भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.26

2.26.1

शंखचूडोपाख्यानम् -
श्रीबहुलाश्व उवाच -
अघासुरादिदैत्यानां ज्योतिः कृष्णे समाविशत् ।
श्रीदाम्नि शंखचूडस्य कस्माल्लीनं बभूव ह

2.26.2

एतद्‌वद महाबुद्धे त्वं परावरवित्तम ।
अहो श्रीकृष्णचंद्रस्य चरितं परमाद्‌भुतम्

2.26.3

पुरा गोलोकवृत्तान्तं नारायणमुखाच्छ्रुतम् ।
सर्वपापहरं पुण्यं शृणु राजन् महामते

2.26.4

राधा श्रीर्विरजा भूश्च तिस्रः पत्‍न्योऽभवन्हरेः ।
तासां राधा प्रियाऽतीव श्रीकृष्णस्य महात्मनः

2.26.5

राधिकासमया राजन् कोटिचंद्रप्रकाशया ।
कुंजे विरजया रेमे एकान्ते चैकदा प्रभुः

2.26.6

सपत्‍नीसहितं कृष्णं राधा श्रुत्वा सखीमुखात् ।
अतीव विमना जाता सपत्‍नीसौख्यदुःखिता

2.26.7

शतयोजनविस्तारं शतयोजनमूर्ध्वगम् ।
कोट्यश्विनीसमायुक्तं कोटिसूर्यसमप्रभम्

2.26.8

विचित्रवर्णसौवर्णमुक्तादामविलंबितम् ।
पताकाहेमकलशैः कोटिभिर्मंडितं रथम्

2.26.9

समारुह्य सखीनां सा वेत्रहस्तैर्दशार्बुदैः ।
हरिं द्रष्टुं जगामाशु श्रीराधा भगवत्प्रिया

2.26.10

तन्निकुंजे द्वारपालं श्रीदामानं महाबलम् ।
हरिन्यस्तं समालोक्य तं निर्भर्त्स्य सखीजनैः

2.26.11

वेत्रैः सन्ताड्य सहसा द्वारि गन्तुं समुद्यता ।
सखीकोलाहलं श्रुत्वा हरिरंतरधीयत

2.26.12

राधाभयाच्च विरजा नदी भूत्वाऽवहत्तदा ।
कोटियोजनमायामं गोलोकं सहसा नदी

2.26.13

सहसा कुण्डलीकृत्वा शुशुभेऽब्धिरिवावनिम् ।
रत्‍नपुष्पैर्विचित्रांगा यथोष्णिङ्‌मुद्रिता तथा

2.26.14

हरिं गतं तं विज्ञाय नदीभूतां च तां तथा ।
आलोक्य तन्निकुञ्जं च स्वकुञ्जं राधिका ययौ

2.26.15

अथ कृष्णो नदीभूतां विरजां विरजांबराम् ।
सविग्रहां चकाराशु स्ववरेण नृपेश्वर

2.26.16

पुनर्विरजया सार्धं विरजातीरजे वने ।
निकुंजवृंदकारण्ये चक्रे रासं हरिः स्वयम्

2.26.17

विरजायां सप्त सुता बभूवुः कृष्णतेजसा ।
निकुंजं ते ह्यलंचक्रुः शिशवो बाललीलया

2.26.18

एकदा तैः कलिरभूल्लघुर्ज्येष्ठश्च ताडितः ।
पलायमानो भयभृन्मातुः क्रोडे जगाम ह

2.26.19

तल्लालनं समारेभे समाश्वास्य सुतं सती ।
तदा वै भगवान् साक्षात्तत्रैवान्तरधीयत

2.26.20

रुषा सुतं शशापेयं श्रीकृष्णविरहातुरा ।
त्वं जलं भव दुर्बुद्धे कृष्णविच्छेदकारकः

2.26.21

कदापि त्वं जलं मर्त्या न पिबंतु कदाचन ।
ज्येष्ठान् शशाप व्रजत मेदिनीं कलिकारकाः

2.26.22

जलरूपा पृथग्याना न समेता भविष्यथ ।
नैमित्तिकं च भवतां मेलनं स्यात्सदा लये

2.26.23

श्रीनारद उवाच -
इत्थं ते मातृशापेन धरणीं वै समागताः ।
प्रियव्रतरथांगानां परिखासु समास्थिताः

2.26.24

लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः ।
बभूवुः सप्त ते राजन्नक्षोभ्याश्च दुरत्ययाः

2.26.25

दुर्विगाह्याश्च गंभीरा आयामं लक्षयोजनात् ।
द्विगुणं द्विगुणं जातं द्वीपे द्वीपे पृथक् पृथक

2.26.26

अथ पुत्रेषु यातेषु पुत्रस्नेहातिविह्वला ।
स्वप्रियां तां विरहिणीमेत्य कृष्णो वरं ददौ

2.26.27

कदा न ते मे विच्छेदो मयि भीरु भविष्यति ।
स्वतेजसा स्वपुत्राणां सदा रक्षां करिष्यसि

2.26.28

अथ राधां विरहिणीं ज्ञात्वा कृष्णो हरिः स्वयम् ।
श्रीदाम्ना सह वैदेह तन्निकुंजं समाययौ

2.26.29

निकुञ्जद्वारि संप्राप्तं ससखं प्राणवल्लभम् ।
वीक्ष्य मानवती भूत्वा राधा प्राह हरिं वचः

2.26.30

तत्रैव गच्छ यत्राभूत्स्नेहस्ते नूतनो हरे ।
नदीभूता हि विरजा नदो भवितुमर्हसि

2.26.31

कुरु वासं तन्निकुंजे मया ते किं प्रयोजनम् ।
श्रीनारद उवाच -
इति श्त्वाऽथ भगवान् तन्निकुंजं जगाम ह

2.26.32

श्रीकृष्ण मित्रं श्रीदामा राधां प्राह रुषा वचः ।
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम्

2.26.33

असंख्यब्रह्मांडपतिर्गोलोकेषु विराजते ।
त्वादृशीः कोटिशः शक्तीः कर्तुं शक्तः परात्परः

2.26.34

तं विनिंदसि राधे त्वं
मानं मा कुरु मा कुरु ।
राधोवाच -
हे मूढ पितरं स्तुत्वा
मातरं मां विनिन्दसि

2.26.35

राक्षसो भव दुर्बुद्धे गोलोकाच्च बहिर्भव ।
श्रीदामोवाच -
अनुकूलेन कृष्णेन जातं मानं शुभे तव

2.26.36

तस्माद्‌भुवि परात्कृष्णात् परिपूर्णतमात्प्रभो ।
शतवर्षं ते वियोगो भविष्यति न संशयः

2.26.37

श्रीनारद उवाच -
एवं परस्परं शापात् स्वकृताद्‌भयभीतयोः ।
अतीव चिन्तां गतयोराविरासीत्स्वयं प्रभुः

2.26.38

श्रीभगवानुवाच -
वचनं वै स्वनिगमं दूरीकृर्तुं क्षमोऽस्म्यहम् ।
भक्तानां वचनं राधे दूरीकर्तुं न च क्षमः

2.26.39

मा शोचं कुरु कल्याणि वरं मे शृणु राधिके ।
मासं मासं वियोगांते दर्शनं मे भविष्यति

2.26.40

भुवो भारावताराय कल्पे वाराहसंज्ञके ।
भक्तानां दर्शनं दातुं गमिष्यामि त्वया सह

2.26.41

श्रीदमन् शृणु मे वाक्यमंशेन त्वसुरो भव ।
वैवस्वतान्तरे रासे हेलनं मे करिष्यसि

2.26.42

मद्धस्तेन च ते मृत्युर्भविष्यति न संशयः ।
पुनः स्वविरहं पूर्वं प्राप्स्यसि त्वं वरान्मम

2.26.43

श्रीनारद उवाच -
एवं शापेन श्रीदामा पुरा पुण्यजनालये ।
सुधनस्य गृहे जन्म लेभे राजन् महातपाः

2.26.44

शंखचूड इति ख्यातो धनदानुचरोऽभवत् ।
तस्माच्छ्रीदाम्नि तज्ज्योतिः लीनं जातं विदेहराट्

2.26.45

स्वात्मारमो लीलया सर्वकार्यं
स्वस्मिन् धाम्नि ह्यद्वितीयः करोति ।
यः सर्वेशः सर्वरूपो महात्मा
चित्रं नेदं नौमि कृष्णाय तस्मै

2.26.46

इदं मया ते कथितं मनोहरं
वैदेह वृंदावनखंडमग्रतः ।
श्रृणोति चैतच्चरितं नरो वरः
परंपदं पुण्यतमं प्रयाति सः

2.26.26

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
शंखचूडोपाख्यानं नाम षड्‌विंशोऽध्यायः

समाप्तोऽयं वृंदावनखण्डः
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc