भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.30

10.30.1

अश्वमेधखण्डः - त्रिंशोऽध्यायः
ऊर्ध्वकेश-नदासुरवधम् -
गर्ग उवाच -
तदोत्थितश्चोर्ध्वकेशो रथं चान्यं समाश्रितः ॥
अनिरुद्धस्य संग्रामे यावदायाति संमुखम्

10.30.2

तावद्बभञ्ज निशितैर्नाराचैस्तद्रथं पुनः ॥
स भग्नं स्यंदनं दृष्ट्वा पुनरन्यं समाश्रितः

10.30.3

सोऽपि भग्नः शरैराशु कार्ष्णिजेन रणे नृप ॥
एवं नव रथा भग्ना ऊर्ध्वकेशस्य वै रणे

10.30.4

ततः क्रुद्धो रणे दैत्यः शक्तिं चिक्षेप सत्वरम् ॥
दृष्ट्वा तामागतां वीरो नाराचैर्दशधाच्छिनत्

10.30.5

ऊर्ध्वकेशस्तदा संख्ये स्थित्वा रुक्ममये रथे ॥
आजगाम स वेगेनानिरुद्धं प्रतियोधितुम्

10.30.6

कार्ष्णिजं पंचभिर्बाणैस्ताडयामास हर्षितः ॥
शरैस्तैर्निहतः सोऽपि कश्मलं परमं गतः

10.30.7

संक्रुद्धो धनुरुद्यम्य चित्रवाजाञ्छरान्दश ॥
मुमोच हृदये तस्य सहसा हस्तलाघवात्

10.30.8

शरास्ते पपुरेतस्य रुधिरं बहुदारुणाः ॥
पीत्वा पेतुर्यथा भूमौ कूटसाक्ष्यस्य पूर्वजाः

10.30.9

ऊर्ध्वकेशः पुनः क्रुद्धः तिष्ठ तिष्ठेति च ब्रुवन् ॥
बाणैस्तु दशसंख्यैश्च तताड तस्य मूर्धनि

10.30.10

सायकास्तेऽनिरुद्धस्य ह्युष्णीषे परिनिष्ठिताः ॥
विराजन्ते स्म राजेन्द्र दशशाखास्तरोरिव

10.30.11

न विव्यथे स तैर्बाणैर्युद्धे रुक्मवतीसुतः ॥
यथा पुष्पैश्च प्रहतो द्विरदो नृपसत्तम

10.30.12

बाणाञ्छतं स्वधनुषि निधायाकृष्य माधवः ॥
चित्रवाजान्स्वर्णपुंखान्मुमोच बहुरोषतः

10.30.13

ते बाणास्तस्य सर्वांगं भित्त्वा शीघ्रमधोगतः ॥
रुधिराक्ता यथा राजन्कृष्णभक्तिपराङ्मुखाः

10.30.14

शरसंघैश्च स हतो पंचतां प्रधने गतः ॥
हाहाकारश्च तत्सैन्ये बभूव नृपसत्तम

10.30.15

तदा जयजयारावो यादवानां बभूव ह ॥
अनिरुद्धोपरि सुराः पुष्पवर्षां प्रचक्रिरे

10.30.16

ऊर्ध्वकेशस्तु प्रधनाद्दिव्यदेहेन यादव ॥
ययौ विमानमारुह्य स्वर्गं सुकृतिनां पदम्

10.30.17

भ्रातारं निहतं दृष्ट्वा नदः शोकेन पूरितः ॥
कुञ्जरस्थो गदं बाणैः कुञ्जरस्थं जघान ह

10.30.18

आगतान्सायकान्दृष्ट्वा धनुर्धारी गदो महान् ॥
तान्प्रचिच्छेद बाणेनानिरुद्धस्य प्रपश्यतः

10.30.19

नदस्तदैव संक्रुद्धो भ्रातृशोकपरिप्लुतः ॥
अकरोद्विगजं बाणैः संग्रामे रोहिणीसुतम्

10.30.20

गजस्तु शतबाणैश्च भिन्नांगः पंचतां गतः ॥
निपपात गदो भूमौ तदद्‌भुतमिवाभवत्

10.30.21

ततः क्रुद्धो गदां नीत्वा हंतुं शत्रुं रणे गदः ॥
आजगाम ज्वलच्छीघ्रं सिंहः सिहं वने यथा

10.30.22

आगतं तं गृहीत्वा तु शुण्डादंडेन तद्‌गजः ॥
चिक्षेप स गदं राजन्नाकाशे शतयोजनम्

10.30.23

पतितः खात्समुत्थाय शुण्डदंडं प्रगृह्य सः ॥
पातयामास भूपृष्ठे भ्रामयित्वा गजं गदः

10.30.24

गजो मृत्युं गतो युद्धे विस्मितोऽभून्महासुरः ॥
जग्राह स्वगदां गुर्वीं श्लाघां कृत्वा गदस्य च

10.30.25

शीघ्रं तमाह्वयामास गदं वीरं गदाधरम् ॥
तथा सोऽपि नदं दैत्यं संग्रामार्थे विशां पते

10.30.26

नदः प्रत्याह वचनं त्वं मनुष्योऽसि यादव ॥
तस्माल्लज्जां करिष्यामि कथं युद्धं करिष्यसि

10.30.27

पूर्वं प्रहारं कुरु मे पश्चात्त्वं तु न जीवसि ॥
इति श्रुत्वा गदः प्राह यथा वृत्रं पुरंदरः

10.30.28

गद उवाच -
न किंचित्ते प्रकुर्वंति ये वदन्ति मुखैन वै ॥
न वदंति रणे शूरा दर्शयंति पराक्रमम्

10.30.29

इति श्रुत्वा नदः क्रुद्धो गदस्य हृदये नदन् ॥
ताडयामास राजेन्द्र गरिष्ठां महतीं गदाम्

10.30.30

गदया ताडितो वीरो न चचाल मृधे गदः ॥
मदोन्मत्तो यथा हस्ती बालेन मालया हतः

10.30.31

कथयामास वीराग्र्यो दानवं वीक्ष्य लज्जितम् ॥
सहस्वैकं प्रहारं मे यदि वीरः परंतप

10.30.32

इत्युक्त्वा निजघानाथ ललाटे गदया भृशम् ॥
स चापि तं रुषा स्कंधे ताडयामास धर्मवित्

10.30.33

एवं भृशं प्रकुर्वंतौ गदायुद्धविशारदौ ॥
गदायुद्धं प्रकुर्वाणौ परस्परवधैषिणौ

10.30.34

अन्योन्यघातविमतौ क्रोधयुक्तौ जयोद्यतौ ॥
न कौ वै तत्र जीयते न प्रहीयते कोऽपि तु

10.30.35

भाले स्कंधे तथा मूर्ध्नि हृदि गात्रेषु सर्वतः ॥
रुधिरौघप्लुतौ क्लिन्नौ किंशुकाविव पुष्पितौ

10.30.36

तयोरासीन्महायुद्धं गदाभ्यामेव संयुगे ॥
विस्फुलिंगान्क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः

10.30.37

तयोर्युद्धमभूद्धोरं बाहुभ्यां गददैत्ययोः ॥
तदा रामानुजः क्रुद्धो भुजाभ्यामुपगृह्य तम्

10.30.38

पातयामास भूपृष्ठे महिषं हरिराड्यथा ॥
तदा दैत्यस्तु तस्यापि हृदि जघ्ने प्रमुष्टिना

10.30.39

तदा सोऽपि शिरस्येकं मुष्टिं बद्ध्वा जघान ह ॥
मुष्टिभिर्जानुभिः पादैस्तालस्फोटैश्च बाहुभिः

10.30.40

परस्परं जघ्नतुस्तौ संदष्टाधरपल्लवौ ॥
ततः क्रुद्धो रणे दैत्यो गदस्य चरणं बलात्

10.30.41

गृहीत्वा भ्रामयित्वा च पातयामास भूतले ॥
तदा गदः समुत्थाय गृहीत्वा चरणं रिपोः

10.30.42

भ्रामयित्वा गजोपस्थे निजघान रुषा ज्वलन् ॥
पुनर्दैत्यं समुत्थाय गृहीत्वा रोहिणीसुतम्

10.30.43

चिक्षेप चौजसा राजन्गगने शतयोजनम् ॥
पतितोऽपि स वज्रांगः किंचिद्व्याकुलमानसः

10.30.44

चिक्षेप गगने दैत्यं योजनानां सहस्रकम् ॥
पतिऽतोपि समुत्थाय पुनर्युद्धं चकार सः

10.30.45

गदो नदं नदो गदं निजघ्नतुः परस्परम् ॥
प्रमुष्टिभिश्च दारुणैर्महद्‌रणे नृपेश्वर

10.30.46

दंडादंडि मुष्टामुष्टि केशाकेशि नखानखि ॥
दंतादंत्युभयोर्युद्धं घोरमेव बभूव ह

10.30.48

इत्थं नियुद्धमानौ तौ प्रकुर्वंतौ रणं पुनः ॥
पादे पादं हृदि हृदं करे करं मुखे मुखम् ४७॥
अन्योन्यमित्थं संलग्नौ परस्परवधैषिणौ ॥
बलाक्रांतावुभौ तौ द्वौ पतितौ च मुमूर्च्छतुः

10.30.49

इत्थं दृष्ट्वा तयोर्युद्धं यादवाश्चैव दानवाः ॥
गदो धन्यो नदो धन्यः प्रोचुर्वाक्यमिदं नृप

10.30.50

गदं निपतितं दृष्ट्वाऽनिरुद्धः शोकपूरितः ॥
चैतन्यं कारयामास जलेन व्यजनेन च

10.30.51

तदैव सोऽपि राजेन्द्र उत्थितः क्षणमात्रतः ॥
क्व नदः क्व नदो यातो त्यक्त्वा युद्धं भयान्मम

10.30.52

निरीक्ष्य दानवं तत्र मूर्छितं पंचतां गतम् ॥
चक्रुर्जयजयारावं यादवाश्चैव देवताः

10.30.30

इति श्रीगर्गसंहितायां हयमेधखण्डे
ऊर्ध्वकेशनददैत्यवधो नाम त्रिंशोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc