भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 2.13

2.13.1

शेषोपाख्यानवर्णनम् -
वैदेह उवाच -
यद्‌रजो दुर्लभं लोके योगिनां बहुजन्मभिः ।
तत्पादाब्जं हरेः साक्षाद्‌बभौ कालियमूर्द्धसु

2.13.2

कोऽयं पूर्वं कुशलकृत्कालियो फणिनां वरः ।
एनं वेदितुमिच्छामि ब्रूहि देवर्षिसत्तम

2.13.3

श्रीनारद उवाच -
स्वायंभुवान्तरे पूर्वं नाम्ना वेदशिरा मुनिः ।
विंध्याचले तपोऽकार्षीद्‌भृगुवंशसमुद्‌भवः

2.13.4

तदाश्रमे तपः कर्तुं प्राप्तो ह्यश्वशिरा मुनिः ।
तं वीक्ष्य रक्तनयनः प्राह वेदशिरा रुषा

2.13.5

वेदशिरा उवाच -
ममाश्रमे तपो विप्र मा कुर्याः सुखदं न हि ।
अन्यत्र ते तपोयोग्या भूमिर्नास्ति तपोधन

2.13.6

श्रीनारद उवाच -
श्रुत्वाऽथ वेदशिरसो वाक्यं ह्यश्वशिरा मुनिः ।
क्रोधयुक्तो रक्तनेत्रः प्राह तं मुनिपुंगवम्

2.13.7

अश्वशिरा उवाच -
महाविष्णोरियं भूमिः न ते मे मुनिसत्तम ।
कतिभिर्मुनिभिश्चात्र न कृतं तप उत्तमम्

2.13.8

श्वसन् सर्प इव त्वं भो वृथा क्रोधं करोषि हि ।
तदा सर्पो भव त्वं हि भूयात्ते गरुडाद्‌भयम्

2.13.9

वेदशिरा उवाच -
त्वं महादुरभिप्रायो लघुद्रोहे महोद्यमः ।
कार्यार्थी काम इव कौ त्वं काको भव दुर्मते

2.13.10

आविरासीत्ततो विष्णुरित्थं च शपतोस्तयोः ।
स्वस्वशापाद्दुःखितयोः सांत्वयामास तौ गिरा

2.13.11

श्रीभगवानुवाच -
युवां तु मे समौ भक्तौ भुजाविव तनौ मुनी ।
स्ववाक्यं तु मृषा कर्तुं समर्थोऽहं मुनीश्वरौ

2.13.12

भक्तवाक्यं मृषा कर्तुं नेच्छामि शपथो मम ।
ते मूर्ध्नि हे वेदशिरः चरणौ मे भविष्यतः

2.13.13

तदा ते गरुडाद्‌भीतिः न भविष्यति कर्हिचित् ।
शृणु मेऽश्वशिरो वाक्यं शोचं मा कुरु मा कुरु

2.13.14

काकरूपेऽपि सुज्ञानं ते भविष्यति निश्चितम् ।
परं त्रैकालिकं ज्ञानं संयुतं योगसिद्धिभिः

2.13.15

श्रीनारद उवाच -
उत्युक्त्वाथ गते विष्णौ मुनिरश्वशिरा नृप ।
साक्षात्काकभुषंडोऽभूद्‌योगींद्रो नीलपर्वते

2.13.16

रामभक्तो महातेजाः सर्वशास्त्रार्थदीपकः ।
रामायणं जगौ यो वै गरुडाय महात्मने

2.13.17

चाक्षुषे ह्यन्तरे प्राप्ते दक्षः प्राचेतसो नृप ।
कश्यपाय ददौ कन्या एकादश मनोहराः

2.13.18

तासां कद्रूश्च या श्रेष्ठा साऽद्यैव रोहिणी स्मृता ।
वसुदेवप्रिया यस्यां बलदेवोऽभवत्सुतः

2.13.19

सा कद्रूश्च महासर्पान् जनयामास कोटिशः ।
महोद्‌भटान् विषबलानुग्रान् पंचशताननान्

2.13.20

महाफणिधरान् कांश्चिद्दुःसहांश्च शताननान् ।
तेषां वेदशिरा नाम कालियोऽभून्महाफणी

2.13.21

तेषामादौ फणीन्द्रोऽभूच्छेषोऽनन्तः परात्परः ।
सोऽद्यैव बलदेवोऽस्ति रामोऽनन्तोऽच्युताग्रजः

2.13.22

एकदा श्रीहरिः साक्षाद्‌भगवान् प्रकृतेः परः ।
शेषं प्राह प्रसन्नात्मा मेघगंभीरया गिरा

2.13.23

श्रीभगवानुवाच - भूमंडलं समाधातुं सामर्थ्यं कस्यचिन्न हि ।
तस्मादेनं महीगोलं मूर्ध्नि तं हि समुद्धर

2.13.24

अनंतविक्रमस्त्वं वै यतोऽनन्त इति स्मृतः ।
इदं कार्यं प्रकर्तव्यं जनकल्याणहेतवे

2.13.25

शेष उवाच -
अवधिं कुरु यावत्त्वं धरोद्धारस्य मे प्रभो ।
भूभारं धारयिष्यामि तावत्ते वचनादिह

2.13.26

श्रीभगवानुवाच -
नित्यं सहस्रवदनैरुच्चारं च पृथक् पृथक् ।
मद्‌गुणस्फुरतां नाम्नां कुरु सर्पेंद्र सर्वतः

2.13.27

मन्नामानि च दिव्यानि यदा यांत्यवसानताम् ।
तदा भूभारमुत्तार्य फणिस्त्वं सुसुखी भव

2.13.28

शेष उवाच -
आधारोऽहं भविष्यामि मदाधारश्च को भवेत् ।
निराधारः कथं तोये तिष्ठामि कथय प्रभो

2.13.29

श्रीभगवानुवाच -
अहं च कमठो भूत्वा धारयिष्यामि ते तनुम् ।
महाभारमयीं दीर्घां मा शोचं क्रु मत्सखे

2.13.30

श्रीनारद उवाच -
तदा शेषः समुत्थाय नत्वा श्रीगरुडध्वजम् ।
जगाम नृप पातालादधो वै लक्षयोजनम्

2.13.31

गृहीत्वा स्वकरेणेदं गरिष्ठं भूमिमंडलम् ।
दधार स्वफणे शेषोऽप्येकस्मिंश्चंडविक्रमः

2.13.32

संकर्षणेऽथ पाताले गतेऽनन्तपरात्परे ।
अन्ये फणीन्द्रास्तमनु विविशुर्ब्रह्मणोदिताः

2.13.33

अतले वितले केचित्सुतले च महातले ।
तलातले तथा केचित्संप्राप्तास्ते रसातले

2.13.34

तेभ्यस्तु ब्रह्मणा दत्तं द्वीपं रमणकं भुवि ।
कालियप्रमुखास्तस्मिन् अवसन्सुखसंवृताः

2.13.35

इति ते कथितं राजन् कालियस्य कथानकम् ।
भुक्तिदं मुक्तिदं सारं किं भूयः श्रोतुमिच्छसि

2.13.13

इति श्रीगर्गसंहितायां वृन्दावनखण्डे
शेषोपाख्यानवर्णनं नाम त्रयोशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc