भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 5.19

5.19.1

कृष्णस्य व्रजागमनोत्सवम्
श्रीनारद उवाच -
इत्थं निशम्य भक्तस्य वचनं भक्तवत्सलः ।
स्मृत्वा वाक्यं स्वकथितं गंतुं चक्रेऽच्युतो मतिम्

5.19.2

बलदेवं स्थापयित्वा कार्यभारेषु सर्वतः ।
हेमाढ्यं किंकणोजालं चंचलाश्वनियोजितम्

5.19.3

रथमारुह्य सूर्याभमुद्धवेन समन्वितः ।
भक्तानां दर्शनं दातुं प्रययौ नंदगोकुलम्

5.19.4

गोवर्धनं गोकुलं च पश्यन् वृन्दावनं वनम् ।
प्राप्तोऽभूत्पुलिने कृष्णः कृष्णातीरे मनोहरे

5.19.5

कोटिशः कोटिशो गावो दृष्ट्वा कृष्णं व्रजाधिपम् ।
आधावन्त्यः सर्वतस्तं स्नेहस्नुतपयोधराः

5.19.6

उदास्यकर्णवालाँश्च रंभमाणाः सवत्सकाः ।
मुखे कवलसंयुक्ता अश्रुमुख्यो गतव्यथाः

5.19.7

सरथं सारुणं साश्वं शरदर्कं यथा घनाः ।
रुरुधुस्तं रथं राजनुद्धवस्य प्रपश्यतः

5.19.8

श्रीगोपालो हरिस्तासां वदन्नाम पृथक् पृथक् ।
श्रीहस्तेन तदंगानि स्पृशन् हर्षं जगाम ह

5.19.9

तत्समीपे गवां वृन्दं गतं वीक्ष्य व्रजार्भकाः ।
श्रीदामाद्या विस्मिताश्च दूरादूचुः परस्परम्

5.19.10

गोपा ऊचुः -
रथं सकुम्भध्वजवायुवेगं
सुकांस्यपत्रध्वनिनिःस्वनं तम् ।
शताश्वयुक्तं शतसूर्यशोभं
गावः कथं वा रुरुधुः सखायः

5.19.11

अन्यो न चास्मिन् हि गवां प्रहर्षणै-
रायाति किंतु व्रजराजनंदनः ।
स्फुरंति चांगानि हि दक्षिणानि नः
श्रीनीलकंठः प्रतनोति तोरणम्

5.19.12

श्रीनारद उवाच -
इत्थं विचार्य मनसा गोपाः सर्वे समागताः ।
ददृशुर्माधवं मित्रं गतं वस्तु यथा जनाः

5.19.13

अवप्लुत्य रथात्कृष्णः परिपूर्णतमः स्वयम् ।
पुरो निधाय तान्सर्वान्दोर्भ्यां तत्प्रेमविह्वलः

5.19.14

मुंचन्नेत्राब्जवारीणि परिरेभे पृथक्पृथक् ।
अहो भक्तेश्च माहात्म्यं वक्तुं कोऽस्ति महीतले

5.19.15

ते सर्व रुरुदुर्गोपा मुंचन्तोऽश्रूणि मैथिल ।
प्रवक्तुं न समर्थाः श्रीकृष्णविक्षेपविह्वलाः

5.19.16

परिपूर्णतमः साक्षाद्देवो मधुरया गिरा ।
आश्वासयामास नतान् प्रेमानन्दसमाकुलान्

5.19.17

उद्धवः प्रेषितो वक्तुं श्रीकृष्णेनार्भकैः सह ।
आगतं कथयामास श्रीकृष्णं नंदपत्तने

5.19.18

श्रुत्वाऽऽगतं नंदसूनुं श्रीकृष्णं गोपवल्लभम् ।
आनेतुं निर्गताः सर्वे परिपूर्णमनोरथाः

5.19.19

भेरीमृदंगैः पटहैः कलस्वनै-
रत्पूर्णकुम्भैर्द्विजवेदघोषणैः ।
गन्धाक्षतैर्मंगललाजमिश्रितैः
श्रीनंदराजोऽभिययौ यशोदया

5.19.20

ततः पुरस्कृत्य मदोन्नतं गजं
सिन्दूरशुण्डाधृतहेमशृङ्खलम् ।
समाययौ श्रीवृषभानुमुख्यो
भावान् कृतिस्तत्र कलावतीयुतः

5.19.21

नंदोपनन्दा वृषभानवश्च
गोपाश्च वृद्धास्तरुणार्भकाश्च ।
स्रग्वेणुगुञ्जापरिपिच्छयुक्ता
विनिर्गताः पूर्णमनोरथास्ते

5.19.22

गायंत आरान्नृपनन्दनंदनं
नृत्यंत आचालितपीतवाससः ।
वंशीधरा वेत्रविषाणपाणयः
प्रहर्षिता दर्शनलालसा भृशम्

5.19.23

सखिमुखेभ्यो हरिमागतं परां
निशभ्य राधा शयनात्समुत्थिता ।
ताभ्यः स्वभूषाः प्रददौ प्रहर्षिता
प्रीता स्वगन्धिं नवपद्मिनी यथा

5.19.24

द्वात्रिंशदष्टौ किल षोडश द्वे
यूथैर्युता मैथिल गोपिकानाम् ।
आरुह्य राधा शिबिकां मनोज्ञां
समाययौ श्रीधरदर्शनार्थम्

5.19.25

तथा हि गोप्यः किल कोटिशश्च
त्यक्त्वाऽथ सर्वं स्वगृहस्य कृत्यम् ।
व्यत्यस्तवस्त्राभरणा नृपेश
समाययुः प्रेमचलन्मनोऽङ्गाः

5.19.26

सर्वं व्रजं पादपगोमृगद्विजं
प्रेमातुरं वीक्ष्य समागतं किमु ।
श्रीनंदराजं पितरं च मातरं
ननाम कृष्णः कृतमस्तकांजलिः

5.19.27

श्रीनन्दराजस्तनयं चिरागतं
प्रगृह्य दोर्भ्यां हृदये निधाय तम् ।
संस्नापयामास सुनेत्रजैर्जलै-
र्यशोदया प्राप्तमनोरथश्चिरात्

5.19.28

नन्दोपनन्दान्वृषभानुवृद्धान्
सर्वान्नमस्कृत्य च तत्कृताशीः ।
तथा वयस्यैश्च परस्परं वा
लघूंश्च हस्तग्रहणैः स्थितोऽभूत्

5.19.29

ततः समारुह्य रथं हरिः स्वयं
निधाय नंदं च गजे यशोदया ।
नंदोपनंदैः सहितो गवां गणैः
श्रीनंदराजस्य पुरं विवेश सः

5.19.30

तदैव देवाः किल पुष्पवर्षा-
माचारलाजान् पुरगोपिकाश्च ।
प्रचक्रिरे तत्र जयेति मंगलं
शब्दं च गोपा गृहमागते हरौ

5.19.31

धन्यः सखा ते परमुद्धवोऽय-
मनेन साक्षात्किल दर्शितोऽत्र ।
त्वं जीवनं गोपजनस्य गोपा
ऊचुर्गिरा गद्‌गदयेदमार्ताः

5.19.32

इदं मया ते कथितं नृपेश
पुनर्व्रजे ह्यागमनं हरेश्च ।
किमिच्छसि श्रोतुमथो सुरासुरैः
परं चरित्रं शुभदं विचित्रम्

5.19.19

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
श्रीकृष्णागमनोत्सवो नामैकोनविंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc