतं रोमहर्षणम्

6.1.13

अक्षौहिणीभिर्दशभी रथारूढो महाबलः ॥
श्रीकृष्णस्य पुरः पूर्वं युद्धे मागधेश्वरः

6.1.14

पंचभिश्चाक्षौहिणीभि धार्तराष्ट्रः सुयोधनः ॥
तिसृभिश्च महायुद्धे वंगनाथो महाबलः ।
युयोध यादवैः सार्द्धं जरासंधसहायकृत्

6.1.16

पंचभिश्च तथा राजन्विंध्यदेशाधिपो बली ॥ । १५ ॥
एवमन्येपि राजानो जरासन्धवशानुगाः ॥
प्राणैः साहाय्यं कुर्वंतो जरासंधस्य मैथिल

6.1.17

बाणांधकारे संजाते शत्रुसेनासमाकुले ॥
टंकारं शार्ङ्ग धनुषः शार्ङ्गधन्वा चकार ह

6.1.18

ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥
विचेलुर्दिग्गजास्तारा राजद्भूखण्डमण्डलम्

6.1.19

तदैव बधिरीभूतं शत्रूणां सैन्यमण्डलम् ॥
उत्पतंतो हया युद्धाद्गजास्तु विमुखास्ततः

6.1.6.1.20

दुद्राव तद्बलं सर्वं टंकाराद्भयविह्वलम् ॥
प्रतीपमेत्य गव्यूतिः पुनस्तत्रा- जगाम ह

6.1.21

एवं शार्ङ्ग समुच्चार्य तडित्पिंगस्फुरत्प्रभम् ॥
बाणौघैश्छादयामास जरासंधबलं हरिः

6.1.22

चूर्णीभूता रथा राजन्बाणौघैः शार्ङ्गधन्वनः ॥
चूर्णचक्रानिपेतुः कौ हत सूताश्च नायकाः

6.1.23

द्विधाभूता गजा बाणैश्चलिता गजिभिः सह ॥
साश्ववाहास्तथाश्वाश्च बाणैः संच्छिन्नकंधराः

6.1.24

तथा वीरा महायुद्धे भिन्नोरश्छिन्नमस्तकाः ॥
विशीर्णकवचाः पेतुर्बाणौघैश्छिन्नसंशयाः

6.1.25

अधोमुखा ऊर्ध्वमुखा- श्छिन्नदेहा नृपात्मजाः ॥
रेजू रणांगणे राजन्भांडब्यूहा इवाहताः

6.1.26

क्षणमात्रेण तद्युद्धे शतक्रोशविलंबिता ॥
आपगाभून्महादुर्गा रुधिरस्राव- संभवा

6.1.27

द्विपग्राहाचोष्ट्रखरकबन्धाश्चादिकच्छपा ॥
शिशुमाररथाकेशशैवालाभुजसर्पिणी

6.1.28

करमीना मौलिरत्नहारकुण्डल शर्करा ॥
शस्त्रशुक्तिश्छत्रशंखा चामरध्वजसैकता

6.1.29

रथांगावर्तसंयुक्ता सेनाद्वयतटावृता ॥
शतयोजनविस्तीर्णा बभौ वैतरणी यथा

6.1.6.1.30

प्रमथा भैरवा भूता वेताला योगिनीगणाः ॥
अट्टहासं प्रकुर्वंतो नृत्यतो रणमण्डले

6.1.31

पिबंतो रुधिरं शश्वत्कपालेन नृपेश्वर ॥
हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च

6.1.32

सिंहारूढा भद्रकाली डाकिनीशतसंवृता ॥
पिबंती रुधिरं चोष्णं साट्टहासं चकार ह

6.1.33

विद्याधर्यश्च स्वर्गस्था गन्धर्व्योप्सरसस्तथा ॥
क्षात्रधर्मस्थितान्वीरान्वव्रिरे देवरूपिणः

6.1.34

गृहीत्वा तान्कलिरभूत्तासां पत्यर्थमंबरे ॥
ममानुरूपा नेमे च इति तद्गतचेतसाम्

6.1.35

केचिद्वीरा धर्मपरा रणरंगान्न चालिताः ॥
ययुर्विष्णुपदं दिव्यं भित्त्वा मार्तंडमण्डलम्

6.1.36

शेषं बलं समाकृष्य बलदेवो हलेन वै ॥
मुशलेनाहनत्कुद्धस्त्रैलोक्यबलधारकः

6.1.37

एवं सैन्ये क्षयं जाते जरासंधस्य सर्वतः ॥
सुयोधनो विंध्यनाथो वंगनाथस्तथैव च

6.1.38

सर्वे विदुद्रुवुर्युद्धाद्भयभीता इतस्ततः ॥
जरासन्धो महावीर्यो नागायुतसमो बले

6.1.39

रथेनागतवान्राजन्बलदेवस्य संमुखे ॥
समाकृष्य हलाग्रेण जरासंधरथं शुभम्

6.1.6.1.40

चूर्णयामास सहसा मुशलेन यदूत्तमः ॥
जरासंधोपि विरथो हताश्वो हतसारथिः

6.1.41

जग्राह बलिनन्दोर्भ्यां संत्यक्तशस्त्रसंहतिः ॥
तयोर्युद्धमभूद्घोरं बाहुभ्यां रण मण्डले

6.1.42

पश्यतां दिवदेवानां नराणां भुवि मैथिल ॥
उरसा शिरसा चैव बाहुभ्यां पादयोः पृथक्

6.1.43

युयुधाते मल्लयुद्धे सिंहाविव महाबलौ॥
तयोश्च युद्ध्यतोः सर्वं क्षुण्णं भूखण्डमंडलम्

6.1.44

स्थालीव सहसा राजंश्चकंपे घटिकाद्वयम् ॥
गृहीत्वाभुजदण्डाभ्यां जरासंधं यदूत्तमः

6.1.45

भूपृष्ठे पातयामास कमंडलुमिवार्भकः ॥
रामस्तदुपरि स्थित्वा हंतुं शत्रुं जरासुतम्

6.1.46

जग्राह मुसलं घोरं क्रोधपूरितविग्रहः ॥
परिपूर्णतमेनाथ श्रीकृष्णेन महात्मना

6.1.47

निवारितस्तदैवाशु तं मुमोच यदूत्तमः ॥
तपसे कृतसंकल्पो व्रीडितोपि जरासुतः

6.1.48

निवारितो मंत्रिमुख्यैर्मागधान्मागधो ययौ ॥
इत्थं जित्वा जरासंधं माधवो मधुसूदनः

6.1.49

आयोधनगतं वित्तं सर्वं नीत्वा सुखावहम् ॥
यादवानग्रतः कृत्वा बलदेवसमन्वितः

6.1.6.1.50

उपगीयमानविजयः सूतमागधबंदिभिः॥
शंखदुंदुभिनादेन ब्रह्मघोषेण भूयसा

6.1.51

विवेश मथुरां साक्षात्परिपूर्णतमः स्वयम्

6.1.52

समर्चितो मंगललाजपुष्पैः पश्यन्पुरीं मंगलकुंभ युक्ताम् ॥
पीतांबरः श्यामतनुः शुभांगः स्फुरत्किरीटांगदकुण्डलप्रभः

6.1.53

शार्ङ्गादि शस्त्रास्त्रधरो हसन्मुखस्तालांकयुक्तो गरुडध्वजस्स्वयम्॥ उद्यद्विलोलाश्वरथः सुरार्चितः समेत्य राजानमसौ बलिं ददौ

6.1.1

इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे जरासन्धपराजयो नाम प्रथमोध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc