भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 1.11

1.11.1

कृष्णचन्द्रजन्मवर्णनम्
श्रीनारद उवाच -
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।
विवेश वसुदेवस्य मनः पूर्वं परात्परः

1.11.2

सूर्येन्दुवह्निसंकाशो वसुदेवो महामनाः ।
बभूवात्यन्तमहसा साक्षाद्‌यज्ञ इवापरः

1.11.3

देवक्यामागते कृष्णे सर्वेषामभयंकरे ।
रराज तेन सा गेहे घने सौदामिनी यथा

1.11.4

तेजोवतीं च तां वीक्ष्य कंसः प्राह भयातुरः ।
प्राप्तोऽयं प्राणहन्ता मे पूर्वमेषा न चेदृशी

1.11.5

जातमात्रं हनिष्यामीत्युक्त्वाऽऽस्ते भयविह्वलः ।
पश्यन्सर्वत्र च हरिं पूर्वशत्रुं विचिन्तयन्

1.11.6

अहो वैरानुबन्धेन साक्षात्कृष्णोऽपि दृश्यते ।
तस्माद्वैरं प्रकुर्वन्ति कृष्णप्राप्त्यर्थमासुराः

1.11.7

अथ ब्रह्मादयो देवा मुनीन्द्रैरस्मदादिभिः ।
शौरिगेहोपरि प्राप्ताः स्तवं चक्रुः प्रणम्य तम्

1.11.8

देवा ऊचुः -
यज्जागरादिषु भवेषु परं ह्यहेतु-
र्हेतुः स्विदस्य विचरन्ति गुणाश्रयेण ।
नैतद्विशन्ति महदिन्द्रियदेवसंघा-
स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिंगाः

1.11.9

नैवेशितुं प्रभुरयं बलिनां बलीयान्
माया न शब्द उत नो विषयीकरोति ।
तद्‌ब्रह्म पूर्णममृतं परमं प्रशान्तं
शुद्धं परात्परतरं शरणं गताः स्मः

1.11.10

अंशांशकांशककलाद्यवतारवृन्दै-
रावेशपूर्णसहितैश्च परस्य यस्य ।
सर्गादयः किल भवन्ति तमेव कृष्णं
पूर्णात्परं तु परिपूर्णतमं नताः स्मः

1.11.11

मन्वन्तरेषु च युगेषु गतागतेषु
कल्पेषु चांशकलया स्ववपुर्बिभर्षि ।
अद्यैव धाम परिपूर्णतमं तनोषि
धर्मं विधाय भुवि मंगलमातनोषि

1.11.12

यद्‌दुर्लभं विशदयोगिभिरप्यगम्यं
गम्यं द्रवद्‌भिरमलाशयभक्तियोगैः ।
आनंदकंद चरतस्तव मन्दयानं
पादारविन्दमकरन्दरजो दधामः

1.11.13

पूर्वं तथात्र कमनीयवपुष्मयं त्वां
कंदर्पकोटिशतमोहनमद्‌भुतं च ।
गोलोकधामधिषणद्युतिमादधानं
राधापतिं धरणिधुर्यधनं दधामः

1.11.14

श्रीनारद उवाच -
नत्वा हरिं तदा देवा ब्रह्माद्या मुनिभिः सह ।
गायन्तस्तं प्रशंसन्तः स्वधामानि ययुर्मुदा

1.11.15

अथ मैथिलराजेन्द्र जन्मकाले हरेः सति ।
अंबरं निर्मलं भूतं निर्मलाश्च दिशो दश

1.11.16

उज्ज्वलास्तारका जाताः प्रसन्नं भूमिमंडलम् ।
नदा नद्यः समुद्राश्च प्रसन्नापः सरोवराः

1.11.17

सहस्रदलपद्मानि शतपत्राणि सर्वतः ।
विचकानि मरुत्स्पर्शैः पतद्‌गन्धिरजांसि च

1.11.18

तेषु नेदुर्मधुकरा नदन्तश्चित्रपक्षिणः ।
शीतला मन्दयानाश्च गंधाक्ता वायवो ववुः

1.11.19

ऋद्धा जनपदा ग्रामा नगरा मंगलायनाः ।
देवा विप्रा नगा गावो बभूवुः सुखसंवृताः

1.11.20

देवदुन्दुभयो नेदुर्जयध्वनिसमाकुलाः ।
यत्र तत्र महाराज सर्वेषां मंगलं परम्

1.11.21

विद्याधराश्च गंधर्वाः सिद्धकिन्नरचारणाः ।
जगुः सुनायका देवास्तुष्टुवुः स्तुतिभिः परम्

1.11.22

ननृतुर्दिवि गन्धर्वा विद्याधर्य्यो मुदान्विताः ।
पारिजातकमन्दारमालतीसुमनांसि च

1.11.23

मुमुचुर्देवमुख्याश्च गर्जन्तश्च घना जले ।
भाद्रे बुधे कृष्णपक्षे धात्रर्क्षे हर्षणे वृषे ।
कर्णेऽष्टम्यामर्द्धरात्रे नक्षत्रेशमहोदये

1.11.24

अन्धकारावृते काले देवक्यां शौरिमन्दिरे ।
आविरासीद्धरिः साक्षादरण्यामध्वरेऽग्निवत्

1.11.25

स्फुरदक्षविचित्रहारिणं
विलसत्कौस्तुभरत्‍नधारिणम् ।
परिधिद्युतिनूपुरांगदं
धृतबालार्ककिरीटकुंडलम्

1.11.26

चलदद्‌भुतवन्हिकंकणं
तडिदूर्जितगुणमेखलाञ्चितम् ।
मधुभृद्‌ध्वनिपद्ममालिनं
नवजांबूनददिव्यवाससम्

1.11.27

सतडित्‌घनदिव्यसौभगं
चलनीलालकवृन्दभृन्मुखम् ।
चलदंशु तमोहरं परं
शुभदं सुन्दरमंबुजेक्षणम्

1.11.28

कृतपत्रविचित्रमंडनं
सततं कोटिमनोजमोहनम् ।
परिपूर्णतमं परात्परं
कलवेणुध्वनिवाद्यतत्परम्

1.11.29

तमवेक्ष्य सुतं यदूत्तमो
हरिजन्मोत्सवफुल्ललोचनः ।
अथ विप्रजनेषु चाशु वै
नियुतं सन्मनसा गवां ददौ

1.11.30

हरिमानकदुंदुभिः स्तवैः
स्तवनं तं प्रणिपत्य विस्मितः ।
अकरोदुदितप्रभूदयो
गतभीः सूतिगृहे कृतांजलिः

1.11.31

श्रीवसुदेव उवाच -
एको यः प्रकृतिगुणैरनेकधासि
हर्ता त्वं जनक उतास्य पालकस्त्वम् ।
निर्लिप्तः स्फटिक इवाद्य देहवर्णै-
स्तस्मै श्रीभुवनपते नमामि तुभ्यम्

1.11.32

एधःसु त्वनल इवात्र वर्तमानो
यो‍ऽन्तस्थो बहिरपि चाम्बरं यथा हि ।
आधारो धरणिरिवास्य सर्वसाक्षी
तस्मै ते नम इव सर्वगो नभस्वान्

1.11.33

भूभारोद्‌भटहरणार्थमेव जातो
गोदेवद्विजनिजवत्सपालकोऽसि ।
गेहे मे भुवि पुरुषोत्तमोत्तमस्त्वं
कंसान्मां भुवनपते प्रपाहि पापात्

1.11.34

श्रीनारद उवाच -
परिपूर्णतमं साक्षाच्छ्रीकृष्णं श्यामसुन्दरम् ।
ज्ञात्वा नत्वाथ तं प्राह देवकी सर्वदेवता

1.11.35

श्रीदेवक्युवाच -
हे कृष्ण हे विगणिताण्डपते परेश
गोलोकधामधिषणध्वज आदिदेव ।
पूर्णेश पूर्ण परिपूर्णतम प्रभो मां
त्वं पाहि परमेश्वर कंसपापात्

1.11.36

श्रीनारद उवाच -
तच्छ्रुत्वा भगवान्कृष्णः परिपूर्णतमः स्वयम् ।
सस्मितो देवकीं शौरिं प्राह स वृजिनार्दनः

1.11.37

श्रीभगवानुवाच -
इयं च पृश्निः पतिदेवता च
त्वं पूर्वसर्गे सुतपा प्रजार्थी ।
ब्रह्माज्ञया दिव्यतपो युवाभ्यां
कृतं परं निर्जलभोजनाभ्याम्

1.11.38

कालेषु मन्वन्तरके व्यतीते
तपः परं तत्तपसः प्रजार्थी ।
तदा प्रसन्नो युवयोरभूवं
वरं परं ब्रूत मया तदोक्तम्

1.11.39

श्रुत्वा युवाभ्यां कथितं तदैव
भूयात्सुतस्त्वत्सदृशः किलावयोः ।
तथास्तु चोक्त्वाथ गते मयि प्रजा-
पती ह्यभूत स्वकृतेन दम्पती

1.11.40

न मत्समः कोऽपि सुतो जगत्यलं
विचार्य तद्वामभवं परेश्वरः ।
श्रीपृश्निगर्भो भुवि विश्रुतः पुन-
र्द्वितीयकालेऽहमुपेन्द्रवामनः

1.11.41

तथाऽभवं ह्यद्यतमे परात्परो
नीत्वाऽथ मां प्रापय नन्दमन्दिरम्
अतो न भूयाद्‌भयमौग्रसेनतः
सुतां समादाय सुखी भविष्यथः

1.11.42

श्रीनारद उवाच -
तूष्णीं भूत्वा हरिस्तत्र तद्‌भूयः पश्यतोस्तयोः ।
दृश्यं ह्यप्रकटं कृत्वा बालोऽभूत्कौ यथा नटः

1.11.43

प्रेंखे धृत्वाऽथ तं शौरिर्यावद्‌गन्तुं समुद्यतः ।
तवाद्‌व्रजे नन्दपत्‍न्यां योगमायाऽजनि स्वतः

1.11.44

तया शयाने विश्वस्मिन् रक्षकेषु स्वपत्सु च ।
द्वार उद्‌घाटिताः सर्वाः प्रस्फुटच्छृङ्‌खलार्गलाः

1.11.45

निर्गते वसुदेवे च मूर्ध्नि श्रीकृष्णशोभिते ।
सूर्योदये यथा सद्यस्तमोनाशोऽभवत्स्वतः

1.11.46

घनेषु व्योम्नि वर्षत्सु सहस्रवदनः स्वराट् ।
निवारयन्दीर्घफणैरासारं शौरिमन्वगात्

1.11.47

ऊर्म्यावर्ताकुलावेगैः सिंहसर्पादिवाहिनी ।
सद्यो मार्गं ददौ तस्मै कालिन्दी सरितां वरा

1.11.48

नन्दव्रजं समेत्यासौ प्रसुप्तं सर्वतः परम् ।
शिशुं यशोदाशयने निधायाशु ददर्श ताम्

1.11.49

तत्सुतां समुपादाय पुनर्गेहाज्जगाम सः ।
तीर्त्वा श्रीयमुनां शौरिः स्वागारे पूर्ववत्स्थितः

1.11.50

सुतं सुतां वा जातं चाज्ञात्वा गोपी यशोमती ।
परिश्रान्ता स्वशयने सुष्वापानन्दनिद्रया

1.11.51

अथ बालध्वनिं श्रुत्वा रक्षकाः समुपस्थिताः ।
ऊचुः कंसाय वीराय गत्वा तद्‌राजमन्दिरम्

1.11.52

सूतीगृहं त्वरं प्रागात्कंसो वै भयकातरः ।
स्वसाथ भ्रातरं प्राह रुदती दीनवत्सती

1.11.53

श्रीदेवक्युवाच -
सुतामेकां देहि मे त्वं पुत्रेषु प्रमृतेषु च ।
स्त्रियं हन्तुं न योग्योऽसि भ्रातस्त्वं दीनवत्सलः

1.11.54

तेऽनुजाहं हतसुता कारागारे निपातिता ।
दातुमर्हसि कल्याण कल्याणीं तनुजां च मे

1.11.55

श्रीनारद उवाच -
अश्रुमुख्या मोहितया समाच्छाद्यात्मजां बहु ।
प्रार्थितोऽङ्‌काद्विनिर्भर्त्स्य तां स आचिच्छिदे खलः

1.11.56

कुसङ्गनिरतः पापः खलो यदुकुलाधमः ।
स्वसुः सुतां शिलापृष्ठे गृहीत्वांघ्र्योर्न्यपातयत्

1.11.57

कंसहस्तात्समुत्पत्य त्वरं सा चांबरे गता ।
शतपत्रे रथे दिव्ये सहस्रहयसेविते

1.11.58

चामरांदोलिते शुभ्रे स्थितादृश्यत दिव्यदृक् ।
सायुधाष्टभुजा माया पार्षदैः परिसेविता ।
शतसूर्यप्रतीकाशा कंसमाह घनस्वना

1.11.59

श्रीयोगमायोवाच -
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।
जातः क्व वा तु ते हन्ता वृथा दीनां दुनोषि वै

1.11.60

श्रीनारद उवाच -
इत्युक्त्वा तं ततो देवी गता विन्ध्याचले गिरौ ।
योगमाया भगवती बहुनामा बभूव ह

1.11.61

अथ कंसो विस्मितोऽभूच्छ्रुत्वा मायावचः परम् ।
देवकीं वसुदेवं च मोचयामास बन्धनात्

1.11.62

कंस उवाच -
पापोऽहं पापकर्माहं खलो यदुकुलाधमः ।
युष्मत्पुत्रप्रहन्तारं क्षमध्वं मे कृतं भुवि

1.11.63

हे स्वसः शृणु मे शौरे मन्ये कालकृतं त्विदम् ।
येन निश्चाल्यमानो वा वायुनेव घनावलेः

1.11.64

विश्वस्तोऽहं देववाक्ये देवास्तेऽपि मृषागिरः ।
न जानामि क्व मे शत्रुर्जातः कौ कथितोऽनया

1.11.65

श्रीनारद उवाच -
इत्थं कंसस्तदंघ्र्योश्च पतितोऽश्रुमुखो रुदन् ।
चकार सेवां परमां सौहृदं दर्शयंस्तयोः

1.11.66

अहो श्रीकृष्णचन्द्रस्य परिपूर्णतमप्रभोः ।
दानदक्षैः कटाक्षैश्च किन्न स्याद्‌भूमिमंडले

1.11.67

प्रातःकाले तदा कंसः प्रलंबादीन्महासुरान् ।
समाहूय खलस्तेभ्योऽवददुक्तं च मायया

1.11.68

कंस उवाच -
जातो मे ह्यंतकृतद्‌भूमौ कथितो योगमायया ।
अनिर्दशान्निर्दशांश्च शिशून्यूयं हनिष्यथ

1.11.69

दैत्या ऊचुः -
सज्जस्य धनुषो युद्धे भवता द्वंद्वयोधिना ।
टंकारेणोद्‌गता देवा मन्यसे तैः कथं भयम्

1.11.70

गोविप्रसाधुश्रुतयो देवा धर्मादयः परे ।
विष्णोश्च तनवो ह्येषां नाशे दैत्यबलं स्मृतम्

1.11.71

जातो यदि महाविष्णुस्ते शत्रुर्यो महीतले ।
अयं चैतद्‌वधोपायो गवादीनां विहिंसनम्

1.11.72

इत्थं महोद्‌भटा दुष्टा दैतेयाः कंसनोदिताः ।
दुद्रुवुः खं गवादिभ्यो जघ्नुर्जातांश्च बालकान्

1.11.73

आसमुद्राद्‌भूमितले विशंतश्च गृहे गृहे ।
कामरूपधरा दैत्याश्चेरुः सर्पा इवाभवन्

1.11.74

उत्पथा उद्‌भटा दैत्यास्तत्रापि कंसनोदिताः ।
कपिः सुरापोऽलिहतो भूतग्रस्त इवाभवन्

1.11.75

वैदेह मैथिल नरेन्द्र उपेन्द्रभक्त
धर्मिष्ठमुख्य सुतपो जनक प्रतापिन् ।
एतत्सतां च भुवि हेलनमंग राजन्
सर्वं छिनत्ति बहुलाश्व चतुष्पदार्थान्

1.11.11

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
श्रीकृष्णचन्द्रजन्मवर्णनं नाम एकादशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc