भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 10.17

10.17.1

अश्वमेधखण्डः - सप्तदशोऽध्यायः
स्त्रीराज्यविजयम् -
गर्ग उवाच -
अथानिरुद्धस्य हयो विमुक्तो
यदुप्रवीरैश्च महोज्ज्वलांगः ॥
उशीनराद्वीरवरान्प्रपश्य-
न्विनिर्गतः सोऽपि शनैः शनैश्च

10.17.2

एवं स विचरन्‌ राजन्‌ राष्ट्रे राष्ट्रे हयोत्तमः ॥
नृपैश्च बहुभी राजन्गृहीतश्च विमोचितः

10.17.3

इंद्रनीलं जितं श्रुत्वा तथा हेमांगदं नृपम् ॥
नृपाश्चान्ये मण्डलेशाः प्राप्तं न जगृहुर्हयम्

10.17.4

वीरहीनान्बहून्देशान्विलोक्य तुरगोत्तमः ॥
यदृच्छया नृपश्रेष्ठ स्त्रीराज्यं तु जगाम ह

10.17.5

राजन्यकन्या काचिद्वै सुरूपा नाम सुन्दरी ॥
राज्यं सा कुरुते स्वैरं राजा तत्र न जीवति

10.17.6

तत्र देशे स्त्रियं प्राप्य यस्तां भजति कामतः ॥
ऊर्ध्वं संवत्सराद्‌राजन्न कदापि स जीवति

10.17.7

तत्पुरे तुरगो गत्वा ह्युद्याने पुष्पसंकुले ॥
लवंगलतिकवृन्दे स्वेलागंधसमाकुले

10.17.8

पक्षिभिर्मधुपैर्घुष्टे स्थितोऽभूच्चिंचिणीतले ॥
ददृशुः स्त्रीजनाः सर्वे श्यामकर्णं मनोहरम्

10.17.9

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा द्र्ष्टुं समागताः ॥
हयं दृष्ट्वा स्त्रियो गत्वा स्वामिनीमवदन्नृप

10.17.10

श्रुत्वा राज्ञी रथे स्थित्वा छत्रचामरवीजिता ॥
नारीकोटिसमायुक्ता हयं द्र्ष्टुं समाययौ

10.17.11

अश्वं दृष्ट्वा च तत्पत्रं वाचयित्वा रुषान्विता ॥
पुनः पुरे हयं बद्ध्वा युद्धं कर्तुं मनो दधे

10.17.12

काश्चिन्नार्यो गजारूढा रथारूढाः समाययुः ॥
हयारूढास्तथा काश्चिद्दंशिताः शस्त्रसंयुताः

10.17.13

ताः सर्वा कुपिता वीक्ष्य शस्त्रवर्षं प्रकुर्वतीः ॥
आगतो ह्यनिरुद्धस्तु हेमांगदमुवाच ह

10.17.14

अनिरुद्ध उवाच -
राजन्नेताश्च का नार्यो युद्धं कर्तुं समागताः ॥
विस्तरेणापि कथय येन मे स्याच्छिवं त्विह

10.17.15

हेमांगद उवाच -
अत्र देशे च कुरुते राज्ञी राज्यं नृपेश्वर ॥
न जीवति नृपो राज्ये तस्मात्स्त्रीभिः समन्विता

10.17.16

हयं गृहीत्वा ते सा च संग्रामं कर्तुमागता ॥
इति श्रुत्वानिरुद्धस्तु राजानमिदमब्रवीत्

10.17.17

अनिरुद्ध उवाच -
कस्मात्स्त्री कुरुते राज्यं राजा कस्मान्न जीवति ॥
एतां विस्तरतो वार्तां यत्त्वं जानासि तद्वद

10.17.18

इति तद्वाक्यमाकर्ण्य राजा हेमांगदोऽब्रवीत् ॥
संस्मरन् याज्ञवल्क्यस्य स्वगुरोश्च पदांबुजम्

10.17.19

यादवेंद्र पुरावृत्तं याज्ञवल्क्यमुखाच्छ्रुतम् ॥
चंपकायां मया पूर्वं कथयिष्यामि तच्छृणु

10.17.20

पुरा कृतयुगे राजन्नत्र देशे बभूव ह ॥
नारीपाल इति ख्यातो राजा तु मंडलेश्वरः ॥

10.17.21

तस्यासीन्मोहिनी भार्या सिंहलद्वीपसंभवा ॥
पद्मिनी हंसगमना पूर्णचंद्रनिभानना

10.17.22

तस्याः सौंदर्यजलधौ मग्नो भूत्वा महीपतिः ॥
अहर्निशमविज्ञाय रेमे तां शतवत्सरैः

10.17.23

न चाकार प्रजानां वै न्यायं कामेन मोहितः ॥
तदा सर्वाः प्रजा राजन्बभूवुर्दुःखपीडिताः

10.17.24

प्रजानां कदनं वीक्ष्य मोहिनी नृपवल्लभा ॥
न्यायं चकार सर्वासां स्वशक्त्या यादवेश्वर

10.17.25

एकदा तं नृपं द्र्ष्टुमष्टावक्रो महामुनिः ॥
आजगाम नृपस्यापि प्राप्तश्चांतःपुरे किल

10.17.26

तमागतं मुनिं दृष्ट्वा नृपः स्त्रीलग्नमानसः ॥
विजहास कुरुपोऽयं कस्मात्प्राप्त इति ब्रुवन्

10.17.27

ततो रुषा मुनिः प्राह शृणु मूढ नपुंसक ॥
मुनीनां स्त्रीजितो भूत्वापमानं किं करिष्यसि

10.17.28

त्वद्देशे च सदा राज्यं नार्यः कुर्वन्तु नित्यशः ॥
न जीवति नृपो राज्ये तस्माद्‌गच्छ त्वमालयात्

10.17.29

अत्र देशे स्त्रियं प्राप्य यस्तां भजति नित्यशः ॥
स तु संवत्सरांते वै न जीवति न संशयः

10.17.30

गर्ग उवाच -
इत्युक्त्वा स्वाश्रमं सोऽपि प्रययौ मुनिसत्तमः ॥
गते मुनौ नृपस्तत्र क्लीबोऽभूत्तस्य शापतः

10.17.31

सर्वं मुनिकृतं ज्ञात्वा गर्हयामास भूपतिः ॥
आत्मानमात्मना चैव स दीनो दुःखदुःखितः

10.17.32

नारीपाल उवाच -
किं कृतं मंदभाग्येन स्त्रीजितेन मया ह्यहो ॥
मुनीनां पूजनं त्यक्त्वा तथा निरययायिनम्

10.17.33

अद्य मां पापिनं दुष्टं यमदूतैर्विलोकितम् ॥
दृष्ट्वा वैतरणीयोग्यं कः प्रतापात्प्रमोक्ष्यति

10.17.34

इत्युक्त्वा स गृहं त्यक्त्वा विचचार वने वने ॥
भजन्विमुक्तिदं विष्णुं लेभे चांते हरेः पदम्

10.17.35

अत्र देशे च राजानो राज्यं शापभयान्विताः ॥
न करिष्यंति नार्य्यश्च करिष्यंति न संशयः

10.17.36

श्रीगर्ग उवाच -
एवं तयोः कथतोर्नार्यः क्रुद्धाः समागताः ॥
व्यमुंचन्धनुषैर्बाणान्पुंश्चल्यः क्रोधपूरिताः

10.17.37

ताः स्त्रीर्वीक्ष्यानिरुद्धस्तु विस्मितोऽभूद्‌भयान्वितः ॥
कथं करिष्ये युद्धं वै स्त्रीभिः सार्द्धमिति ब्रुवन्

10.17.38

तदैव तस्य निकटे सुरूपा मंडलेश्वरी ॥
स्त्रीभिः प्राप्ता चानिरुद्धं दृष्ट्वा वचनमब्रवीत्

10.17.39

राज्ञ्युवाच
तिष्ठ तिष्ठ रणे वीर कुरु युद्धं मया सह ॥
सेनायुक्तस्तथापि त्वं किं शोचसि वृथा रणे

10.17.40

अहं त्वां मानिनं जित्वा प्रधने वृष्णिभिर्युतम् ॥
क्रीडामृगं करिष्यामि मदनज्वरपीडिता

10.17.41

इति तस्या वचः श्रुत्वानिरुद्धो भयविह्वलः ॥
प्रत्याह दीनया वाचा सर्वविन्मंडलेश्वरीम्

10.17.42

तुरगं कृष्णचंद्रस्य सर्वदेवदेवेश्वरस्य च ॥
मह्यं प्रयच्छ हे राज्ञि क्रतोरर्थे तु स्वेच्छया

10.17.43

नाहं करिष्ये युद्धं वै त्वया सार्द्धं वरानने ॥
गच्छ द्वारावतीं तस्माद्दर्शनार्थं हरेश्च वै

10.17.44

यन्नामस्मरणाद्‌भद्रे नरो याति कृतार्थताम् ॥
तस्य वै दर्शनस्यापि फलं किं कथयामि ते

10.17.45

इति सा चानिरुद्धेन बोधिता निपुणेन वै ॥
पूर्ववार्तां स्मरन्त्याह ब्रह्माणं मोहिनी यथा

10.17.46

सुरूपोवाच
अहं पुराभवं देव स्वर्वेश्या पूर्वजन्मनि ॥
मोहिनी नाम विख्याता कंजांगा कंजलोचना

10.17.47

एकदा हंसयानेन व्रजंतं पद्मसंभवम् ॥
दृष्ट्वा तन्निकटे गत्वा भज मामित्युवाच ह

10.17.48

यदा न जगृहे ब्रह्मा शापं दत्वा तदा ह्यहम् ॥
गत्वा ककुद्मतीतीरे चकार दुष्करं तपः

10.17.49

तपसा तोषितो ब्रह्मा तपोऽन्ते च समागतः ॥
तपस्विनीं प्रसन्नात्मा वरं ब्रूहीत्युवाच ह

10.17.50

तच्छ्रुत्वा मोहिनी प्राह देवदेव नमोऽस्तु ते ॥
वरं वरय लोकेश दीनां मां तपसि स्थिताम्

10.17.51

यदि मां त्वं न गृह्णासि दुःखितां शरणागताम् ॥
तदा रोषेण त्यक्ष्यामि तपसा च कृशां तनुम्

10.17.52

इति श्रुत्वा विधिः प्राह शोकं मा कुरु भामिनि ॥
अन्यजन्मनि ते भद्रे भविष्यति मनोरथः

10.17.53

अहं पौत्रो भविष्यामि द्वारकायां हरेश्च वै ॥
सुवर्णश्चानिरुद्धाख्यः स्त्रीराज्ये त्वं भविष्यसि

10.17.54

ततो गृह्णामि त्वां भद्रे नानृतं वचनं मम ॥
इति श्रुत्वा च तद्वाक्यं जाताहं पृथिवीतले

10.17.55

ब्रह्मा त्वं यादवश्रेष्ठ मदर्थे च समागतः ॥
गर्ग उवाच -
वाक्यं तस्याः समाकर्ण्य यादवा विस्मयं ययुः

10.17.56

अनिरुद्धस्तु धर्मात्मा प्रत्याह विमलं वचः ॥
अनिरुद्ध उवाच -
गच्छ श्रीद्वारकां भद्रे तत्र गृह्णामि त्वां प्रियाम् ॥
अद्य यास्यामि तुरगं राजन्येभ्यश्च पालयन्

10.17.57

ततः सा तस्य वाक्येन प्रमिलां मंत्रिणीं वराम् ॥
राज्ये कृत्वा तुरंगं च दत्त्वा द्वारावतीं ययौ

10.17.17

इति श्रीगर्गसंहितायां हयमेधखण्डे
स्त्रीराज्यविजयो नाम सप्तदशोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc