भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.57

10.57.1

अश्वमेधखण्डः - सप्तपंचाशत्तमोऽध्यायः
यज्ञदक्षिणा प्रदानम् -
गर्ग उवाच -
ततः कृष्णेन भीमेन प्रार्थयित्वा द्विजान्नृपान् ॥
भोजयामास यदुराड्‌भोजनैर्विविधैरपि

10.57.2

सच्छष्कुलीपायसतण्डुलाभैः संयावकापूपसुसूपकाद्यैः ॥
सत्फेणिकाद्यैस्तु निमन्त्र्य विप्रान्संभोजयामास विशेषमन्नम्

10.57.3

शिखरिणीघृतपूरसुशक्तिकाः सुपटिनीदधिपूपकलप्सिकाः ॥
सुवृतसुंदरचन्द्रसुहालिका बटकमोदकपर्पटकैरदात्

10.57.4

केचित्फलाशनास्तत्र शुष्कपर्णाशनास्तथा ॥
केचिज्जलाशना विप्राः केचिद्‌दूर्वारसाशनाः

10.57.5

केचिद्वाताशना राजञ्जन्मतश्च तपस्विनः ॥
भोजनानां च नामानि ते न जानंति विस्मिताः

10.57.6

भक्तं च मेनिरे केचिन्मालत्याः कुसुमानि च ॥
मोदकाँश्च द्विजाः केचिदुदुंबरफलानि च

10.57.7

पायसं फेणिकां दृष्ट्वा चन्द्रबिंबं च मेनिरे ॥
पर्पटान्फेणिका दृष्ट्वा पत्राणि किंशुकस्य वै

10.57.8

मेनिरेऽर्कफलानीति दृष्ट्वा च मधुशीर्षकान् ॥
प्रलेहिकां लप्सिकां च ऋषयश्चंदनद्रवम्

10.57.9

दृष्ट्वा ते मिष्टचूर्णं वै बालुकां मुनिसत्तमाः ॥
इति मत्वा द्विजाः सर्वे बुभुजुर्भोजनानि च

10.57.10

केचित्पिबंति दुग्धं तु केचिद्‌द्राक्षारसं तथा ॥
केचिदाम्ररसं विप्राः प्रहसंति लुठंति वै

10.57.11

ततः कृष्णस्तु भगवान्भीमेन प्रहसन्मुदा ॥
चकार हास्यं विप्राणां संस्थितानां तपस्विनाम्

10.57.12

भोजनानां च नामानि मुनयो वदत त्वरम् ॥
तान्प्रयच्छामि युष्मभ्यं भीमेन सहितोऽप्यहम्

10.57.13

श्रीकृष्णभीमयोर्वाक्यं निशम्य मुनिसत्तमाः ॥
न किंचिदूचुर्मुदिताः प्रपश्यन्तः परस्परम्

10.57.14

तैलंगकर्णाटकगुर्ज्जराद्या-
नन्यान्द्विजान्गौडसनाढ्यकादीन् ॥
संपूज्य हेमांबररत्‍नवृन्दै-
र्नृपेश्वरो विप्रवरान्ननाम ह

10.57.15

एकलक्षं हयानां च गजानां च सहस्रकम् ॥
द्विसहस्रं रथानां च गवां लक्षं विधानतः

10.57.16

शतभारं सुवर्णानामीदृशीं दक्षिणां नृप ॥
उग्रसेनस्तु यज्ञांते पूर्वं मह्यं ददौ किल

10.57.17

मदर्द्धं बकदाल्भ्याय ददौ व्यासाय वै तथा ॥
तुरगाणां सहस्रं च गजानां शतमेव च

10.57.18

द्विशतं स्यंदनानां च धेनूनां च सहस्रकम् ॥
विंशद्‌भारं सुवर्णानामीदृशं दक्षिणां पुनः

10.57.19

निमंत्रितेभ्यो विप्रेभ्य उग्रसेनो ददौ मुदा ॥
गजमेकं रथं गां च स्वर्णभारं च घोटकम्

10.57.20

द्विभारं रजतं चैव यादवेंद्रः प्रहर्षितः ॥
ईदृशीं दक्षिणां राजन्ब्राह्मणे ब्राह्मणे ददौ

10.57.21

महाध्वरे कृष्णपुरी तदा बभौ
महीतले खे ह्यमरावती यथा ॥
तदाऽऽगता मागधसूतकादयो
वन्दीजना गायकवारयोषितः

10.57.22

तदा नृपद्वारि महोत्सवोऽभू-
न्मृदंगवीणामुरयष्टिवेणुभिः ॥
सुतालशंखानकदुंदुभिस्वनैः
संगीतनृत्त्यादिकवाद्यगीतकैः

10.57.23

जगुः सुकण्ठैर्ननृतुः सुतालैः
संगीतगीताक्षरसामगीतैः ॥
कौसुंभवस्त्राणि विचालयन्त्यः
संगीतनृत्येन परिस्फुरंत्यः

10.57.24

वन्दीजना मागधगायकाश्च
ये चागतास्तेभ्य उपागतेभ्यः ॥
प्रादाद्धिरण्यं बहुरत्‍नवृन्दं
तथाऽऽगता ह्यप्सरसश्च ताभ्यः

10.57.25

सूतेभ्यो मागधेभ्यश्च सर्वेभ्यो बहुलं धनम् ॥
ववर्ष घनवद्राजा हयमेधप्रहर्षितः

10.57.26

तत्पश्चाद्यादवेंद्रस्तु ह्युग्रसेनो महीश्वरः ॥
नियुतं तुरगाणां च सहस्रं हस्तिनां तथा

10.57.27

शिबिकानां शतं चैव कुण्डले कटकानि च ॥ त
त्रिंशद्‌भारं सुवर्णानां भूपे भूपे ददौ मुदा

10.57.28

द्विगुणेन यदून्सर्वान्नंदादींश्चैव भूपतिः ॥
यशोदाद्याश्च गोप्यश्च देवक्याद्या यदुस्त्रियः

10.57.29

रुक्मिण्याद्या राधिकाद्याः पट्टराज्ञो हरेरपि ॥
दिव्यांबरैरलंकारै राज्ञा सर्वाश्च तोषिताः

10.57.30

पुनर्ददौ च गर्गाय राजा ग्रामशतं मुदा ॥
स सर्गो ब्राह्मणेभ्यश्च प्रददौ हि क्रमादृषिः

10.57.31

ततः संपूजयामास कृष्णं संकर्षणान्वितम् ॥
वस्त्रालंकारतिलकैः स्रग्भिर्नीराजनादिभिः

10.57.32

उवाच कृष्णः प्रहसन्मह्यं राजन्महाध्वरे ॥
समर्थेन त्वया ह्यत्र न दत्तं किंचिदेव हि

10.57.33

इति श्रुत्वा नृपः प्राह रामेण सह माधवः ॥
यथोक्तां दक्षिणां शीघ्रं गृहाण जगदीश्वर

10.57.34

इत्युक्त्वा प्रददौ राजा हर्षितः प्रेमविह्वलः ॥
फलं सर्वं कृष्णकरे राजसूयाश्वमेधयोः

10.57.35

तदा जयजयारावो द्वारकायां बभूव ह ॥
सद्यः सुराश्च संतुष्टाः पुष्पवर्षं प्रचक्रिरे

10.57.36

सर्वाश्च देवतास्तुष्टाः प्राप्तभागा दिवंगताः ॥
रक्षोदैत्या दंष्ट्रिणश्च खगा मर्का बिलेशयाः

10.57.37

शैला गावो वृक्षसंघा नद्यस्तीर्थानि सिन्धवः ॥
संतुष्टाः प्राप्तभागा ये सर्वे स्वं स्वं गृहं गताः

10.57.38

पूजिता दानमानाभ्यां राजानो ये समागताः ॥
जग्मुः स्वं स्वं गृहं सैन्यैः कंपयन्तो महीतलम्

10.57.39

सर्वे गोपाश्च नन्दाद्या यशोदाद्या व्रजस्त्रियः ॥
कृष्णेन पूजिता राजन्विरहार्ता व्रजं ययुः

10.57.40

एवं राजा यादवेंद्रो मनोरथमहार्णवम् ॥
दुस्तरं च समुत्तीर्य हरीणाऽऽसीद्‌गतव्यथः

10.57.57

इति श्रीगर्गसंहितायां हयमेधखण्डे
विश्वभोज्यदक्षिणावर्णनं नाम सप्तपंचाशत्तमोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc