भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 4.17

4.17.1

यमुना-स्तवम्
मांधातोवाच -
यमुनायाः स्तवं दिव्यं सर्वसिद्धिकरं परम् ।
सौभरे मुनिशार्दूल वद मां कृपया त्वरम्

4.17.2

श्रीसौभरिरुवाच -
मार्तंडकन्यकायास्तु स्तवं शृणु महामते ।
सर्वसिद्धिकरं भूमौ चातुर्वर्ग्यफलप्रदम्

4.17.3

कृष्णवामांसभूतायै कृष्णायै सततं नमः ।
नमः श्रीकृष्णरूपिण्यै कृष्णे तुभ्यं नमो नमः

4.17.4

यः पापपंकांबुकलंककुत्सितः
कामी कुधीः सत्सु कलिं करोति हि ।
वृन्दावनं धाम ददाति तस्मै
नदन्मिलिन्दादि कलिन्दनन्दिनी

4.17.5

कृष्णे साक्षात्कृष्णरूपा त्वमेव
वेगावर्ते वर्तसे मत्स्यरूपी ।
ऊर्मावूर्मौ कूर्मरूपी सदा ते
बिंदौ बिंदौ भाति गोविन्ददेवः

4.17.6

वन्दे लीलावतीं त्वां
सगनघननिभां कृष्णवामांसभूतां ।
वेगं वै वैरजाख्यं
सकलजलचयं खण्डयंतीं बलात्स्वात् ।
छित्वा ब्रह्माण्डमारात्
सुरनगरनगान् गण्डशैलादिदुर्गान् ।
भित्वा भूखण्डमध्ये
तटनिधृतवतीमूर्मिमालां प्रयान्तीम्

4.17.7

दिव्यं कौ नामधेयं
श्रुतमथ यमुने दण्डयत्यद्रितुल्यं ।
पापव्यूहं त्वखण्डं
वसतु मम गिरां मण्डले तु क्षणं तत् ।
दण्ड्यांश्चाकार्यदण्ड्या
सकृदपि वचसा खण्डितं यद्‍गृहीतं ।
भ्रातुर्मार्तंडसूनो-
रटति पुरि दृढः ते प्रचण्डोऽतिदण्डः

4.17.8

रज्जुर्वा विषयांधकूपतरणे
पापाखुदर्वीकरी ।
वेण्युष्णिक् च विराजमूर्तिशिरसो
मालाऽस्ति वा सुन्दरी ।
धन्यं भाग्यमतः परं भुवि नृणां
यत्रादिकृद्वल्लभा ।
गोलोकेऽप्यतिदुर्लभाऽतिशुभगा
भात्यद्वितीया नदी

4.17.9

गोपीगोकुलगोपकेलिकलिते
कालिन्दि कृष्णप्रभे ।
त्वत्कूले जललोलगोलविचलत्
कल्लोलकोलाहलः ।
त्वत्कांतारकुतूहलालिकुलकृत्
झंकारकेकाकुलः ।
कूजत्कोकिलसंकुलो व्रजलता
लंकारभृत्पातु माम्

4.17.10

भवंति जिह्वास्तनुरोमतुल्या
गिरो यदा भूसिकता इवाशु ।
तदप्यलं यान्ति न ते गुणांतं
संतो महांतः किल शेषतुल्याः

4.17.11

कलिन्दगिरिनन्दिनीस्तव उषस्ययं वापरः
श्रुतश्च यदि पाठितो भुवि तनोति सन्मंगलम् ।
जनोऽपि यदि धारयेत्किल पठेच्च यो नित्यशः
स याति परमं पदं निजनिकुञ्जलीलावृतम्

4.17.17

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे श्रीयमुनास्तवो नाम सप्तदशोऽध्यायः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc