गर्भावक्रान्त्यवदान · अध्याय 10
चम्पोपान्ते विमलनलिनीतीरपर्यन्तवसी
शास्ता पूर्वं सकलभुवनानुग्रहाय प्रवृत्तह् ।
पृष्टः स्पर्शावगतिरुचिना (?) भिक्षुणानन्दनाम्ना
गर्भारम्भात् प्रभृति जनताजन्मवृत्तिं जगाद
शुक्लैः कृष्णैः शबलरुचिभिर् देहिनां कर्मसूत्रैश्
चित्रं लोके बहुतरदशं दृश्यते जन्मवस्त्रम् ।
जीर्णस्यापि व्यसनमलिनस्नेहलीनः प्रयत्नैर्
यस्यात्यन्तं चिरपरिणतेर् नैव निर्याति रागः
पुंसः शुक्रं विगलितधृतेर् आर्तवं योषितश् च
स्पर्शावेशव्यतिकरजुषोः संगमे संनिपातात् ।
एकीभूतं व्रजति नियमात् कस्य चिद् बीजभावं
यो ऽन्तस् तस्मिन् भवति सहसा संनिकाषे यथाग्निः
रागोद्गारः स्फटिकशकलं मेघम् अम्भोधिपाथः
पुष्पामोदस् तिलं इव शनैः काञ्चनं वाग्नितापः ।
सो ऽयं गर्भं विशति नियतैर् अप्य् असंलक्ष्यवृत्तिर्
वायुर् गन्धैर् इव बहुविधैः कर्मभिर् वास्यमानः
तस्मिन् सूक्ष्मक्रमपरिणतिर् मीनपर्युष्टके (?) ऽसौ
नानाकारप्रचुररचनाचित्ररूपो ऽप्य् अलक्ष्यः ।
कं चित् कालं वहति विकृतिं निर्विकारायमानो
मायूराण्डे जलमय इव व्यक्तभक्तिर् मयूरः
तत्राधानाद् घनकललताशल्यपेश्याद्यवस्थास्
त्यक्त्वा तास् ता जठरजनितेनोष्मणा पच्यमानः ।
पूर्णैर् मासैर् नवभिर् अथवावर्तकर्मक्रमो ऽसौ
क्लेशं भुङ्क्ते किम् अपि विषमं दुःखसंज्ञाप्रपन्नः
काले वृन्तात् स्वयं इव फलं विच्युतं कर्मपाकात्
तत्कालोत्थैर् अविहतजवैः प्रेरितः पूतिवातैः ।
लक्ष्याभ्यासायतनसचिवैर् आचितः कर्मबन्धैर्
निर्यात्य् अन्तः शर इव धनुर्यन्त्रणैर् यन्त्रमुक्तः
उत्तानास्यः सरलरसनश् चूचुकाग्रं लिहानः
स्तन्यं मातुः पिबति यद् असौ नैव कर्णेन नाक्ष्णा । जन्माभ्यासव्यसनयतनायाससंवासलिना
सा तस्याग्रे सकलकलनादेशिनि वासनैव
स्यूतैर् अन्तर् विविधविषयस्वादसंपादभेदैर्
व्याप्तः सूतैर् (?) बिसलव इव व्यक्ततन्तुप्रतानैः ।
मूधः सो ऽथ प्रकृतिसचिवैर् इन्द्रियैर् दत्तसम्ज्ञः
स्तन्यालापाकृतिपरिमलस्पर्शनैर् वेत्ति धात्रीम्
हस्ताकर्षैः शयनवसनाघर्षणैः पीड्यमानः
स्थाने स्थाने तरलिततनुः कीटकैर् भक्ष्यमाणः ।
नित्याक्रन्दी वचनविरहात् कायिकीं क्लेशशैलीं
कं बोब्रूते विषमविपदाम् आस्पदत्वं प्रयातः
पीडोद्वान्तैश् छुरितवदनः प्रोच्छलत्क्षीरपूरैर्
उत्तानोरस्तलनिपतितैर् उक्षितो लक्ष्यते ऽसौ ।
मायावध्वाः स्मरणहरणप्रौढकेलीविलासे
हासेनेव स्फुरितरुचिना निर्भरव्याप्तकायः
सो ऽथ प्राप्ते लिपिपरिचये हेलया दत्तहस्ते
संसारे ऽस्मिन्न् अविचलितया बन्धलेख्यक्रियासु ।
जन्मावर्तं निजं इव लिखन् दीर्घं ओंकारम् आदौ
वर्गे वर्गे वितरति मतिं भोगसर्गे निविष्टः
प्राप्तप्रज्ञः कथम् अपि गलद्बालभावप्रमोहः
कामौत्सुक्यात् पुनर् अपि परे यौवने नष्टसंज्ञः ।
निःसारेषु व्यसनविलसद्मेघसौदामिनीनां
बध्नात्य् आस्थां स्थिरतरधिया योषितां विभ्रमेषु
वाचि श्रोत्रं वपुर् अपि चलालिङ्गनेष्व् अङ्गनानां
घ्राणं वक्त्रासवपरिमले स्वादनं तद्रसे च ।
पात्रे कुर्वन् दृशम् अपि मुखे सुप्तसर्वक्रियो ऽसौ
धत्ते मात्रं तनुपरिणतांनीव सर्वेन्द्रियाणि
द्वेष्टि स्निग्धं परिचितपरिद्वेषशीलः स कामी
वाञ्छत्य् अन्यां नवनवरसः सप्रयत्नो ऽन्यकामाम् ।
इत्य् अन्योन्यानुचितचरितालक्ष्यवैलक्ष्यसाक्षी
हास्यायैव प्रकृतिविरसश् चित्रतन्त्रो ऽस्य कामः
अल्पाधारे विषयजलधौ मज्जतः सज्जतश् च
भ्रष्टस्यास्य प्रतिहतगतेः कुञ्जरस्येव पङ्के ।
किंकर्तव्यावगतिरहिता जायते मोहमूर्च्छा
नीतस्यान्ध्यं कतिपयदिनस्थायिना यौवनेन
यावत्कालं भ्रमति चलति प्रीयते जृम्भते ऽसौ
स्मेरं स्मेरं वदति मदनालिङ्गितैर् अङ्गभङ्गैः ।
तावत् तस्योपरि परिपतर्य् एव कालप्रमुक्ता
प्रालेयालीधवलपलितच्छद्मना वध्यमाला
काले काले क्षणकलनया मोहनिद्रावशेन
प्राप्तं नास्मिन् वपुषि सुकृतं नैव दत्तं न भुक्तं ।
इत्थं चौरैर् इव स मुषितश् चिन्तयत्य् एव दुःखात्
संमूढानां अनुशयफलः सो ऽवसादप्रमादः
तस्मिन् याते ललितवनितापुष्पवल्लीवसन्ते
दुष्कर्माप्तद्रविणतुलया यौवने स्वप्नकल्पे ।
नष्टाशेषप्रकृतिर् अखिलैः खेदिताङ्गैर् विरक्तैर्
राज्यभ्रंशे नृप इव सुखं सो ऽथ शोचत्य् अतीतं
आयुर् नीतं न च समुचितं याचकायोपनीतं
नाप्य् उन्नीतं दिशि दिशि यशः सत्पथं न प्रतीतं
पीतं याच्ञाविषम् अधिगतं स्फीतसंतापशीतं
भीतं पापात् किम् अपि न मया यत् तद् एव प्रणीतं
क्वासौ हेमद्रुमरुचिहरा हारिणी यौवनश्रीः
कायः क्वायं कृमिहततरुप्रायविच्छायपाकः ।
दूराद् एताः परिहृतदृशाः कोणलीनं तरुण्यः
शुष्कं शीतं तरुम् इव वने वानरं मां वदन्ति
सो ऽयं कायः श्रयति विलयं नैव मायानिकायः
स्रस्ताः सर्वे दशनमणयस् ते च केशाः न दोषाः ।
गात्रोत्साहे प्रहरति मरुन् नैव मोहप्ररोहे
क्षीणस्येयं शयनशरणस्यापि तृष्णाक्षया मे
संचिन्त्येति प्रसृतविषमश्वासहिक्कार्दितो (?) ऽसौ
सद्यस् त्यक्तुं चिरपरिचिताम् उद्यतो लोकयात्राम् ।
मूकिभूतः स्वजनविरहं ध्यायति ध्वस्तधैर्यः
शक्तिच्छेदाद् ऋणं इव महत् प्राप्तकालो दरिद्रः
भूमिं गेहं वसु परिजनं पुत्रदारादि चान्यत्
तावत् तावत् कलयति धिया प्राणपर्यन्तकाले ।
यावज् जन्मन्य् अपि पुनर् असौ स्नेहमोहानुबन्धैस्
तैस् तैर् अन्तः कृतपरिचयस् तन्मयीभावम् एति
दुःखं दुःसहपापकर्मजनितं कुम्भीसहस्रान्तरे
भुक्त्वा रौरवकालसूत्रनरकेष्व् आवर्तते योनिषु ।
यद् वा पुण्यकलार्जितं सुखपदं तत् संक्षये दुःखदं
सानागामिफलाप्तये विमलधीस् तस्मात् समाधीयतां
इति भीमभवाम्भोधिसंतारणकृतव्रतः ।
समादिदेश भगवान् सत्त्वानां कुशलाप्तये
मूल पाठ: Garbhāvakrāntyavadāna · Edition: Michael Hahn: "Kṣemendras Garbhāvakrāntyavadāna (Sanskrittexte aus dem tibetischen Tanjur II)", Journal of the European Ayurvedic Society 5 (1997), pp. 82-112. = KAvk_10 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0