भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 5.2

5.2.1

कृष्णकृतं केशिवधम्
श्री नारद उवाच -
अथ केशी महादैत्यो हयरूपी मदोत्कटः ।
एत्य वृदावनं रम्यं जगर्ज्ज घनवद्‌बली

5.2.2

यस्य पादप्रताडेन निपेतुः शाखिनो दृढाः ।
पुच्छघातेन गगने खंडं खंडं ययुर्घनाः

5.2.3

तं वीक्ष्य दुःसहजवं गोपगोपीगणा भृशम् ।
भयातुरा मैथिलेन्द्र श्रीकृष्णं शरणं ययुः

5.2.4

मा भैष्टेत्यभयं दत्वा भगवान्वृजिनार्दनः ।
कटौ पीतांबरं बद्ध्वा हंतुं दैत्यं प्रचक्रमे

5.2.5

हरिं पश्चिमपादाभ्यां संतताड महासुरः ।
चालयन्पृथिवीं राजन्नादयन् व्योममंडलम्

5.2.6

गृहीत्वा पादयोर्दैत्यं भ्रामयित्वा भुजेन खे ।
चिक्षेप योजनं कृष्णो वातः पद्ममिवोद्‍धृतम्

5.2.7

पुनरागतवान् सोऽपि क्रोधपूरितविग्रहः ।
पुच्छेन श्रीहरिं देवं संतताड व्रजांगणे

5.2.8

पुच्छे गृहीत्वा तं कृष्णो भ्रामयित्वा भुजौजसा ।
योजनानां शतं राजन् चिक्षेप गगने बलात्

5.2.9

आकाशात्पतितः सोऽपि किंचिद्व्यायाकुलमानसः ।
समुत्थाय पुनर्दैत्यो जगर्ज घनवद्‌बली

5.2.10

सटा विधुन्वन् रोमाणि बालं खे चालयन्मुहुः ।
महीं विदारयन्पादैरुत्पपात हरेः पुरः

5.2.11

तताड मुष्टिना तं वै भगवान्मधुसूदनः ।
तस्य मुष्टिप्रहारेण मूर्छितो घटिकाद्वयम्

5.2.12

मस्तकेन गलोद्देशे समुद्धृत्य हरिं हयः ।
भूमंडलादुत्पपात गगने लक्षयोजनम्

5.2.13

तयोर्युद्धमभूत् घोरं गगने प्रहरद्वयम् ।
पदैर्दद्‌भिः सटाभिश्च पुच्छतीक्ष्णखुरैर्नृप

5.2.14

गृहीत्वा तं हरिर्दोर्भ्यां भ्रामयित्वा त्वितस्ततः ।
आकशात्पातयामास कमंडलुमिवार्भकः

5.2.15

भुजं प्रवेशयामास तन्मुखे भगवान् हरिः ।
तस्योदरे गतो बाहुः ववृधे रोगवद्‌भृशम्

5.2.16

तदा तु लेंडं कृतवान् रुद्धवायुर्महासुरः ।
खंडीभूतोदरः सद्यो ममार हयरूपधृक्

5.2.17

देहाद्‌विनिर्गतः सद्यो मुकुटी कुंडलान्वितः ।
दिव्यरूपधरं कृष्णं प्रांजलिः प्रणनाम ह

5.2.18

कुमुद उवाच -
शक्रस्यानुचरोऽहं वै कुमुदो नाम माधव ।
तेजस्वी रूपवान् वीरो जिष्णुश्छत्रभ्रमिं दधन्

5.2.19

वृत्रासुरवधे पूर्वं ब्रह्महत्याप्रशांतये ।
यज्ञं चक्रार नाकेशो वाजिमेधं क्रतूत्तमम्

5.2.20

अश्वमेधहयं शुभ्रं श्यामकर्णं मनोजवम् ।
तमारुरुक्षुर्दुष्टोऽहं चोरयित्वा तलं गतः

5.2.21

ततो मरुद्‌गणैर्नीतं पाशबद्धं महाखलम् ।
शशाप मां बलारातिः त्वं रक्षो भव दुर्मते

5.2.22

हयाकृतिस्ते संभूयाद्‌भूमौ मन्वंतरद्वयम् ।
तच्छापादद्य मुक्तोऽहं सद्यस्त्वत् स्पर्शनात्प्रभो

5.2.23

किंकरं कुरु मां देव त्वदंघ्रौ लग्नमानसम् ।
नमस्तुभ्यं भगवते सर्वलोकैकसाक्षिणे

5.2.24

श्रीनारद उवाच -
प्रदक्षिणीकृत्य हरिं परेश्वरं
विमानमारुह्य महोज्ज्वलं परम् ।
वैकुण्ठलोकं कुमुदो ययौ त्वरं
विराजयन्मैथिल मंडलं दिशाम्

5.2.2

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
केशिवधो नाम द्वितीयोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc