भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 4.16

4.16.1

यमुना कवचम्
मांधातोवाच -
यमुनायाः कृष्णराज्ञ्याः कवचं सर्वतोऽमलम् ।
देहि मह्यं महाभाग धारयिष्याम्यहं सदा

4.16.2

सौभरिरुवाच -
यमुनायाश्च कवचं सर्वरक्षाकरं नृणाम् ।
चतुष्पदार्थदं साक्षाच्छृणु राजन्महामते

4.16.3

कृष्णां चतुर्भुजां श्यामां पुण्डरीकदलेक्षणाम् ।
रथस्थां सुन्दरीं ध्यात्वा धारयेत्कवचं ततः

4.16.4

स्नातः पूर्वमुखो मौनि कृतसंध्यः कुशासने ।
कुशैर्बद्धशिखो विप्रः पठेद्वै स्वस्तिकासनः

4.16.5

यमुना मे शिरः पातु कृष्णा नेत्रद्वयं सदा ।
श्यामा भ्रूभंगदेशं च नासिकां नाकवासिनी

4.16.6

कपोलौ पातु मे साक्षात्परमानन्दरूपिणी ।
कृष्णवामांससंभूता पातु कर्णद्वयं मम

4.16.7

अधरौ पातु कालिन्दी चिबुकं सूर्यकन्यका ।
यमस्वसा कन्धरां च हृदयं मे महानदी

4.16.8

कृष्णप्रिया पातु पृष्ठं तटिनि मे भुजद्वयम् ।
श्रोणीतटं च सुश्रोणी कटिं मे चारुदर्शना

4.16.9

ऊरुद्वयं तु रंभोरुर्जानुनी त्वंघ्रिभेदिनी ।
गुल्फौ रासेश्वरी पातु पादौ पापप्रहारिणी

4.16.10

अंतर्बहिरधश्चोर्ध्वं दिशासु विदिशासु च ।
समंतात्पातु जगतः परिपूर्णतमप्रिया

4.16.11

इदं श्रीयमुनाश्च कवचं परमाद्‌भुतम् ।
दशवारं पठेद्‌भक्त्या निर्धनो धनवान्भवेत्

4.16.12

त्रिभिर्मासैः पठेद्धीमान् ब्रह्मचारी मिताशनः ।
सर्वराज्याधिपत्यञ्च प्राप्यते नात्र संशयः

4.16.13

दशोत्तरशतं नित्यं त्रिमासावधि भक्तितः ।
यः पठेत्प्रयतो भूत्वा तस्य किं किं न जायते

4.16.14

यः पठेत्प्रातरुत्थाय सर्वतीर्थफलं लभेत् ।
अंते व्रजेत्परं धाम गोलोकं योगिदुर्लभम्

4.16.16

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे श्रीयमुनाकवचं नाम षोडशोऽध्यायः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc