भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.54

10.54.1

अश्वमेधखण्डः - चतुष्पंचाशत्तमोऽध्यायः
द्वारकायां यज्ञाश्वस्य उपस्थितिः -
गर्ग उवाच -
अथोग्रसेनवचनाद्वसुदेवादयो नृप ॥
नेतुं विनिर्ययुः सर्वे ह्यनिरुद्धं समागतम्

10.54.2

गजै रथैस्तुरंगैश्च शिबिकाभिर्यदूत्तमाः ॥
श्रीकृष्णबलदेवाद्याः प्रद्युम्नाद्या नृपेश्वर

10.54.3

उद्धवाद्या गजस्थाश्च हयं द्रष्टुं विनिर्गताः ॥
देवकीप्रमुखा नार्यो मातरः कृष्णरामयोः

10.54.4

शिबिकाभिर्विचित्राभिर्निर्ययुर्नृपसत्तम ॥
रुक्मिणीसत्यभामाद्या नार्यः कृष्णस्य एव हि

10.54.5

शिबिकाभिर्ययुः सर्वाः सहस्राणि च षोडश ॥
लाजानां मौक्तिकानां च कुसुमानां नृपेश्वर ॥
वर्षां कर्तुं ययुः शीघ्रं गजस्थाश्च कुमारिकाः

10.54.6

कलशैर्जलहारिण्यो निर्ययुर्जलपूरितैः ॥
सौभाग्यवत्यो ब्राह्मण्यो गंधपुष्पाक्षतांकुरैः

10.54.7

वारांगनाश्च रूपिण्यो नृत्यं कर्तुं विनिर्ययुः ॥
शोभिताः सर्वशृङ्गारैर्गायंत्यश्च गुणान्हरेः

10.54.8

शंखदुंदुभिनादेन ब्रह्मघोषेण यादवाः ॥
वारणेंद्रं पुरस्कृत्य गर्गाद्यैर्मुनिभिर्युताः

10.54.9

विलोकयंतः स्वपुरीं पताकाभिश्च मंडिताम् ॥
सिक्तमार्गां गंधजलै रंभातोरणशोभिताम्

10.54.10

प्रदीप्तां मणिदीपैश्च वितानैर्विविधैरपि ॥
दिव्यनारीनरैर्युक्तां सुवर्णसवनैर्वृताम्

10.54.11

पक्षिणां कलशब्देन धूम्रेणागुरुगंधिना ॥
शोभितां कृष्णनगरीं शक्रस्येवामरावतीम्

10.54.12

इत्थं विलोकयंतस्ते प्राप्ताः शीघ्रं च यादवाः ॥
यत्रानिरुद्धः सहयो वर्त्तते सेनयाऽऽवृतः

10.54.13

तान्दृष्ट्वा चानिरुद्धस्तु स्वरथादवतीर्य च ॥
पुरस्कृत्य हयं चाग्रे नृपैः सार्द्धं समाययौ

10.54.14

पूर्वं नत्वा कुलाचार्यं वसुदेवं बलं तथा ॥
श्रीकृष्णं पितरं चैव तेभ्यश्चाश्वं ददौ पुनः

10.54.15

शुभाशिषो ददुस्ते तु प्रीताः प्रेमपरिप्लुताः ॥
त्वया साधु कृतं वत्स सर्वाञ्जित्वा रिपून्नृपान्

10.54.16

आनयामास तुरगं मध्ये संवत्सरस्य च ॥
इति तद्वचनं श्रुत्वानिरुद्धः प्राह मां पुनः

10.54.17

कृपया तव विप्रेंद्र मार्गे मार्गे मृधे मृधे ॥
बहुभिः शत्रुभिश्चाश्वो गृहीतोऽपि विमोचितः

10.54.18

गुरोरनुग्रहेणैव सुखी भवति मानवः ॥
तस्माद्‌गुरुं च विधिना यथाशक्त्या प्रपूजयेत्

10.54.19

भूपास्ततः समागत्य समीपे रामकृष्णयोः ॥
नेमुः पृथक्पृथक्सर्वे प्रीताः प्रेमपरिप्लुताः

10.54.20

सर्वान्दृष्ट्वा नतान्भूपाञ्छ्रीकृष्णो बलसंयुतः ॥
चंद्रहासं च गांगेयं बिन्दुं चैवानुशाल्वकम्

10.54.21

हेमांगदं चेद्रनीलं परिरेभे हरिर्मुदा ॥
कृष्णभक्तात्परः कोऽपि तस्माद्‌भूमौ न विद्यते

10.54.22

ततोऽनिरुद्धं जयिनं समागतं
गजे समारोप्य कुशस्थलीं ययौ ॥
शौरिः प्रसन्नः किल सर्वयादवैः
पुत्रैश्च पौत्रैर्मुदितैर्नृपेश्वर

10.54.23

पुष्पाणां मकरंदानां वर्षां चक्रुः सुरस्त्रियः ॥
लाजानां मौक्तिकानां च कुञ्जरस्थाः कुमारिकाः

10.54.24

नृत्यवादित्रगीतेन ब्रह्मघोषेण शोभिताः ॥
पश्यंतः सिक्तमार्गां तां पुरीम्पिण्डारकं ययुः

10.54.25

नृपाः सर्वे यदूनां च वैभवं देवदुर्लभम् ॥
विलोक्य वैभवं स्वं स्वं गर्हयंति च विस्मिताः

10.54.26

यज्ञस्थलं ते ददृशुर्धूम्रेण धृतगंधिना ॥
व्याप्तं ब्राह्मणघोषेण ह्यसिपत्रव्रतेन च

10.54.27

निरिक्ष्य तत्र भूपालमुग्रसेनं यदूत्तमम् ॥
पुरंदरसमं दांतं पुष्टं गौरं स्फुरत्प्रभम्

10.54.28

कुशासनस्थं सुभगं नियमे न्यस्तभूषणम् ॥
संयुक्तं मृगशृङ्गेण मृगचर्मणि भार्यया

10.54.29

कुर्वन्तं पूजनं चाग्नेर्घृतगंधाक्षतादिभिः ॥
मण्डपे मुनिभिर्युक्तं धूम्रेणारुणलोचनम्

10.54.30

तं सर्वे चानिरुद्धाद्याः कृत्वाग्रे यज्ञघोटकम् ॥
वाहनेभ्यः समुत्तीर्य नेमुः प्रीताः पृथक्पृथक्

10.54.31

ततः श्रीयदुराजस्तु सर्वान्दृष्ट्वा नृपान्यदून् ॥
सर्वेषामादधे मानं यथायोग्यं यथाबलम्

10.54.32

अनिरुद्धस्ततो नत्वा शीघ्रं भूत्वा कृतांजलिः ॥
सर्वेषां शृण्वतां प्राह जंबूद्वीपपतिं नृपम्

10.54.33

अनिरुद्ध उवाच -
एनं पश्य महाराज इन्द्रनीलं नृपोत्तमम् ॥
पादयोः पतितं प्रेम्णा समुत्थापय देववत्

10.54.34

हेमांगदं चानुशाल्वं बिन्दुं श्रीचन्द्रहासकम् ॥
एनं देवव्रतं पश्य चागतं तव सन्निधौ

10.54.35

मम रक्षाकरं पश्य सांबं जांबवतीसुतम् ॥
रुद्रेण निहतं मां च पश्य कृष्णेन जीवितम्

10.54.36

तथा रुद्रहतं पश्य जीवितं च सुनन्दनम् ॥
अन्यान्पश्य यदून्सर्वान्कृष्णस्य कृपयाऽऽगतान्

10.54.37

गृहाण यज्ञतुरगं निर्विघ्नेन समागतम् ॥
दत्तं युद्धाय निस्त्रिंशं तं गृहाण नमोऽस्तु ते

10.54.38

इति तद्वाक्यमाकर्ण्य यदुराजः प्रहर्षितः ॥
संश्लाघ्य तं नृपांश्चैव यथायोग्याशिषं ददौ

10.54.39

पूजयित्वा नृपान्सर्वांस्ततो भीष्ममुवाच ह ॥
एहि भीष्म मया सार्द्धं कुरु त्वं परिरंभणम्

10.54.40

इत्युक्त्वा तं समुत्थाय परिरेभे यदूत्तमः ॥
ततस्ते दानमानाभ्यां पूजिता यदवो नृपाः

10.54.41

निवासं चक्रिरे प्रीता द्वारकायां गृहे गृहे ॥
ततो दृष्ट्वानिरुद्धं वै प्राप्तं सांबादिभिर्नृप

10.54.42

देवकी रोहणी चैव रुक्मिण्याद्याः स्त्रियो वराः ॥
अन्याश्च रुक्मवत्याद्याः परिष्वज्य मुदं ययुः

10.54.43

सुरूपा रोचना ह्यूषा राजन्नेता मुदं गताः ॥
सांबश्लाघां ततः श्रुत्वा सुयोधनसुता भृशम्

10.54.44

मुदं ययौ स्वनेत्राभ्यां मुंचंती हर्षजं जलम् ॥
बभूव मंगलं राजन्द्वारकायां गृहे गृहे ॥
ससैन्ये नृपशार्दूल ह्यनिरुद्धे समागते

10.54.54

इति श्रीगर्गसंहितायां हयमेधखण्डे
तुरगागमनं नाम चतुष्पंचाशत्तमोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc