भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 5.1

5.1.1

श्रीकृष्ण आनयनाय कंसस्य मन्त्रणा
श्रीनारद उवाच -
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानंदं कृष्णं वन्दे जगद्‍गुरुम्

5.1.2

बहुलाश्व उवाच -
मथुरायां किं चरित्रं कृतवान्भगवान्मुने ।
कथं जघान कंसाख्यमेतन्मे ब्रूहि तत्त्वतः

5.1.3

श्रीनारद उवाच -
अथैकदाऽहं मथुरां पुरीं परां
विलोकितुं चागतवान्नृपेश्वर ।
कर्त्तुं परं दैत्यवधोद्यमं हरेः
परस्य साक्षान्मनसा प्रणोदितः

5.1.4

सिंहासने च प्रहृते पुरंदरा-
त्सितातपत्रे चलचारुचामरे ।
स्थितं नृपं कंसमुरंगदुःसहं
प्रावोचमेवं शृणु तत्प्रपूजितः

5.1.5

यशोदायाः सुता जाता या त्वद्धस्ताद्दिवं गता ।
देवक्यां कृष्ण उत्पन्नो रोहिणीनंदनो बलः

5.1.6

स्वमित्रे नंदराजे च न्यस्तौ पुत्रौ भवद्‌भयात् ।
तवारी रामकृष्णौ द्वौ वसुदेवेन दैत्यराट्

5.1.7

पूतनाद्या ह्यरिष्टांता दैत्या ये त्वद्‌बलोत्कटाः ।
याभ्यां हता वनोद्देशे ते मृत्यू तौ स्मृतौ किल

5.1.8

एवमुक्तो भोजपतिः क्रोधाच्चलितविग्रहः ।
जग्राह निशितं खड्‍गं शौरिं हंतुं सभातले

5.1.9

मया निवारितः सोऽपि विस्तृतैर्निगडैर्दृढैः ।
बद्ध्वा तं भार्यया सार्द्धं कारागारे रुरोध ह

5.1.10

इत्युक्त्वा तं मयि गते केशिनं दैत्यपुंगवम् ।
रामकृष्णवधार्थाय प्रेषयामास दैत्यराट्

5.1.11

चाणूरादीन् समाहूय महामात्रं द्विपस्य च ।
कार्यभारकराँल्लोकान् प्राहेदं भोजराड् बली

5.1.12

कंस उवाच -
हे कूट हे तोशलक हे चाणूर महाबल ।
रामकृष्णौ च मे मृत्यू दर्शितौ नारदेन तु

5.1.13

भवद्‌भिरिह संप्राप्तौ हन्येतां मल्ललीलया ।
मल्लभूमिं च संयुक्तां कुरुताशु शुभावहाम्

5.1.14

द्विपं कुवलयापीडं रंगद्वारि मदोत्कटम् ।
प्रस्थाप्य तेन हंतव्यौ महामात्र ममाहितौ

5.1.15

चतुर्दश्यां तु कर्तव्यो धनुर्यागः प्रशान्तये ।
अमावास्यादिने लोका मल्लयुद्धं भवेदिह

5.1.16

श्रीनारद उवाच -
इत्युक्त्वा स्वजनान् कंसोऽक्रूरमाहूय सत्वरम् ।
रहसि प्राह राजेंद्र मंत्रं मंत्रिजनप्रियम्

5.1.17

कंस उवाच -
भो भो दानपते मंत्रिन् श्रृणु मे परमं वचः ।
गच्छ नंदव्रजं प्रातः कुरु कार्यं महामते

5.1.18

आसाते तत्र मे शत्रू वसुदेवसुतौ किल ।
दर्शितौ नारदेनापि देवदेवर्षिणा भृशम्

5.1.19

सोपायनैर्गोपगणैर्नन्दराजादिभिः सह ।
मथुरादर्शनमिषाद्‌रथेनानय मा चिरम्

5.1.20

द्विपेन वा महामल्लैर्घातयिष्यामि तौ शिशू ।
तत्पश्चान्नंदराजं च वसुदेवसहायकम्

5.1.21

वृषभानुवरं पश्चान्नवनन्दोपनन्दकान् ।
पश्चाच्छौरिं हनिष्यामि देवकं तत्सहायकम्

5.1.22

उग्रसेनं च पितरं वृद्धं राज्यसमुत्सुकम् ।
तत्पश्चाद्‌यादवान्सर्वान् हनिष्यामि न संशयः

5.1.23

एते देवगणाः सर्वे जाता मंत्रिन् महीतले ।
शकुनिर्मे महामित्रो बली चन्द्रावतीपतिः

5.1.24

भूतसंतापनो हृष्टो वृकः शंबर एव च ।
कालनाभो महानाभो हरिश्मश्रुस्तथैव च

5.1.25

एते मित्राणि मे संति मदर्थं प्राणदा बलात् ।
श्वशुरोऽपि जरासंधो द्विविदो मे सखा स्मृतः

5.1.27

बाणासुरश्च नरको मय्येव कृतसौहृदः ।
एते सर्वां महीं जित्वा बद्ध्वा देवान्सवासवान् ॥ २‌६ ॥
क्षिप्त्वा मेरुगुहादुर्गे कुबेरं द्रव्यनायकम् ।
त्रैलोक्यराज्यं तु सदा करिष्यंति न संशयः

5.1.28

कवीनां त्वं कविरिव गिरां गीष्पतिवद्‍भुवि ।
एतत्कार्यं च कर्तव्यं त्वया दानपते त्वरम्

5.1.29

अक्रूर उवाच -
त्वया कृतो यदुपते मनोरथमहार्णावः ।
दैवेच्छयाऽयं भवति गोष्पदं तद्विनार्णवः

5.1.30

कंस उवाच -
विसृज्य दैवं कुरुते बलिष्ठो
दैवं समाश्रित्य हि निर्बलश्च ।
कालात्मनोर्नित्यगयोः प्रभावा-
न्निराकुलस्तिष्ठतु कर्मयोगी

5.1.31

श्रीनारद उवाच -
एवमुक्त्वा मंत्रिवरं समुत्थाय सभास्थलात् ।
किंचित्प्रकुपितः कंसः शनैरंतःपुरं ययौ

5.1.1

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
कंसमंत्रो नाम प्रथमोऽध्याय:

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc