भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.59

10.59.1

अश्वमेधखण्डः - एकोनषष्टितमोऽध्यायः
श्रीकृष्णसहस्रनाम -
गर्ग उवाच -
अथोग्रसेनो नृपतिः पुत्रस्याशां विरज्य च ।
व्यासं पप्रच्छ सन्देहं ज्ञात्वा विश्वं मनोमयम्

10.59.2

उग्रसेन उवाच -
ब्रह्मन्केन प्रकारेण हित्वा च जगतः सुखम् ।
भजेत्कृष्णं परंब्रह्म तन्मे व्याख्यातुमर्हसि

10.59.3

व्यास उवाच -
त्वदग्रे कथयिष्यामि सत्यं हितकरं वचः ।
उग्रसेन महाराज शृणुष्वैकाग्रमानसः

10.59.4

सेवनं कुरु राजेन्द्र राधाश्रीकृष्णयोः परम् ।
नित्यं सहस्रनामभ्यामुभयोर्भक्तितः किल

10.59.5

सहस्रनाम राधाया विधिर्जानाति भूपते ।
शङ्‌करो नारदश्चैव केचिद्वै चास्मदादयः

10.59.6

उग्रसेन उवाच -
राधिका नामसाहस्रं नारदाच्च पुरा श्रुतम् ।
एकान्ते दिव्यशिबिरे कुरुक्षेत्रे रविग्रहे

10.59.7

न श्रुतं नामसाहस्रं कृष्णस्याक्लिष्टकर्मणः ।
वद तन्मे च कृपया येन श्रेयोऽहमाप्नुयाम्

10.59.8

गर्ग उवाच -
श्रुत्वोग्रसेनवचनं वेदव्यासो महामुनिः ।
प्रशस्य तं प्रीतमना प्राह कृष्णं विलोकयन्

10.59.9

व्यास उवाच -
शृणु राजन्प्रवक्ष्यामि सहस्रं नाम सुन्दरम् ।
पुरा स्वधाम्नि राधायै कृष्णेनानेन निर्मितम्

10.59.10

श्रीभगवानुवाच -
इदं रहस्यं किल गोपनीयं
दत्ते च हानिः सततं भवेद्धि ।
मोक्षप्रदं सर्वसुखप्रदं शं
परं परार्थं पुरुषार्थदं च

10.59.11

रूपं च मे कृष्णसहस्रनाम
पठेत्तु मद्‌रूप इव प्रसिद्धः ।
दातव्यमेवं न शठाय कुत्र
न दाम्भिकायोपदिशेत्कदापि

10.59.12

दातव्यमेवं करुणावृताय
गुर्वंघ्रिभक्तिप्रपरायणाय ।
श्रीकृष्णभक्ताय सतां पराय
तथा मदक्रोधविवर्जिताय

10.59.13

ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमंत्रस्य नारायणऋषिः ।
भुजङ्‌गप्रयातं छन्दः । श्रीकृष्णचन्द्रो देवता ।
वासुदेवो बीजं । श्रीराधा शक्तिः । मन्मथः कीलकं ।
श्रीपूर्णब्रह्मकृष्णचन्द्रभक्तिजन्मफलप्राप्तये जपे विनियोगः ॥ ॥
छंदः - श्रीभुजङ्‌गप्रयात
अथ ध्यानम् -
शिखिमुकुटविशेषं नीलपद्माङ्‌गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।
मधुररवकलेशं शं भजे भ्रातृशेषं
व्रजजनवनितेशं माधवं राधिकेशम्

10.59.14

इति ध्यानम्
हरिर्देवकीनन्दनः कंसहंता
परात्मा च पीताम्बरः पूर्णदेवः ।
रमेशस्तु कृष्णः परेशः पुराणः
सुरेशोऽच्युतो वासुदेवश्च देवः

10.59.15

धराभारहर्ता कृती राधिकेशः
परो भूवरो दिव्यगोलोकनाथः ।
सुदाम्नस्तथा राधिकाशापहेतु-
र्घृणी मानिनी मानदो दिव्यलोकः

10.59.16

लसद्‌गोपवेषो ह्यजो राधिकात्मा
चलत्कुण्डलः कुन्तली कुन्तलस्रक् ।
रथस्थः कदा राधया दिव्यरत्‍नः
सुधासौधभूचारणो दिव्यवासाः

10.59.17

कदा वृन्दकारण्यचारी स्वलोके
महारत्‍नसिंहासनस्थः प्रशान्तः ।
महाहंसभैश्चामरैर्वीज्यमान-
श्चलच्छत्रमुक्तावलीशोभमानः

10.59.18

सुखी कोटिकन्दर्पलीलाभिरामः
क्वणन्नूपुरालङ्कृतांघ्रिः शुभांघ्रिः ।
सुजानुश्च रंभाशुभोरुः कृशाङ्‌गः
प्रतापी भुशुण्डासुदोर्दण्डखण्डः

10.59.19

जपापुष्पहस्तश्च शातोदरश्री-
र्महापद्मवक्षस्थलश्चन्द्रहासः ।
लसत्कुन्ददन्तश्च बिम्बाधरश्रीः
शरत्पद्मनेत्रः किरीटोज्ज्वलाभः

10.59.20

सखीकोटिभिर्वर्तमानो निकुञ्जे
प्रियाराधया राससक्तो नवाङ्‌गः ।
धराब्रह्मरुद्रादिभिः प्रार्थितः सद्-
धराभारदूरीकृतोऽर्थं प्रजातः

10.59.21

यदुर्देवकीसौख्यदो बन्धनच्छित्-
सशेषो विभुर्योगमायी च विष्णुः ।
व्रजे नन्दपुत्रो यशोदासुताख्यो
महासौख्यदो बालरूपः शुभाङ्‌गः

10.59.22

तथा पूतना मोक्षदः श्यामरूपो
दयालुस्त्वनोभञ्जनः पल्लवांघ्रिः ।
तृणावर्त्तसंहारकारी च गोपो
यशोदायशो विश्वरूपप्रदर्शी

10.59.23

तथा गर्गदिष्टश्च भाग्योदयश्री-
र्लसद्‌बालकेलिः सरामः सुवाचः ।
क्वणन्नूपुरैः शब्दयुग्रिङ्‌गमाण-
स्तथा जानुहस्तैर्व्रजेशाङ्‌गणे वा

10.59.24

दधिस्पृक्च हैयङ्‌गवीदुग्धभोक्ता
दधिस्तेयकृद्‌दुग्धभुग्भाण्डभेत्ता ।
मृदं भुक्तवान्गोपजो विश्वरूपः
प्रचण्डांशुचण्डप्रभामण्डिताङ्‌गः

10.59.25

यशोदाकरैर्बंधनं प्राप्त आद्यो
मणिग्रीवमुक्तिप्रदो दामबद्धः ।
कदा नृत्यमानो व्रजे गोपिकाभिः
कदा नन्दसन्नन्दकैर्लाल्यमानः

10.59.26

कदा गोपनन्दांकगोपालरूपी
कलिन्दाङ्‌गजाकूलगो वर्त्तमानः ।
घनैर्मारुतैश्च्छिन्नभाण्डीरदेशे
गृहीतो वरो राधया नन्दहस्तात्

10.59.27

निकुञ्जे च गोलोकलोकागतेऽपि
महारत्‍नसङ्‌घैः कदम्बावृतेऽपि ।
तदा ब्रह्मणा राधिकासद्विवाहे
प्रतिष्ठां गतः पूजितः साममंत्रैः

10.59.28

रसी रासयुङ्‌मालतीनां वनेऽपि
प्रियाराधया राधितार्थं रमेशः ।
धरानाथ आनन्ददः श्रीनिकेतो
वनेशो धनी सुन्दरो गोपिकेशः

10.59.29

कदा राधया प्रापितो नन्दगेहे
यशोदाकरैर्लालितो मन्दहासः ।
भयी क्वापि वृन्दारकारण्यवासी
महामन्दिरे वासकृद्देवपूज्यः

10.59.30

वने वत्सचारी महावत्सहारी
बकारिः सुरैः पूजितोऽघारिनामा ।
वने वत्सकृद्‌गोपकृद्‌गोपवेषः
कदा ब्रह्मणा संस्तुतः पद्मनाभः

10.59.31

विहारी तथा तालभुग्धेनुकारी
सदा रक्षको गोविषार्त्तिप्रणाशी ।
कलिन्दाङ्‌गजाकूलगः कालियस्य
दमी नृत्यकारी फणेष्वप्रसिद्धः

10.59.32

सलीलः शमीज्ञानदः कामपूर-
स्तथा गोपयुग्गोप आनन्दकारी ।
स्थिरी ह्यग्निभुक्पालको बाललीलः
सुरागश्च वंशीधरः पुष्पशीलः

10.59.33

प्रलम्बप्रभानाशको गौरवर्णो
बलो रोहिणीजश्च रामश्च शेषः ।
बली पद्मनेत्रश्च कृष्णाग्रजश्च
धरेशः फणीशस्तु नीलाम्बराभः

10.59.34

महासौख्यदो ह्यग्निहारव्रजेशः
शरद्ग्रीष्मवर्षाकरः कृष्णवर्णः ।
व्रजे गोपिकापूजितश्चीरहर्ता
कदम्बे स्थितश्चीरदः सुन्दरीशः

10.59.35

क्षुधानाशकृद्यज्ञपत्‍नीमनस्पृक्-
कृपाकारकः केलिकर्तावनीशः ।
व्रजे शक्रयागप्रणाशी मिताशी
शुनासीरमोहप्रदो बालरूपी

10.59.36

गिरेःपूजको नन्दपुत्रो ह्यगध्रः
कृपाकृच्च गोवर्धनोद्धारिनामा ।
तथा वातवर्षाहरो रक्षकश्च
व्रजाधीशगोपाङ्‌गनाशङ्‌कितः सन्

10.59.37

अगेन्द्रोपरि शक्रपूज्यः स्तुतः प्राङ्‌
मृषाशिक्षको देव गोविन्दनामा ।
व्रजाधीशरक्षाकरः पाशिपूज्यो-
ऽनुजैर्गोपजैर्दिव्यवैकुण्ठदर्शी

10.59.38

चलच्चारुवंशीक्वणः कामिनीशो
व्रजे कामीनीमोहदः कामरूपः ।
रसाक्तो रसी रासकृद्‌राधिकेशो
महामोहदो मानिनीमानहारी

10.59.39

विहारी वरो मानहृद्राधिकाङ्गो
धराद्वीपगः खण्डचारी वनस्थः ।
प्रियो ह्यष्टवक्रर्षिद्रष्टा सराधो
महामोक्षदः पद्महारी प्रियार्थः

10.59.40

वटस्थः सुरश्चन्दनाक्तः प्रसक्तो
व्रजं ह्यागतो राधया मोहिनीषु ।
महामोहकृद्‌गोपिकागीतकीर्ती
रथस्थः पटी दुःखिताकामिनीशः

10.59.41

वने गोपिकात्यागकृत्पादचिह्न-
प्रदर्शी कलाकारः काममोही ।
वशी गोपिकामध्यगः पेशवाचः
प्रियाप्रीतिकृद्‍रासरक्तः कलेशः

10.59.42

रसारक्तचित्तो ह्यनन्तस्वरूपः
स्रजा संवृतो बल्लवीमध्यसंस्थः ।
सुबाहुः सुपादः सुवेशः सुकेशो
व्रजेशः सखा वल्लभेशः सुदेशः

10.59.43

क्वणत्किङ्‌किणीजालभृन्नूपुराढ्यो
लसत्कङ्‌कणो ह्यङ्‌गदी हारभारः ।
किरीटी चलत्कुण्डलश्चाङ्‌गुलीय-
स्फुरत्कौस्तुभो मालतीमण्डिताङ्‌गः

10.59.44

महानृत्यकृद्‌रासरङ्‌गः कलाढ्य-
श्चलद्धारभो भामिनीनृत्ययुक्तः ।
कलिन्दाङ्‌गजाकेलिकृत्कुंकुमश्रीः
सुरैर्नायिकानायकैर्गीयमानः

10.59.45

सुखाढ्यस्तु राधापतिः पूर्णबोधः
कटाक्षस्मिती वल्गितभ्रूविलासः ।
सुरम्योऽलिभिः कुन्तलालोलकेशः
स्फुरद्‌बर्हकुन्दस्रजा चारुवेषः

10.59.46

महासर्पतो नन्दरक्षापरांघ्रिः
सदा मोक्षदः शङ्‌खचूडप्रणाशी ।
प्रजारक्षको गोपिकागीयमानः
ककुद्मिप्रणाशप्रयासः सुरेज्यः

10.59.47

कलिः क्रोधकृत्कंसमंत्रोपदेष्टा
तथाक्रूरमंत्रोपदेशी सुरार्थः ।
बली केशिहा पुष्पवर्षोऽमलश्री-
स्तथा नारदाद्दर्शितो व्योमहन्ता

10.59.48

तथाक्रूरसेवापरः सर्वदर्शी
व्रजे गोपिकामोहदः कूलवर्ती ।
सती राधिकाबोधदः स्वप्नकर्ता
विलासी महामोहनाशी स्वबोधः

10.59.49

व्रजे शापतस्त्यक्तराधासकाशो
महामोहदावाग्निदग्धः पतिश्च ।
सखीबन्धनान्मोहिताक्रूर आरात्-
सखीकङ्‌कणैस्ताडिताक्रूररक्षी

10.59.50

रथस्थो व्रजे राधया कृष्णचन्द्रः
सुगुप्तो गमी गोपकैश्चारुलीलः ।
जलेऽक्रूरसन्दर्शितो दिव्यरूपो
दिदृक्षुः पुरीमोहिनीचित्तमोही

10.59.51

तथा रङ्‌गकारप्रणाशी सुवस्त्रः
स्रजी वायकप्रीतिकृन्मालिपूज्यः ।
महाकीर्तिदश्चापि कुब्जाविनोदी
स्फुरच्चण्डकोदण्डरुग्णप्रचण्डः

10.59.52

भटार्तिप्रदः कंसदुःस्वप्नकारी
महामल्लवेषः करीन्द्रप्रहारी ।
महामात्यहा रङ्‌गभूमिप्रवेशी
रसाढ्यो यशःस्पृग्बली वाक्पटुश्रीः

10.59.53

महामल्लहा युद्धकृत्स्त्रीवचोऽर्थी
धरानायकः कंसहन्ता यदुः प्राक् ।
सदा पूजितो ह्युग्रसेनप्रसिद्धो
धराराज्यदो यादवैर्मण्डिताङ्‌गः

10.59.54

गुरोः पुत्रदो ब्रह्मविद्ब्रह्मपाठी
महाशङ्‌खहा दण्डधृक्पूज्य एव ।
व्रजे ह्युद्धवप्रेषितो गोपमोही
यशोदाघृणी गोपिकाज्ञानदेशी

10.59.55

सदा स्नेहकृत्कुब्जया पूजिताङ्‌ग-
स्तथाक्रूरगेहंगमी मंत्रवेत्ता ।
तथा पाण्डवप्रेषिताऽक्रूर एव
सुखी सर्वदर्शी नृपानन्दकारी

10.59.56

महाक्षौहिणीहा जरासन्धमानी
नृपो द्वारकाकारको मोक्षकर्ता ।
रणी सार्वभौमस्तुतो ज्ञानदाता
जरासन्धसङ्‌कल्पकृद्धावदंघ्रिः

10.59.57

नगादुत्पतद्द्वारिकामध्यवर्ती
तथा रेवतीभूषणस्तालचिह्नः ।
यदू रुक्मिणीहारकश्चैद्यवेद्य-
स्तथा रुक्मिरूपप्रणाशी सुखाशी

10.59.58

अनन्तश्च मारश्च कार्ष्णिश्च कामो
मनोजस्तथा शम्बरारी रतीशः ।
रथी मन्मथो मीनकेतुः शरी च
स्मरो दर्पको मानहा पञ्चबाणः

10.59.59

प्रियः सत्यभामापतिर्यादवेशो-
ऽथ सत्राजितप्रेमपूरः प्रहासः ।
महारत्‍नदो जाम्बवद्युद्धकारी
महाचक्रधृक्खड्गधृग्रामसंधिः

10.59.60

विहारस्थितः पाण्डवप्रेमकारी
कलिन्दाङ्‌गजामोहनः खाण्डवार्थी ।
सखा फाल्गुनप्रीतिकृन्नग्रकर्ता
तथा मित्रविन्दापतिः क्रीडनार्थी

10.59.61

नृपप्रेमकृद्‌गोजितः सप्तरूपो-
ऽथ सत्यापतिः पारिबर्ही यथेष्टः ।
नृपैः संवृतश्चापि भद्रापतिस्तु
विलासी मधोर्मानिनीशो जनेशः

10.59.62

शुनासीरमोहावृतः सत्सभार्यः
सतार्क्ष्यो मुरारिः पुरीसङ्‌घभेत्ता ।
सुवीरःशिरःखण्डनो दैत्यनाशी
शरी भौमहा चण्डवेगः प्रवीरः

10.59.63

धरासंस्तुतः कुण्डलच्छत्रहर्ता
महारत्‍नयुग्‌राजकन्याभिरामः ।
शचीपूजितः शक्रजिन्मानहर्ता
तथा पारिजातापहारी रमेशः

10.59.64

गृही चामरैः शोभितो भीष्मकन्या-
पतिर्हास्यकृन्मानिनीमानकारी ।
तथा रुक्मिणीवाक्पटुः प्रेमगेहः
सतीमोहनः कामदेवापरश्रीः

10.59.65

सुदेष्णः सुचारुस्तथा चारुदेष्णो-
ऽपरश्चारुदेहो बली चारुगुप्तः ।
सुती भद्रचारुस्तथा चारुचन्द्रो
विचारुश्च चारू रथी पुत्ररूपः

10.59.66

सुभानुः प्रभानुस्तथा चन्द्रभानु-
र्बृहद्‌भानुरेवाष्टभानुश्च साम्बः ।
सुमित्रः क्रतुश्चित्रकेतुस्तु वीरो-
ऽश्वसेनो वृषश्चित्रगुश्चन्द्रबिम्बः

10.59.67

विशङ्‌कुर्वसुश्च श्रुतो भद्र एकः
सुबाहुर्वृषः पूर्णमासस्तु सोमः ।
वरः शान्तिरेव प्रघोषोऽथ सिंहो
बलो ह्यूर्ध्वगोवर्धनोन्नाद एव

10.59.68

महाशो वृकः पावनो वह्निमित्रः
क्षुधिर्हर्षकश्चानिलोऽमित्रजिच्च ।
सुभद्रो जयः सत्यको वाम आयु-
र्यदुः कोटिशः पुत्रपौत्रप्रसिद्धः

10.59.69

हली दण्डधृग्‌रुक्मिहा चानिरुद्ध-
स्तथा राजभिर्हास्यगो द्यूतकर्ता ।
मधुर्ब्रह्मसूर्बाणपुत्रीपतिश्च
महासुन्दरः कामपुत्रो बलीशः

10.59.70

महादैत्यसंग्रामकृद्‌यादवेशः
पुरीभञ्जनो भूतसंत्रासकारी ।
मृधी रुद्रजिद्‌रुद्रमोही मृधार्थी
तथा स्कन्दजित्कूपकर्णप्रहारी

10.59.71

धनुर्भञ्जनो बाणमानप्रहारी
ज्वरोत्पत्तिकृत्संस्तुतस्तु ज्वरेण ।
भुजाछेदकृद्‌बाणसंत्रासकर्ता
मृडप्रस्तुतो युद्धकृद्‌भूमिभर्ता

10.59.72

नृगं मुक्तिदो ज्ञानदो यादवानां
रथस्थो व्रजप्रेमपो गोपमुख्यः ।
महासुन्दरीक्रीडितः पुष्पमाली
कलिन्दाङ्‌गजाभेदनः सीरपाणिः

10.59.73

महादंभिहा पौण्ड्रमानप्रहारी
शिरश्छेदकः काशिराजप्रणाशी ।
महाक्षौहिणीध्वंसकृच्चक्रहस्तः
पुरीदीपको राक्षसीनाशकर्ता

10.59.74

अनन्तो महीध्रः फणी वानरारिः
स्फुरद्‌गौरवर्णो महापद्मनेत्रः ।
कुरुग्रामतिर्य्यग्गतो गौरवार्थः
स्तुतः कौरवैः पारिबर्ही ससाम्बः

10.59.75

महावैभवो द्वारकेशो ह्यनेक-
श्चलन्नारदः श्रीप्रभादर्शकस्तु ।
महर्षिस्तुतो ब्रह्मदेवः पुराणः
सदा षोडशस्त्रीसहस्रस्थितश्च

10.59.76

॥
गृही लोकरक्षापरो लोकरीतिः
प्रभुर्ह्युग्रसेनावृतो दुर्गयुक्तः ।
तथा राजदूतस्ततो बन्धभेत्ता
स्थितो नारदप्रस्तुतः पाण्डवार्थी

10.59.77

नृपैर्मन्त्रकृद्‌ह्युद्धवप्रीतिपूर्णो
वृतः पुत्रपौत्रैः कुरुग्रामगन्ता ।
घृणी धर्मराजस्तुतो भीमयुक्तः
परानन्ददो मंत्रकृद्धर्मजेन

10.59.78

दिशाजिद्‌बली राजसूयार्थकारी
जरासन्धहा भीमसेनस्वरूपः ।
तथा विप्ररूपो गदायुद्धकर्ता
कृपालुर्महाबन्धनच्छेदकारी

10.59.79

नृपैः संस्तुतो ह्यागतो धर्मगेहं
द्विजैः संवृतो यज्ञसंभारकर्ता ।
जनैः पूजितश्चैद्यदुर्वाक्क्षमश्च
महामोहदोऽरेः शिरश्च्छेदकारी

10.59.80

महायज्ञशोभाकरश्चक्रवर्ती
नृपानन्दकारी विहारी सुरारी ।
सभासंवृतो मानहृत्कौरवस्य
तथा शाल्वसंहारको यानहन्ता

10.59.81

सभोजश्च वृष्णिर्मधुः शूरसेनो
दशार्हो यदुर्ह्यंधको लोकजिच्च ।
द्युमन्मानहा वर्मधृग्दिव्यशस्त्री
स्वबोधः सदा रक्षको दैत्यहन्ता

10.59.82

तथा दन्तवक्त्रप्रणाशी गदा धृग्-
जगत्तीर्थयात्राकरः पद्महारः ।
कुशी सूतहन्ता कृपाकृत्स्मृतीशो-
ऽमलो बल्वलाङ्‌गप्रभाखण्डकारी

10.59.83

तथा भीमदुर्योधनज्ञानदाता-
परो रोहिणीसौख्यदो रेवतीशः ।
महादानकृद्‌विप्रदारिद्र्यहा च
सदा प्रेमयुक्श्रीसुदाम्नः सहायः

10.59.84

तथा भार्गवक्षेत्रगन्ता सरामो-
ऽथ सूर्योपरागश्रुतः सर्वदर्शी ।
महासेनया चास्थितः स्नानयुक्तो
महादानकृन्मित्रसम्मेलनार्थी

10.59.85

तथा पाण्डवप्रीतिदः कुन्तिजार्थी
विशालाक्षमोहप्रदः शान्तिदश्च ।
वटे राधिकाराधनो गोपिकाभिः
सखीकोटिभी राधिकाप्राणनाथः

10.59.86

सखीमोहदावाग्निहा वैभवेशः
स्फुरत्कोटिकन्दर्पलीलाविशेषः ।
सखीराधिकादुःखनाशी विलासी
सखीमध्यगः शापहा माधवीशः

10.59.87

शतं वर्षविक्षेपहृन्नन्दपुत्र-
स्तथा नन्दवक्षोगतः शीतलाङ्‌गः ।
यशोदाशुचः स्नानकृद्‌दुःखहन्ता
सदागोपिकानेत्रलग्नो व्रजेशः

10.59.88

स्तुतो देवकीरोहिणीभ्यां सुरेन्द्रो
रहो गोपिकाज्ञानदो मानदश्च ।
तथा संस्तुतः पट्टराज्ञीभिराराद्-
धनी लक्ष्मणाप्राणनाथः सदा हि

10.59.89

त्रिभिः षोडशस्त्रीसहस्रस्तुताङ्‌गः
शुको व्यासदेवः सुमन्तुः सितश्च ।
भरद्वाजको गौतमो ह्यासुरिः सद्-
वसिष्ठः शतानन्द आद्यः सरामः

10.59.90

मुनिः पर्वतो नारदो धौम्य इन्द्रो-
ऽसितोऽत्रिर्विभाण्डः प्रचेताः कृपश्च ।
कुमारः सनन्दस्तथा याज्ञवल्क्यो
ऋभुर्ह्यङ्‌गिरा देवलः श्रीमृकण्डः

10.59.91

मरीची क्रतुश्चौर्वको लोमशश्च
पुलस्त्यो भृगुर्ब्रह्मरातो वसिष्ठः ।
नरश्चापि नारायणो दत्त एव
तथा पाणिनिः पिङ्‌गलो भाष्यकारः

10.59.92

सकात्यायनो विप्रपातञ्जलिश्चा-
थ गर्गो गुरुर्गीष्पतिर्गौतमीशः ।
मुनिर्जाजलिः कश्यपो गालवश्च
द्विजः सौभरिश्चर्ष्यशृङ्‌गश्च कण्वः

10.59.93

द्वितश्चैकतश्चापि जातूद्‌भवश्च
घनः कर्दमस्यात्मजः कर्दमश्च ।
तथा भार्गवः कौत्सकश्चारुणस्तु
शुचिः पिप्पलादो मृकण्डस्य पुत्रः

10.59.94

सपैलःस्तथा जैमिनिः सत्सुमन्तु-
र्वरो गाङ्‌गलः स्फोटगेहः फलादः ।
सदा पूजितो ब्राह्मणः सर्वरूपी
मुनीशो महामोहनाशोऽमरः प्राक्

10.59.95

मुनीशस्तुतः शौरिविज्ञानदाता
महायज्ञकृच्चाभृतस्नानपूज्यः ।
सदा दक्षिणादो नृपैः पारिबर्ही
व्रजानन्ददो द्वारिकागेहदर्शी

10.59.96

महाज्ञानदो देवकीपुत्रदश्चा-
सुरैः पूजितोऽहीन्द्रसेनादृतश्च ।
सदा फाल्गुनप्रीतिकृत्सत्सुभद्रा-
विवाहे द्विपाश्वप्रदो मानयानः

10.59.97

भुवं दर्शको मैथिलेन प्रयुक्तो
द्विजेनाशु राज्ञा स्थितो ब्राह्मणैश्च ।
कृती मैथिले लोकवेदोपदेशी
सदावेदवाक्यैः स्तुतः शेषशायी

10.59.98

परीक्षावृतो ब्राह्मणैश्चामरेषु
भृगुप्रार्थितो दैत्यहा चेशरक्षी ।
सखा चार्जुनस्यापि मानप्रहारी
तथा विप्रपुत्रप्रदो धामगन्ता

10.59.99

विहारस्थितो माधवीभिः कलाङ्‌गो
महामोहदावाग्निदग्धाभिरामः ।
यदुर्ह्युग्रसेनो नृपोऽक्रूर एव
तथा चोद्धवः शूरसेनश्च शूरः

10.59.100

हृदीकश्च सत्राजितश्चाप्रमेयो
गदः सारणः सात्यकिर्देवभागः ।
तथा मानसः सञ्जयः श्यामकश्च
वृको वत्सको देवको भद्रसेनः

10.59.101

नृपोऽजातशत्रुर्जयो माद्रिपुत्रो-
ऽथ भीष्मः कृपो बुद्धिचक्षुश्च पाण्डुः ।
तथा शन्तनुर्देवबाह्लीक एवा-
थ भूरिश्रवाश्चित्रवीर्यो विचित्रः

10.59.102

शलश्चापि दुर्योधनः कर्ण एव
सुभद्रासुतो विष्णुरातः प्रसिद्धः ।
स जन्मेजयः पाण्डवः कौरवश्च
तथा सर्वतेजा हरिः सर्वरूपी

10.59.103

व्रजं ह्यागतो राधया पूर्णदेवो
वरो रासलीलापरो दिव्यरूपी ।
रथस्थो नवद्वीपखण्डप्रदर्शी
महामानदो गोपजो विश्वरूपः

10.59.104

सनन्दश्च नन्दो वृषो वल्लभेशः
सुदामार्जुनः सौबलस्तोक एव ।
स कृष्णोंऽशुकः सद्विशालर्षभाख्यः
सुतेजस्विकः कृष्णमित्रो वरूथः

10.59.105

कुशेशो वनेशस्तु वृन्दावनेश-
स्तथा माथुरेशाधिपो गोकुलेशः ।
सदागोगणो गोपतिर्गोपिकेशो-
ऽथ गोवर्धनो गोपतिः कन्यकेशः

10.59.106

अनादिस्तु चात्मा हरिः पूरुषश्च
परो निर्गुणो ज्योतिरूपो निरीहः ।
सदा निर्विकारः प्रपञ्चात्परश्च
स सत्यस्तु पूर्णः परेशस्तु सूक्ष्मः

10.59.107

द्वारकायां तथा चाश्वमेधस्य कर्ता
नृपेणापि पौत्रेण भूभारहर्ता ।
पुनः श्रीव्रजे रासरङ्‌गस्य कर्ता
हरीराधया गोपिकानां च भर्ता

10.59.108

सदैकस्त्वनेकः प्रभापूरिताङ्‌ग-
स्तथा योगमायाकरः कालजिच्च ।
सुदृष्टिर्महत्तत्त्वरूपः प्रजातः
सकूटस्थ आद्याङ्‌कुरो वृक्षरूपः

10.59.109

विकारस्थितश्च ह्यहङ्‌कार एव
स वै कारकस्तैजसस्तामसश्च ।
नमो दिक्समीरस्तु सूर्यः प्रचेतो-
ऽश्विवह्निश्च शक्रो ह्युपेन्द्रस्तु मित्रः

10.59.110

श्रुतिस्त्वक्च दृग्घ्राणजिह्वागिरश्च
भुजामेढ्रकः पायुरङ्‌घ्रिः सचेष्टः ।
धराव्योमवार्मारुतश्चैव तेजो-
ऽथ रूपं रसो गन्धशब्दस्पृशश्च

10.59.111

सचित्तश्च बुद्धिर्विराट् कालरूप-
स्तथा वासुदेवो जगत्कृद्धताङ्‌गः ।
तथाण्डे शयानः सशेषः सहस्र-
स्वरूपो रमानाथ आद्योऽवतारः

10.59.112

सदा सर्गकृत्पद्मजः कर्मकर्ता
तथा नाभिपद्मोद्‌भवो दिव्यवर्णः ।
कविर्लोककृत्कालकृत्सूर्यरूपो
निमेषो भवो वत्सरान्तो महीयान्

10.59.113

तिथिर्वारनक्षत्रयोगाश्च लग्नो-
ऽथ मासो घटी च क्षणः काष्ठिका च ।
मुहूर्तस्तु यामो ग्रहा यामिनी च
दिनं चर्क्षमालागतो देवपुत्रः

10.59.114

कृतो द्वापरस्तु त्रितस्तत्कलिस्तु
सहस्रं युगस्तत्र मन्वन्तरश्च ।
लयः पालनं सत्कृतिस्तत्परार्धं
सदोत्पत्तिकृद्द्व्यक्षरो ब्रह्मरूपः

10.59.115

तथा रुद्रसर्गस्तु कौमारसर्गो
मुनेः सर्गकृद्देवकृत्प्राकृतस्तु ।
श्रुतिस्तु स्मृतिः स्तोत्रमेवं पुराणं
धनुर्वेद इज्याथ गान्धर्ववेदः

10.59.116

विधाता च नारायणः सत्कुमारो
वराहस्तथा नारदो धर्मपुत्रः ।
मुनिः कर्दमस्यात्मजो दत्त एव
स यज्ञोऽमरो नाभिजः श्रीपृथुश्च

10.59.117

सुमत्स्यश्च कूर्मश्च धन्वन्तरिश्च
तथा मोहिनी नारसिंहः प्रतापी ।
द्विजो वामनो रेणुकापुत्ररूपो
मुनिर्व्यासदेवः श्रुतिस्तोत्रकर्ता

10.59.118

धनुर्वेदभाग्रामचन्द्रावतारः
ससीतापतिर्भारहृद्‌रावणारिः ।
नृपः सेतुकृद्‌वानरेन्द्रप्रहारी
महायज्ञकृद्‌राघवेन्द्रः प्रचण्डः

10.59.119

बलः कृष्णचन्द्रस्तु कल्किः कलेश-
स्तु बुद्धः प्रसिद्धस्तु हंसस्तथाश्वः ।
ऋषीन्द्रोऽजितो देववैकुण्ठनाथो
ह्यमूर्तिश्च मन्वन्तरस्यावतारः

10.59.120

गजोद्धारणः श्रीमनुर्ब्रह्मपुत्रो
नृपेन्द्रस्तु दुष्यन्तजो दानशीलः ।
सदृष्टः श्रुतो भूत एवं भविष्यद्‌-
भवत्स्थावरो जङ्‌गमोऽल्पं महच्च

10.59.121

इति श्रीभुजङ्‌गप्रयातेन चोक्तं
हरे राधिकेशस्य नाम्नां सहस्रम् ।
पठेद्‌भक्तियुक्तो द्विजः सर्वदा हि
कृतार्थो भवेत्कृष्णचन्द्रस्वरूपः

10.59.122

महापापराशिं भिनत्ति श्रुतं य-
त्सदा वैष्णवानां प्रियं मङ्‌गलं च ।
इदं रासराकादिने चाश्विनस्य
तथा कृष्णजन्माष्टमीमध्य एव

10.59.123

तथा चैत्रमासस्य राकादिने वा-
थ भाद्रे च राधाष्टमीसद्दिने वा ।
पठेद्‌भक्तियुक्तस्त्विदं पूजयित्वा
चतुर्धा सुमुक्तिं तनोति प्रशस्तः

10.59.124

पठेत्कृष्णपुर्यां च वृन्दावने वा
व्रजे गोकुले वापि वंशीवटे वा ।
वटे वा क्षये वा तटे सूर्यपुत्र्याः
स भक्तोऽथ गोलोकधाम प्रयाति

10.59.125

भजेद्‌भक्तिभावाच्च सर्वत्र भूमौ
हरिं कुत्र चानेन गेहे वने वा ।
जहाति क्षणं नो हरिस्तं च भक्तं
सुवश्यो भवेन्माधवः कृष्णचन्द्रः

10.59.126

सदा गोपनीयं सदा गोपनीयं
सदा गोपनीयं प्रयत्‍नेन भक्तैः ।
प्रकाश्यं न नाम्नां सहस्रं हरेश्च
न दातव्यमेवं कदा लम्पटाय

10.59.127

इदं पुस्तकं यत्र गेहेऽपि तिष्ठेद्-
वसेद्‌राधिकानाथ आद्यस्तु तत्र ।
तथा षड्गुणाः सिद्धयो द्वादशापि
गुणैस्त्रिंशतैर्लक्षणैस्तु प्रयान्ति

10.59.59

इति श्रीमद्‌गर्गसंहितायामश्वमेधखण्डे
श्रीकृष्णसहस्रनामवर्णनं नामैकोनषष्टितमोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc