भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.49

10.49.1

अश्वमेधखण्डः - एकोनपंचाशत्तमोऽध्यायः
यादव-कौरव युद्धम् -
दुर्योधनः स्ववीराणां भीष्मद्रोणकृपादिभिः ॥
दृष्ट्वा मुखानि भग्नानि कोपं कृत्वेदमब्रवीत्

10.49.2

अहो वै यादवास्तुच्छा आगता मृत्युसंमुखे ॥
किं न जानंति ते मूढा धृतराष्ट्रबलं महत्

10.49.3

इत्युक्त्वा प्रेषयामासुः स्वां सेनां चतुरंगिणीम् ॥
गजाश्वरथवीरैश्च युक्तां युद्धे च यादवान्

10.49.4

सा चचाल महासेना कंपयंती महीतलम् ॥
अक्षौहिणीभिर्दशभिस्त्रासयंती बलाद्‌रिपून्

10.49.5

आयांतीं तां ततो दृष्ट्वा सांबो जांबवतीसुतः ॥
स्वां सेनां नोदयामास हर्षाद्वीरैर्विभूषितः

10.49.6

ततश्च कौरवाः सर्वे रक्षणार्थं तु स्वात्मनः ॥
क्रौंचव्यूहं विनिर्माय तत्र सर्वे हि संस्थिताः

10.49.7

आसीत्तस्य मुखे भीष्मो ग्रीवायां द्रोण एव च ॥
पक्षयोः कर्णशकुनी तस्य पुच्छे सुयोधनः

10.49.8

मध्ये तस्य महासेना चतुरंगबलैर्युता ॥
कृतं हि ददृशुर्व्यूहं क्रौञ्चं वै शत्रुदुर्जयम्

10.49.9

क्रौंचव्यूहं तत्र दृष्ट्वा यदवो युद्धशंकिताः ॥
ऊचुर्हे सांब त्वमपि कुरु व्यूहं प्रयत्‍नतः

10.49.10

इति तेषां वचः श्रुत्वा सांबः संग्रामकोविदः ॥
न चकार रणे व्यूहं कौरवानगणय्य च

10.49.11

युद्धं कर्तुं प्रचलिते ते द्वे सेने यदा नृप ॥
तदा मुहूर्तपर्यंतं चकंपे वसुधा भृशम्

10.49.12

जघ्नुर्भेर्य्यश्च शंखाश्च ह्युभयोः सेनयोस्तदा ॥
टंकाराश्चैव चापानां श्रूयंते तत्र तत्र ह

10.49.13

गर्जन्ति दन्तिनस्तत्र हया हेषंति तत्र ह ॥
शब्दं शूराः प्रकुर्वंति नंदंति रथनेमयः

10.49.14

सैन्यपादरजोभिश्च ह्यंधकारोऽभवद्‌रणे ॥
मलिनं गगनं भूत्वा सूर्यस्तत्र न दृश्यते

10.49.15

उभयोः सेनयोर्युद्धं ततः समभवद्‌भृशम् ॥
बाणैर्गदाभिः परिघैः शतघ्नीभिश्च शक्तिभिः

10.49.16

परस्परं ते युयुधुराहवे निशितैः शरैः ॥
गजा गजै रथा रथैर्हया हयैर्नरा नरैः

10.49.17

शरांधकारे संजाते सांबो बाणैर्धनुर्द्धरः ॥
रणे भीष्मेण युयुधेऽक्रूरः कर्णेन तत्र च

10.49.18

युयुधानः शकुनिना द्रोणाचार्येण सारणः ॥
दुर्योधनेन संग्रामे सात्यकिः शीघ्रमेव च

10.49.19

बली दुःशासनेनापि कृतवर्मा तु भूरिणा ॥
एवं परस्परं ह्यासीत्संग्रामो भयकारकः

10.49.20

ततः सांबस्तु संक्रुद्धः सज्जं कृत्वा धनुर्दृढम् ॥
टंकारयामास तदा शूराणां कम्पयन्हृदि

10.49.21

श्रीकृष्णं प्रथमं नत्वा मुमुचे सायकान्दश ॥
तानागताञ्छरान्भीष्मश्चिच्छेद स्वशरैरपि

10.49.22

रणे सांबः पुनस्तस्य कवचे सायकान्दश ॥
निचखान स्वर्णमयान्नादं कृत्वा तु सिंहवत्

10.49.23

चतुर्भिः सायकैस्तस्य निजघ्ने चतुरो हयान् ॥
चिच्छेद बाणैर्दशभिस्तत्कोदंडं गुणान्वितम्

10.49.24

स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
उत्थाय भीष्मः सहसा गदां जग्राह रोषतः

10.49.25

सांबः प्राह त्वया सार्द्धं कथं युद्धं करोम्यहम् ॥
पदातिना रथं चान्यं तुभ्यं दास्यामि संयुगे

10.49.26

सशस्त्रं स्यंदनं युद्धे त्वं गृहाण कुरूद्वह ॥
जय मां निस्त्रपं मूढं वृद्धस्त्वं पुज्य एव च

10.49.27

स उवाच ततः साम्बं क्रोधात्प्रस्फुरिताधरः ॥
दंतान्दतैर्लिहन्नोष्ठं जिह्वया रक्तलोचनः

10.49.28

।
त्वद्दत्ते स्यंदने स्थित्वा यदा युद्धं करोम्यहम् ॥
तदा भवति मेऽकिर्तिः पापं निरयमेव च

10.49.29

प्रतिग्रहपरा विप्रा दातारश्च वयं स्मृताः ॥
दत्तं राज्यं यदुभ्यश्च पुरास्माभिः कृपालुभिः

10.49.30

श्रुत्वा तद्वचनं सांबः प्रत्युवाच रुषान्वितः ॥
भयाद्राज्यं प्रदास्यंति राजानो मंडलेश्वराः

10.49.31

निरीक्ष्य भूमौ शास्तारं संस्थितं चक्रवर्तिनम् ॥
इत्येवं वाक्यमाकर्ण्य भीष्मः शूरशिरोमणिः

10.49.32

जघान गदया गुर्व्या सांबवक्षस्थले नृप ॥
गदाप्रहारव्यथितः सांबः संमूर्च्छितोऽभवत्

10.49.33

सारथिस्तं रथे कृत्वापोवाह शंकितो रणात् ॥
कोलाहलस्तदैवासीद्यदुसैन्ये नृपेश्वर

10.49.34

भीष्मोऽन्यं रथमारुह्य दंशितः सशरासनः ॥
ययौ सुयोधनं शीघ्रं यादवान्मारयन्पथि

10.49.35

संग्रामे तत्र राजेन्द्र सात्यकिश्च सुयोधनम् ॥
चक्रे बाणैश्च विरथं गृधपक्षैः स्फुरत्प्रभैः

10.49.36

विरथोऽपि रथं चान्यं स समारुह्य वेगतः ॥
तं शत्रुं विरथं चक्रे शरैराशीविषोपमैः

10.49.37

स चान्यं रथमारुह्य सात्यकिः शीघ्रविक्रमः ॥
बाणेनैकेन तद्यानं चिक्षेप नृप योजनम्

10.49.38

रथः पपात भूमध्ये ससूतः सतुरंगमः ॥
अंगारवद्विशीर्णोऽभून्मूर्च्छितोऽभूत्सुयोधनः

10.49.39

तदा द्रोणस्तु संक्रुद्धो बाणेनाग्निमयेन च ॥
जघान सात्यकिं युद्धे स्वशत्रुं तु विहाय वै

10.49.40

रथस्तु तस्य दग्धोऽभूत्सतुरंगः ससारथिः ॥
अभवन्मूर्च्छितः सोऽपि दग्धांगो बाणज्वालया

10.49.41

कृतवर्मा ततः क्रुद्धो भूरिं जित्वा रणांगणे ॥
आजगाम नदन् राजन्द्रोणोपरि रुषान्वितः

10.49.42

स गत्वा प्रधने रोषाद्‌द्रोणाचार्यं शरैरपि ॥
चक्रे पदातिनं वीरो निःशस्त्रं छिन्नकंचुकम्

10.49.43

ततः कर्णस्तु संक्रुद्धस्त्यक्त्वाक्रूरं रणांगणे ॥
तताड कृतवर्माणं शक्त्या शक्तीव तारकम्

10.49.44

सा शक्तिस्तत्तनुं भित्वा विवेश धरणीतले ॥
निर्भिन्नहृदयो भूत्वा कृतवर्मा पपात ह

10.49.45

युयुधानस्ततः कोपान्निर्जित्य शकुनिं मृधे ॥
कर्णस्योपरि राजेन्द्र ह्याजगाम रथेन च

10.49.46

गत्वा शरासनेनापि मुमुचे सायकान्दश ॥
वीक्ष्य तानागतान्कर्णो निजघान स्वसायकैः

10.49.47

संघृष्टास्तत्र संग्रामे तयोर्बाणाः परस्परम् ॥
विस्फुलिंगान्क्षरंतस्ते भ्रमन्तेऽलातचक्रवत्

10.49.48

युयुधानस्ततः कोपात्कर्णस्य जगतीपते ॥
जघान कवचे बाणान्काकपक्षयुताञ्छितान्

10.49.49

ते शराः कर्णकवचे न लग्नाः पतिता भुवि ॥
राजन्पापस्य कर्तारो न स्वर्गे निरये यथा

10.49.50

ततः प्रहस्य कर्णस्तु युयुधानं च विस्मितम् ॥
चकार विरथं युद्धे शरैर्नानास्त्रयोजितैः

10.49.51

दुःशासनं बलिं चैव कृत्वा युद्धे विमूर्च्छितम् ॥
आययौ संयुगे कर्णं रथेनानलवर्चसा

10.49.52

आगतं बलिनं दृष्ट्वा कर्णो भास्करनंदनः ॥
पवनास्त्रेण बाणेन तं चिक्षेप सवाहनम्

10.49.53

पपात योजने सोऽपि सांबस्तत्रागमत्पुनः ॥
अंधकारं शरैः कुर्वन्कौरवान्मारयन् रुषा

10.49.49

इति श्रीगर्गसंहितायां हयमेधखण्डे
यदुकुरुसंग्रामवर्णनं नामैकोनपंचाशत्तमोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc