भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.8

2.8.1

श्रीनारदौवाच ॥
एकदा सबलः कृष्णश्चारयन्गा मनोहराः ॥
गोपालैः सहितः सर्वैर्ययौ तालवनं नवम्

2.8.2

धेनुकस्य भयाद्गोपा न गतास्ते वनान्तरम् ॥
कृष्णोपि न गतस्तत्र बल एको विवेश ह

2.8.3

नीलांबरं कटौ बद्धा बलदेवो महाबलः ॥
परिपक्वफलार्थं हि तद्वने विचचार ह

2.8.4

बाहुभ्यां कंपयंस्तालान्फलसंघं निपातयन् ॥
गर्जंश्च निर्भयः साक्षादनन्तोनन्तविक्रमः

2.8.5

फलानां पततां शब्दं श्रुत्वा क्रोधावृतः खरः ॥
मध्याह्ने स्वापकृद्दुष्टो भीमः कंससखो बली

2.8.6

आययौ संमुखे योद्धुं बलदेवस्य धेनुकः ॥
बलं पश्चिम पादाभ्यां निहत्योरसि सत्वरम्

2.8.7

चकार खरशब्दं स्वं परिधावन्मुहुर्मुहुः ॥
गृहीत्वा धेनुकं शीघ्रं बलः पश्चिमपादयोः

2.8.8

चिक्षेप तालवृक्षे च ह- स्तेनैकेनलीलया ॥
तेन भग्नश्च तालोपि तालान्पार्श्वस्थितान्बहून्

2.8.9

पातयामास राजेन्द्र तदद्भुतमिवाभवत् ॥
पुनरुत्थाय दैत्येंद्रो बलं जग्राह रोषतः

2.8.2.8.10

योजनं नोदयामास गजं प्रति गजो यथा ॥
गृहीत्वा तं बलः सद्यो भ्रामयित्वाथ धेनुकम्

2.8.11

भूपृष्ठे पोथयामास मूर्च्छितो भग्नमस्तकः ॥
क्षणेन पुनरुत्थाय क्रोधसंयुक्तविग्रहः

2.8.12

मूर्ध्नि कृत्वा चतुःशृंगं धृत्वा रूपं भयंकरम् ॥
गोपान्विद्रावयामास शृंगैस्तीक्ष्णैर्भयंकरैः

2.8.13

अग्रे पलायितान्गोपान्दुद्रावाशु मदोत्कटः ॥
श्रीदामा तं च दंडेन सुबलो मुष्टिना तथा

2.8.14

स्तोकः पाशेन तं दैत्यं संतताड महाबलम् ॥
क्षेपणेनार्जुनोंशुश्च दैत्यं लत्तिकया खरम्

2.8.15

विशालर्षभ एत्याशु पादेन स्वबलेन च ॥
तेजस्वी ह्यर्द्धचन्द्रेण देवप्रस्थ श्च पेटकैः

2.8.16

वरूथपः कंदुकेन संतताड महाखरम् ॥
अथ कृष्णोपि तं नीत्वा हस्ताभ्यां धेनुकासुरम्

2.8.17

भ्रामयित्वाशु चिक्षेप गिरिगोवर्द्ध- नोपरि ॥
श्रीकृष्णस्य प्रहारेण मूर्च्छितो घटिकाद्वयम्

2.8.18

पुनरुत्थाय स्वतनुं विधुन्वन्दारयन्मुखम् ॥
शृङ्गाभ्यां श्रीहरिं नीत्वा धावन्दैत्यो न भोगतः

2.8.19

चचार तेन खे युद्धमूर्ध्वं वै लक्षयोजनम् ॥
गृहीत्वा धेनुकं दैत्यं श्रीकृष्णो भगवान्स्वयम्

2.8.2.8.20

चिक्षेपाधो भूमिमध्ये चूर्णितास्थिः स मूर्च्छितः ॥
पुनरुत्थाय शृङ्गाभ्यां नादं कृत्वातिभैरवम्

2.8.21

गोवर्धनं समुत्पाट्य श्रीकृष्णे प्राहिणोत्खरः ॥
गिरिं गृहीत्वा श्रीकृष्णः णाक्षिपत्त स्य मस्तके

2.8.22

दैत्यो गिरिं गृहीत्वाथ श्रीकृष्णे प्राहिणोद्बली॥
कृष्णो गोवर्धनं नीत्वा पूर्वस्थाने समाक्षिपत्

2.8.24

पुनर्धावन्महादैत्यः शृङ्गाभ्यां । दारयन्भुवम्॥
बलं पश्चिमपादाभ्यां ताडयित्वा जगर्ज ह।२३।
ननाद तेन ब्रह्मांडं प्रैजद्भूखण्डमण्डलम्॥
हस्ताभ्यां संगृहीत्वा तं बलदेवो महाबलः

2.8.25

भूपृष्ठे पोथयामास मूर्च्छितं भग्नमस्तकम् ॥
पुनस्तताड तं दैत्यं मुष्टिना ह्यच्युताग्रजः

2.8.26

तेन मुष्टिप्रहारेण सद्यो वै निधनं गतः ॥
तदैव ववृषुर्देवाः पुष्पैर्नन्दनसंभवैः

2.8.27

देहाद्विनिर्गतः सोऽपि श्यामसुन्दरविग्रहः ॥
स्रग्वी पीतांबरो देवो वनमालाविभूषितः

2.8.28

लक्षपार्षदसंयुक्तः सहस्र ध्वजशोभितः ॥
सहस्रचक्रध्वनिभृद्धयायुतसमन्वितः

2.8.29

लक्षचामरशोभाढ्योऽरुणवर्णोऽतिरत्नभृत् ॥
दिव्ययोजनविस्तीर्णो मनोयायी मनोहरः

2.8.2.8.30

किंकिणीजालसंयुक्तो घटामंजीरसंयुतः ॥
हरिं प्रदक्षिणीकृत्य सबलं दिव्यरूपधृक्

2.8.31

दिव्यं रथं समारुह्य द्योतयन्मंडलन्दिशाम् ॥
जगाम दैत्यो हे राजन्गोलोकं प्रकृतेः परम्

2.8.32

श्रीकृष्णो धेनुकं हत्वा सबलो बालकैः सह ॥
तद्यशस्तु प्रगायद्भिर्बभौ गोकुलगोगणैः

2.8.33

राजोवाच ॥
मुने मुक्तिं कथं प्राप्तः पूर्वं को धेनुकासुरः ॥
कथं खरत्वमापन्न एतन्मे ब्रूहि तत्त्वतः

2.8.34

श्रीनारद उवाच ॥
वैरोचनेर्बलेः पुत्रो नाम्ना साहसिको बली ॥
नारीणां दशसाहस्रै रेमे वै गन्धमादने

2.8.35

वादित्राणां नूपुराणां शब्दोभूत्तद्वने महान्॥
गुहायामास्थितस्यापि श्रीकृष्णं स्मरतो मुनेः

2.8.36

दुर्वाससोऽथ तेनापि ध्यानभंगो बभूव ह ॥
निर्गतः पादुकारूढो दुर्वासाः कृशविग्रहः

2.8.37

दीर्घश्मश्रुर्यष्टि धरः क्रोधपुंजोनलद्युतिः ॥
यस्य शापाद्विश्वमिदं कंपते स जगाद ह

2.8.38

दुर्वासा उवाच ॥
उत्तिष्ठ गर्दभाकार गर्दभो भव दुर्मते ॥
वर्षाणां तु चतुर्लक्षं व्यतीते भारते पुनः

2.8.39

माधुरे मंडले दिव्ये पुण्ये तालवने वने ॥
बलदेवस्य हस्तेन मुक्तिस्ते भविताऽसुर

2.8.2.8.40

श्रीनारद उवाच ॥
तस्माद्बलस्य हस्तेन श्रीकृष्णस्तं जघान ह ॥
प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः

2.8.8

इति श्रीमद्गर्गसंहितायां वृन्दावनखण्डे धेनुकासुरमोक्षो नामाष्टमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc