भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 3.1

3.1.1

गिरिराजखण्ड - प्रथमोऽध्यायः
श्रीगिरिराजपूजाविधिवर्णनम् -
बहुलाश्व उवाच -
कथं दधार भगवान् गिरिं गोवर्धनं वरम् ।
उच्छिलींध्रं यथा बालो ह्स्तेनैकेन लीलया

3.1.2

परिपूर्णतमस्यास्य श्रीकृष्णस्य महात्मनः ।
वदैतच्चरितं दिव्यमद्‌भुतं मुनिसत्तम

3.1.3

श्रीनारद उवाच -
वार्षिकं हि करं राज्ञे यथा शक्राय वै तथा ।
बलिं ददुः प्रावृडन्ते गोपाः सर्वे कृषीवलाः

3.1.4

महेन्द्रयागसंभारचयं दृष्ट्वैकदा हरिः ।
नन्दं पप्रच्छ सदसि वल्लभानां च शृण्वताम्

3.1.5

श्रीभगवानुवाच -
शक्रस्य पूजनं ह्येतत्किं फलं चास्य विद्यते ।
लौकिकं वा वदन्त्येतदथवा पारलौकिकम्

3.1.6

श्रीनन्द उवाच -
शक्रस्य पूजनं ह्येतद्‌भुक्तिमुक्तिकरं परम् ।
एतद्विना नरो भूमौ जायते न सुखी क्वचित्

3.1.7

श्रीभगवानुवाच -
शक्रादयो देवगणाश्च सर्वतो
भुंजन्ति ये स्वर्गसुखं स्वकर्मभिः ।
विशन्ति ते मर्त्यपदं शुभक्षये
तत्सेवनं विद्धि न मुक्तिकारणम्

3.1.8

भयं भवेद्वै परमेष्ठिने यतो
वार्ता तु का कौ किल तत्कृतात्मनाम् ।
तस्मात्परं कालमनंतमेव हि
सर्वं बलिष्ठं सुबुधा विदुः परे

3.1.9

ततस्तमाश्रित्य सुकर्मभिः परं
भजेद्धरिं यज्ञपतिं सुरेश्वरम् ।
विसृज्य सर्वं मनसा कृतेः फलं
व्रजेत्परं मोक्षमसौ न चान्यथा

3.1.10

गोविप्रसाध्वग्निसुराः श्रुतिस्तथा
धर्मश्च यज्ञाधिपतेर्विभूतयः ।
धिष्ण्येषु चैतेषु हरिं भजन्ति ये
सदा त्विहामुत्र सुखं व्रजन्ति ते

3.1.11

समुत्थितोऽसौ हरिवक्षसो गिरि-
र्गोवर्धनो नाम गिरीन्द्रराजराट् ।
समागतो ह्यत्र पुलस्त्यतेजसा
यद्दर्शनाज्जन्म पुनर्न विद्यते

3.1.12

सम्पूज्य गोविप्रसुरान्महाद्रये
दातव्यमद्यैव परं ह्युपायनम् ।
एष प्रियो मे मखराज एव हि
न चेद्यथेच्छास्ति तथा कुरु व्रज

3.1.13

श्रीनारद उवाच -
तेषां मध्येऽथ सन्नन्दो गोपो वृद्धोऽतिनीतिवित् ।
अतिप्रसन्नः श्रीकृष्णमाह नन्दस्य शृण्वतः

3.1.14

सनंद उवाच -
हे नन्दसूनो हे तात त्वं साक्षाज्ज्ञानशेवधिः ।
कर्तव्या केन विधिना पूजाऽद्रेर्वद तत्त्वतः

3.1.15

श्रीभगवानुवाच -
आलिप्य गोमयेनापि गिरिराजभुवं ह्यधः ।
धृत्वाऽथ सर्वसम्भारं भक्तियुक्तो जितेन्द्रियः

3.1.16

सहस्रशीर्षामंत्रेणाद्रये स्नानं च कारयेत् ।
गंगाजलेन यमुनाजलेनापि द्विजैः सह

3.1.17

शुक्लगोदुग्धधाराभिस्ततः पञ्चामृतैर्गिरिम् ।
स्नापयित्वा गन्धपुष्पैः पुनः कृष्णाजलेन वै

3.1.18

वस्त्रं दिव्यं च नैवेद्यमासनं सर्वतोऽधिकम् ।
मालालंकारनिचयं दत्त्वा दीपावलिं पराम्

3.1.19

ततः प्रदक्षिणां कुर्यान्नमस्कुर्यात्ततः परम् ।
कृतांजलिपुटो भूत्वा त्विदमेतदुदीरयेत्

3.1.20

नमो वृन्दावनाङ्काय तुभ्यं गोलोकमौलिने ।
पूर्णब्रह्मातपत्राय नमो गोवर्धनाय च

3.1.21

पुष्पांजलिं ततः कुर्यान्नीराजनमतः परम् ।
घण्टकांस्यमृदङ्गाद्यैर्वादित्रैर्मधुरस्वनैः

3.1.22

वेदाहमेतं मंत्रेण वर्षलाजैः समाचरेत् ।
तत्समीपे चान्नकूटं कुर्याच्छ्रद्धासमन्वितः

3.1.23

कचोलानां चतुःषष्टिपञ्चपंक्तिसमन्वितम् ।
तुलसीदलमिश्रैश्च श्रीगंगायमुनाजलैः

3.1.24

षट्पञ्चाशत्तमैर्भागैः कुर्यात्सेवां समाहितः ।
ततोऽग्नीन् ब्राह्मणान्पूज्य गाः सुरान् गन्धपुष्पकैः

3.1.25

भोजयित्वा द्विजवरान् सौगंधैर्मिष्टभोजनैः ।
अन्येभ्यश्चाश्वपाकेभ्यो दद्याद्‌भोजनमुत्तमम्

3.1.26

गोपीगोपालवृन्दैश्च गवां नृत्यं च कारयेत् ।
मंगलैर्जयशब्दैश्च कुर्याद्‌गोवर्द्धनोत्सवम्

3.1.27

यत्र गोवर्धनाभावस्तत्र पूजाविधिं शृणु ।
गोमयैर्वर्द्धनं कुर्यात्तदाकारं परोन्नतम्

3.1.28

पुष्पव्यूहैर्लताजालैरिषिकाभिः समन्वितः ।
पूजनीयः सदा मर्त्यैर्गिरिर्गोवर्धनो भुवि

3.1.29

शिलासमानं पुरटं क्षिप्त्वाऽद्रौ तच्छिलां नयेत् ।
गृह्णीयाद्यो विना स्वर्णं स महारौरवं व्रजेत्

3.1.30

शालग्रामस्य देवस्य सेवनं कारयेत्सदा ।
पातकं न स्पृशेत्तं वै पद्मपत्रं यथा जलम्

3.1.31

गिरिराजशिलासेवां यः करोति द्विजोत्तमः ।
सप्तद्वीपमहीतीर्थावगाहफलमेति सः

3.1.32

गिरिराजमहापूजां वर्षे वर्षे करोति यः ।
इह सर्वसुखं भुक्त्वाऽमुत्र मोक्षं प्रयाति सः

3.1.1

इति श्रीगर्गसंहितायां श्रीगिरिराजखण्डे श्रीनारद बहुलाश्व संवादे
श्रीगिरिराजपूजाविधिवर्णनं नाम प्रथमोऽध्यायः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc