भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 2.96.100

2.96.100.1

अध्याय ९६ प्रारंभ :-
क उवाच ।
ततः कदाचिद्गिरिजा प्रसन्नं प्राह शंकरम् ।
शिवोवाच ।
देवेश सप्तमं वर्षं प्रवृत्तं सांप्रतं शिशोः

2.96.100.2

क्रियतां व्रतबन्धोऽस्य सुमुहूर्ते महोत्सवात् ।
शिव उवाच ।
सम्यगुक्तं त्वया भद्रे ज्ञात्वा चेतोगतं मम

2.96.100.3

संपादयिष्ये साध्वस्य व्रतबन्धं यथाविधि ।
क उवाच ।
इत्युक्त्वा गिरिजां देवः समाकार्य च गौतमम्

2.96.100.4

विचार्य सुदिने लग्नं सामग्रीः समपादयत् ।
मण्डपं च सुविस्तीर्णं सर्वानृषिगणान्मुनीन्

2.96.100.5

आकार्य परिपूज्यैतांस्तदाज्ञावशगो हरः ।
यथाविधि चकारास्य व्रतबन्धं मुदा तदा

2.96.100.6

उपायनानि सर्वे ते शिवयोर्बालकस्य च ।
अष्टाशीतिसहस्रेभ्यो नमस्कृत्य हरोऽपि च

2.96.100.7

संपूज्य विधिवत्प्रादान्नानोपायनसंचयान् ।
त्रिंशत्त्रिकोटिदेवेभ्यो यक्षेभ्योऽपि तथैव च ।
किन्नरेभ्यश्चारणेभ्यो वाद्यघोषे नदत्यपि

2.96.100.8

गायत्सु किन्नरेष्वाशु नर्तकीनां गणेषु च ।
नृत्यत्सु सर्वलोकेषु पश्यत्सु सुमहोत्सवम्

2.96.100.9

उपायनानि दानानि ददौ हर्षात्सदाशिवः ।
देवतास्थापनं कृत्वा भोजयामास चाखिलान्

2.96.100.2.96.10

प्रातःकाले बटुं स्नाप्य चौलकर्म समाप्य च ।
चतुर्भिर्ब्राह्मणैः सार्धं तं भोज्य संस्नाप्य वै पुनः

2.96.100.11

वेदिकायामन्तरा दु धृत्वा पटमनुत्तमम् ।
मुहूर्तं साधयामास मुनिभिर्मन्त्रवादिभिः

2.96.100.12

एतस्मिन्नन्तरे दैत्यौ कृतान्तकालसंज्ञकौ।
गजरूपधरौ मत्तौ मदोदस्राविणौ दृढौ

2.96.100.13

तीक्ष्णदन्तौ दीर्घशुण्डौ गगनस्पर्धिपुष्करौ ।
चीत्कारभीषितजनौ सिन्दूरारुणमस्तकौ

2.96.100.14

कम्पते पादघातेन ययोराशु वसुन्धरा ।
दन्ताघातेन युध्यन्तौ रजसाच्छाद्य रोदसी

2.96.100.15

सभाद्वारगतं शक्रकारिणं समुपागतौ ।
दन्तप्रहारैस्तद्गण्डं भिन्दन्तौ बलवत्तरम्

2.96.100.16

स्रवद्रक्तः पपातोर्व्यां मूर्छितो गजराट् क्षणात् ।
ऐरावतः पपालाशु मुहूर्तात्प्राप्य चेतनाम्

2.96.100.17

करिणौ पृष्ठलग्नौ तौ दन्ताघातैर्निजघ्नतुः ।
ततस्तौ मत्तमातंगौ सभामध्यं समीयतुः

2.96.100.18

शुण्डाभ्यां मण्डपं तौ तु ताडयामासतुस्तदा ।
उत्तस्थुः सर्वलोकास्ते श्रुत्वा कोलाहलं तयोः

2.96.100.19

यतो यतो गच्छतः स्म ततो देवाः पलायिताः ।
मुनयश्च तयोर्भीत्या दशदिक्षु पलायिताः

2.96.100.2.96.20

शिवं तत्र समाचख्युर्विघ्नमेतदुपस्थितम् ।
गणा ऊचुः ।
सेन्द्रा सभा मुनियुता विध्वस्ता गजभीतितः

2.96.100.21

ततः पलायिता गौरी सखीभिर्गृहमागता ।
बालस्ततो निरीक्ष्यैतौ दन्तिनौ बलवत्तरौ

2.96.100.22

जगर्ज घनवच्छीघ्रं तयोः शुण्डे दधार ह ।
उभाभ्यामपि हस्ताभ्यां चीत्कारं तौ प्रचक्रतुः

2.96.100.23

भ्रामयित्वास्फालयत्स एकस्मिन्नपरं गजम् ।
उभौ तौ शतधा जातौ पतितौ धरणीतले

2.96.100.24

धरा चकम्पे वृक्षाश्च निपेतुश्चूर्णिता भुवि ।
ततः खण्डानि तान्याशू दूरतश्चिक्षिपुर्गणाः

2.96.100.25

बटुं जग्राह जननी शीघ्रमागत्य स्वे कटौ ।
सर्वे पलायिता देवा मुनयोऽनेन दानवौ

2.96.100.26

बालेन निहतौ शीघ्रमित्युवाच शिवां सखी ।
ततस्ते मीलिता देवा इन्द्राद्या मुनयोऽपि च

2.96.100.27

ऊचुर्गुणेशं ते सर्वे स्वामिन्सर्वंगुणाकर ।
सर्वप्राणहरौ दैत्यौ कापट्याद्गजरूपिणौ

2.96.100.28

निहतौ लीलया देवमायिनौ बलवत्तरौ ।
इत्युक्त्वा शक्रमुनयो देवाश्च विविशु सभाम्

2.96.100.29

उपविष्टेषु सर्वेषु ननृतुश्चाप्सरोगणाः ।
ततो वाद्यान्यवाद्यन्त ब्रह्मा रुद्रसमीपगः

2.96.100.2.96.30

दत्त्वा परस्परं प्रैषं बबन्ध मेखलां शिशोः ।
यज्ञोपवीतमजिनं होमं च समिधामपि

2.96.100.31

कारयामास विधिवत्सावित्रीवाचनं ततः ।
ततो माता ददौ भिक्षामंशुके भूषणानि च

2.96.100.32

उत्तरीयं च रत्नानि मुक्ताफलयुतानि च ।
लड्डूकान्भक्ष्यखाद्यानि त्रिशूलं शशिनं शिवः

2.96.100.33

ददौ नाम चकारास्य भालचन्द्र इति स्फुटम् ।
शूलपाणिरिति परं ततश्चक्रं हरिर्ददौ

2.96.100.34

शोचिष्केशेति नामास्य चक्रे सम्यङ्महात्मनः ।
ततः पुरन्दरः पूज्य कण्ठे चिन्तामणिं ददौ

2.96.100.35

नाम चिन्तामणिरिति चक्रे सर्वार्थदं शुभम् ।
ददौ तदैव कमलमभ्यर्च्य कमलासनः

2.96.100.36

विधातेति च नामास्य स्थापयामास संसदि ।
ततः सर्वे सुरगणाः समभ्यर्च्य गुणेश्वरम्

2.96.100.37

नानाविधानि नामानि चक्रुः स्वस्वेच्छया सुराः ।
अदितिः कश्यपश्चाथ तं पुपूजतुरादरात्

2.96.100.38

दर्शयामास देवोऽपि पूर्वरूपं तयोश्शुभम् ।
भालचन्द्रं दशभुजं मुकुटेन विराजितम्

2.96.100.39

दिव्याम्बरं दिव्यगन्धं दिव्याभरणभूषितम् ।
सिंहारूढं विराजन्तमुरगोदरबन्धनम्

2.96.100.2.96.40

दृष्ट्वेत्थमदितिर्ह्रष्टा लिलिगं स्नेहनिर्भरा ।
रोमांचितशरीरा सा प्रेमगद्गदनिःस्वना

2.96.100.41

विस्मयं परमं प्राप्ता स्रवदश्रुजलाविला।
परमानन्दमग्नाऽभूत्स्नेहस्तुतपयोधरा

2.96.100.42

तथैव कश्यपो देहभावं तत्याज तत्क्षणात् ।
ऊचतुस्तौ सुतस्नेहाद्वत्सावां ते वियोगतः

2.96.100.43

कृशतां गमितौ तेऽद्य दर्शनात्पुष्टतां गतौ ।
नावां त्यज सुतेदानीं जनौ त्वच्चरणे रतौ

2.96.100.44

गजानन उवाच ।
प्रतिश्रुतं मया मातर्दास्ये दर्शनमेकदा ।
तदिदानीं मया दत्तं न शोकं कर्तुमर्हसि

2.96.100.45

सर्वान्तर्यामिणो मे वै वियोगो न कदाचन ।
क उवाच ।
एवं तु वदतोरेवं पार्वती समुपागता

2.96.100.46

उवाच परमप्रीता दृष्ट्वा स्नेहं तयोः शिशौ ।
अदिते देहि मे पुत्रं गृहीतं चिरकालतः

2.96.100.47

नायं तव सुतः सुभ्रु सम्यक्पश्य शुचिस्मिते ।
साऽपश्यत्पुनरेवैनं स्वस्यैव तनयं विभुम्

2.96.100.48

अदितिरुवाच ।
त्वमेव गौरि पश्याशु तनयं मे पुरः स्थितम् ।
साऽपश्यत्पुनरेवैनं गुणेशं तनयं स्वकम्

2.96.100.49

अदितिस्तां ममेत्याह पार्वती तां ममेति च ।
एवं विवदमाने तु प्राहुर्देवाः सुविस्मिताः

2.96.100.2.96.50

अनादिनिधनो देवः सृष्टिस्थित्यन्तुकारकः ।
अनन्तरूपोऽनन्तश्रीरनेकशक्तिसंयुतः

2.96.100.51

कस्या अयं भवेत्पुत्र उभे भ्रान्तेऽस्य मायया ।
ते ऊचतुः ।
यस्या अयं भवेत्पुत्रस्तस्या हस्ते प्रदीयताम्

2.96.100.52

क उवाच।
ततो देवा निरीक्ष्यैनं नानारूपिणमीश्वरम् ।
कश्चिदाह विधाताऽयं कश्चिद्विष्णुं चतुर्भुजम्

2.96.100.53

कश्चित्त्रिलोचनं प्राह वरुणं विस्मिताः सुराः।
ऊचुस्ते निश्चयोऽस्माभिर्विधातुं नैव शक्यते

2.96.100.54

भवतीभ्यां विवेकेन ग्राहयोऽयं परमः पुमान् ।
ततो गौरी गृहाणाशु तं विभुं तनयं स्वकम्

2.96.100.55

स्तनपानं ददौ स्नेहाददितिर्नीरसाऽभवत् ।
ममचेद्बालकोऽयं स्यात्कथं यायात्परं प्रति

2.96.100.56

अहं भ्रान्त्याऽभवं सक्ता परस्य तनये वृथा।
मुनयः कश्यपश्चैनं पुपूजुस्ते गुणेश्वरम्

2.96.100.57

नमस्कृत्याभ्यनुज्ञाप्य ययुः स्वं स्वं निवेशनम् ।
भवानी च गृहं याता पुत्रमादाय हर्षिता

2.96.100.96

ततः समागताः सर्वे प्रागमन्निलयान्स्वकान् ५८ (४३४६)
इति श्रीगणेशपुराणे क्रीडाखण्डे गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः

2.96.100.1

अध्याय ९७ प्रारंभ :-
मुनिरुवाच ।
त्वया विनायको देवो मयूरेश्वरसंजितः ।
ततो गुणेशनाम्ना मे महिमाऽयं निरुपितः

2.96.100.2

स कथं प्राप तन्नाम किं च तेन कृतं महत् ।
कर्म तन्मे समाचक्ष्व साम्प्रतं विश्वसृग्विभो

2.96.100.3

क उवाच ।
यथा तेन कृतं कर्म मयूरेश्वरनाम च ।
प्रापद्विनायको देवो निरूपिष्येऽखिलं तव

2.96.100.4

पातालभवने शेषः सभामध्यगतोऽभवत् ।
वासुकिप्रमुखै सर्वैः समन्तात्परिवारितः

2.96.100.5

ततः कद्रूः समायाता तेजोरूपा सुरूपिणी ।
मुक्तामणियुतं चारु बिभ्रती कंचुकं शुभम्

2.96.100.6

बिम्बोष्ठी चन्द्रवदना दिव्यभूषाम्बरावृता ।
तां दृष्ट्वा जननीं शेषो वासुकिप्रमुखाश्च ये

2.96.100.7

नेमुर्मातर्बहुदिनैरभवद्दर्शनं तव ।
कांक्षन्ते दर्शनं सर्वे त्वं तु निष्ठुरतां गता

2.96.100.8

इत्यूचुस्तां करे धृत्वाऽस्थापयन्पैत्र्य आसने ।
पुपूजुः परया भक्त्या ततः शेषोऽब्रवीत्तु ताम्

2.96.100.9

शेष उवाच ।
त्वं मातः कश्यपस्यापि पत्नी चारुतरा सती।
सर्वविद्यानिधानस्य सष्टिस्थित्यन्तकारिणः

2.96.100.2.97.10

ब्रह्मादयो देवगणास्तत्त्वं यस्य न वै विदुः ।
त्वं चापि सहसा शापानुग्रहे च क्षमा ह्यसि

2.96.100.11

तव पुत्रा वयं मातस्त्रैलोक्यग्राससाहसाः ।
सा कथं त्वमिहायाता किमुद्दिश्य प्रयोजनम्

2.96.100.12

कद्रूरुवाच ।
विना प्रयोजनं पुत्र कोपि नायाति किंचन ।
तच्च ते कथयिष्येऽहं शृणु सादरमात्मज

2.96.100.13

विनता मे सपत्नी या जननी पुत्र पक्षिणाम् ।
तस्या दर्शनकांक्षा मे कदाचित्संबभूव ह

2.96.100.14

अनादृता तयाऽहं तु तद्गृहं सहसा गता।
नासनं न च सत्कारं स्वागतं न च साऽकरोत्

2.96.100.15

पूर्ववैरं स्मरन्ती सा जटायुं पुत्रमादिशत् ।
तेन चाकर्षिता वेणी विवस्त्राऽहं कृता क्षणात् ।
मामुवाच महादुष्टे नावलोक्यं मुखं तव

2.96.100.16

मम मातुस्तु दासीत्वं पूर्वमासीः कृतं त्वया ।
तदा न करुणालेशो धूतो मनसि कर्हिचित्

2.96.100.17

इतो गच्छ न चेत्प्राणान्गृहीष्यामि महाखले ।
श्रुत्वा तदीयवाक्यानि दुःखिताऽहं फणीश्वर

2.96.100.18

आक्रन्दं परमं प्राप्ता प्रणत्यागे तु निश्चिता।
आगताऽहं ततो युष्मद्दर्शनार्थं सुदुःखिताः

2.96.100.19

यदि वो मयि भक्तिः स्यात्साहाय्यं क्रियतां मम ।
सत्पुत्रा यदि मान्याऽहं तदा तस्या विनाशनम

2.96.100.2.97.20

कर्तव्यं च सपत्न्या मे ततो हृदि सुखं भवेत् ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं शेषो रोषसमन्विताः

2.96.100.21

जज्वाल सहसा वह्निर्घृतेनेव प्रदीपितः ।
मम मातुः कृता पीडा विनतातनयैर्यदि

2.96.100.22

तदाऽहं तत्प्रतीकारं करिष्यामि न संशयः ।
एवमुक्त्वा स शेषोऽथ वासुकिप्रमुखैर्युतः

2.96.100.23

तत्र गन्तुं मनश्चक्रे यत्र सा विनताऽभवत् ।
वासुकिरुवाच ।
अहमेव गमिष्यामि कोटिनागैर्युतोऽनघ

2.96.100.24

विनतामानयिष्यामि तिष्ठ त्वं भुजगाधिप ।
क उवाच ।
एवमुक्त्वा ययौ शीघ्रं वासुकिर्विनताश्रमम्

2.96.100.25

असंख्यानुरगान्दृष्ट्वा बिभाय विनता तदा ।
तदैव वेष्टिता सर्पैः क्रूरैर्दुष्टस्वभावकैः

2.96.100.26

निन्युस्ते शेष निकटं सा च तानब्रवीत्तदा ।
विनतोवाच ।
किमर्थं बन्धनं कृत्वा मम नेतुं समुद्यताः

2.96.100.27

अपराधविहीनायाः पापिष्ठा गदताशु मे।
मम पुत्रस्यानुभवो ज्ञातोऽस्ति सर्वपन्नगैः

2.96.100.28

अतो मुंचन्तु मां नो चेत्स संहारं करिष्यति ।
क उवाच ।
धार्यंटां तेषां समीक्ष्यैव सस्मार गरुडं तु सा

2.96.100.29

सोऽपि ज्ञात्वा स्मृतिं तस्या आगतः पक्षिभिः सह ।
श्येनः सम्पातिरथ च जटायुः पक्षिपुंगवः

2.96.100.2.97.30

येषां पक्षसमीरेण चकम्पे भुवनत्रयम् ।
भुजगास्ते तु सर्वेऽपि वमद्विषकणाभवन्

2.96.100.31

युद्धमासीन्महाघोरं भुजगेन्द्रपतत्त्रिणाम् ।
ततो जटायुं सम्पातिं श्येनं बद्ध्वानयंस्तु ते

2.96.100.32

मातुः स्मृते तु संप्राप्तो गरुडः पक्षवातताः ।
कम्पयंजगतीं सर्वां पातयन्द्रुमपर्वतान्

2.96.100.33

तद्गन्धं भुजगा घ्रात्वा पलायनपरा ययुः ।
पक्षवातेन गगने बभ्रमुर्भुजगाः परे

2.96.100.34

मुक्ता तु विनता बन्धात्स्वस्थानं गन्तुमुद्यता ।
तां दृष्ट्वा वासुकिः क्रुद्धो दहन्व्योम वमन्विषम्

2.96.100.35

पक्षाघातेन गरुडोऽपातयद्भूतले च तम् ।
विनता तु गता वेगात्स्वस्था स्वस्थानमुत्तमम्

2.96.100.36

प्रतापं वासुकेर्दृष्ट्वा गरुडः सूक्ष्मरूपधृक् ।
विनतां रक्षितुं यातो याते तस्मिंश्चुकोप ह

2.96.100.37

वासुकिर्विषमत्यन्तमसृजज्जगतीं दहन् ।
नागलोकं निनायाशु बद्ध्वा तान्विवरेऽक्षिपत्

2.96.100.38

पिधाय द्वारं शिलया ततो मातरमभ्यगात्।
उदन्तं सर्वमाचख्यौ मात्रे शेषाय चारुधिः

2.96.100.39

शुशोच विनता श्रुत्वा बद्ध्वा नीतान्सुतांस्तु तान् ।
प्रययौ कश्यपं शीघ्रं नमस्कृत्याब्रवीदिदम्

2.96.100.2.97.40

विपरीतमिदं जातं प्रत्यक् सूर्योदयो यथा।
गृहे स्थितां मामनयत्सहसा वासुकी रिपुः

2.96.100.41

पृष्ठतोऽनुययौ श्येनो जटायुर्मोचितुं च माम् ।
सम्पातिः सर्पसङ्घांस्ते मारयामासुरोजसा

2.96.100.42

पराजितेषु तेष्वाशु भुजगैर्बहुभिर्मुने ।
गरुडं चास्मरं तेन जित्वा सर्पगणांस्तु तान्

2.96.100.43

मोचिता चाणुरूपेण तेनाप्यागमनं कृतम ।
जटायुस्तेन सम्पातिः श्येनो वासुकिना बलात्

2.96.100.44

नीताः पातालविवरे पिधाय स्थापिता दृढम् ।
गमिष्यन्ति मम प्राणांस्तान्विना निश्चितं मुने

2.96.100.45

एतावद्दुःखचाप्ताऽहं त्वयि नाथे सति प्रभो ।
क उवाच ।
इति श्रुत्वा प्रिया वाक्यं प्राह तां कश्यपो मुनिः

2.96.100.46

मुनिरुवाच ।
मा चिन्तां कुरु भद्रे त्वं व्येतु ते मानसो ज्वरः ।
ऋतुं तेऽहं प्रदास्यामि पुत्रस्तेऽन्यो भविष्यति

2.96.100.47

अभेद्यमण्डं वज्रेण पार्वत्या यदि बालकः ।
क्रीडन्भेत्स्यति पादाभ्यां ततः पुत्रो भवेत्तव

2.96.100.48

स नीलकण्ठो बलवान्नीलकण्ठ इवापरः ।
श्रवणात्तस्य शब्दस्य भुजगास्ते पराभवम्

2.96.100.49

यास्यन्ति च गुणेशोऽपि तमारुह्य भुवो भरम् ।
हरिष्यति तदा पुत्रा मोक्ष्यन्ते नागबन्धनात

2.96.100.2.97.50

एवमुक्त्वा मुनिस्तस्यै रहो नीत्वा ऋतुं ददौ ।
विनताथ ययौ हर्षात्काननं जन्तुवर्जितम्

2.96.100.51

कालेन सुषुवे चाण्डमभेद्यं वज्रपर्वतैः।
मृद्भाण्डे वल्कलैर्वेष्ट्य निक्षिप्याण्डं स्थिराऽभवत

2.96.100.97

यथा भूमिगतं द्रव्यं भुजगो बलवत्तरः ५२(४३९८)
इति श्रीगणेशपुराणे क्रीडाखण्डे सप्तनवतितमोऽध्यायः

2.96.100.1

अध्याय ९८ प्रारंभ:-
क उवाच।
एवं गतं सप्तमेऽद्वे त्वष्टमे स गुणेश्वरः ।
उषः स्नात्वा स्थितो ब्रह्म जपन्वेदचतुष्टयम्

2.96.100.2

कस्तूरीतिलको नानाभूषणः सुविराजितः ।
दिव्याम्बरधरो दिव्यगन्धमालाविभूषितः

2.96.100.3

ततस्ते तापससुता आगतास्तं गुणेश्वरम् ।
तद्दीप्त्या भासिताः सर्वेऽरुणदीप्त्या यथा घनाः

2.96.100.4

तान्दृष्ट्वाऽध्ययने बुद्धिर्जाता तस्यार्भकैः सह ।
सर्वेषां मस्तके हस्तं न्यधात्तत्समये विभुः

2.96.100.5

त्रिचतुः पंचवर्षांणां वेदस्फूर्तिस्ततोऽभवन् ।
विना तु चेतनां शब्दो नभोवाण्या हि श्रूयते

2.96.100.6

चतुर्णामपि वेदानां सर्वे पारायणं व्यधुः ।
नाभक्षयन्पशुगणा ग्रासं मुखगतं तदा

2.96.100.7

श्रवणे तत्परा जाताः शब्दानां वेदचारिणाम् ।
समाप्ते वेदद्वितये सामगानमथारभन्

2.96.100.8

हरिणाः सिंहशार्दूला भुजगाः पक्षिजातयः ।
गानस्य श्रवणे सक्ता अश्रुपातान्प्रसुस्रुवः

2.96.100.9

अष्टाशीतिसहस्राणि मुनयः श्रवणे रताः ।
आनन्दह्रदसंमग्नाः शेरते स्म यथा निशि

2.96.100.2.98.10

प्रमथाद्या गणाः सर्वे शिवाया हर्षनिर्भराः ।
अस्रवच्चामृतं चन्द्र शिवभालस्थितस्तदा

2.96.100.11

तत्संसर्गाद्रुण्डमालारुण्डानि पुरूषा बभुः ।
लज्जिताः किन्नराः सर्वे गन्धर्वाश्चास्य गानतः

2.96.100.12

स्मरतप्ताः स्त्रियः शान्ता आरार्तिक्यं व्यधुस्तदा ।
तत्राजगाम सहसा दैत्यश्चाभिनवाकृतिः

2.96.100.13

यस्य शब्देन दीर्णास्ता मन्दराद्रिगुहास्तदा।
हलदन्तो वापिनासस्तडागनयनोऽरिहा

2.96.100.14

स तु श्वापदरूपेण बभ्राम तत्र तत्र ह ।
पंचनेत्रश्चतुःशृंगो वसुपादश्चतुःश्रुतिः

2.96.100.15

त्रिमुखश्च द्विपुच्छोऽसौ जहासोच्चैर्निरीक्ष्य तम् ।
पश्यन्तु कौतुकं बालाः प्रोवाचेति शिशून्विभुः

2.96.100.16

अत्यद्भुतं दृष्टमिदमित्यूचुस्ते गुणेश्वरम् ।
ततो दैत्यो ननर्तोच्चैरुड्डीय न्यपतद्भुवि

2.96.100.17

क्षणं लीनः क्षणं तिष्ठन्दृश्यादृश्यस्वरूपधृक् ।
ध्रियतां ध्रियतामेष इत्युवाच शिशून्विभुः

2.96.100.18

इत्युक्त्वा दैत्यमगमद्वेगेन च गुणेश्वरः ।
पलायति महादैत्यो याति पृष्ठे स बालकैः

2.96.100.19

महारण्यं गताः सर्वे यत्र वायुर्न सर्पति ।
गर्जन्ति सिंहशार्दूला गजसूकरवानराः

2.96.100.2.98.20

तं धर्तुं तत्र यातोऽसावुड्डीय दैत्यपुंगवः ।
क्वापि यातो दूरदेशं ततः खिन्नो गजाननः

2.96.100.21

क्रोधसंरक्तनयनो मुमोच पाशमुल्बणम् ।
चकम्पे धरणी व्योम भ्रमन्मेघमभूत्तदा

2.96.100.22

न्यपतन्भानि खात्पृथ्वीं ककुभो व्यनदन्स्वनात् ।
स पाशो दैत्यमाक्रम्य क्षणेनायाद्गुणेश्वरम्

2.96.100.23

श्वासरोधात्पपातोर्व्याँ लुण्ठन्पादौ भुजौ मुखम् ।
नेत्रद्वारा गताः प्राणाः पश्यत्सु बालकेष्वपि

2.96.100.24

पतितो रूपमास्थाय चतुर्विंशतियोजनम् ।
सपाशकण्ठं तं केचिद्विचकर्षुरितस्ततः

2.96.100.25

गुदे काष्ठं मुखे धूलिं प्राक्षिपन्नपरेऽर्भकाः ।
केचिन्मूत्रं पुरीषं च चक्रुस्तन्मस्तकेऽर्भकाः

2.96.100.26

गुणेशनिकटे याताः सर्वे बालाः क्षुधातुराः ।
रसालानि बभक्षुस्ते केचित्तन्मस्तके गताः

2.96.100.27

आजघ्नुः फलघातेन भूमिस्था उपरिस्थितान् ।
पतितान्यपरे खादन्ददृशुर्विनतां ततः

2.96.100.28

अण्डमाच्छाद्य तिष्ठन्ती साऽधावद्बालकान्प्रति ।
पलायमानांस्तान्दृष्ट्वा विनता पृष्ठतो ययौ

2.96.100.29

निघ्नती पक्षवातेन श्वापदानि द्रुमानपि ।
गुणेशस्तत्समालोक्य लीनो वृक्षस्य कोटरे

2.96.100.2.98.30

ददर्शाण्डं श्वेततरं मण्डलं शशिनो यथा ।
दधार हस्ते सहसा गुणेशो बलवत्तरम्

2.96.100.31

अस्फुटत्तत्र ददृशे पतत्त्री नीलकण्ठवान्।
दीर्घपक्षो विशालाक्षो वमञ्ज्वालाकणान्मुखात्

2.96.100.32

व्याधूनयदुभौ पक्षौ कम्पयंजगतीतलम् ।
चेलुवेलामतिक्रम्य समुद्रास्तस्य शब्दतः

2.96.100.33

चचाल मण्डलं भानोरर्भकास्ते पलायिताः ।
पृष्ठतोऽनुययौ सोऽथ पक्षघातेन ताडयन्

2.96.100.34

तदृष्ट्वा कदनं तेषां योद्धुकामो गुणेश्वरः ।
जग्राह पक्षे तं क्रूरं ततो युद्धमवर्तत

2.96.100.35

पक्षघातैश्चञ्चुपुटैर्जघान पक्षिपुंगवः ।
आरक्तनयनः सोऽपि तं जघ्ने मुष्टिघाततः

2.96.100.36

अतिदार्यंऽप तस्य दृष्टवा चतुर्भिरप्यथायुधैः ।
गुणेशस्तं जघानाशु तानि पेतुर्धरातले

2.96.100.37

उड्डीय स पपालाशु बालानादाय सत्वरः ।
गुणेशस्तान्समुन्मुच्य समारूढोऽण्डजे ततः

2.96.100.38

वशे तमण्डजं कृत्वा चारुरोह गुणेश्वरः ।
ततस्तमाययुर्बाला विनतापि समाययौ

2.96.100.39

तुष्टाव परमात्मानं गुणेशं तं धिया स्वया ।
त्वं सृष्टिकर्ता रजसा ब्रह्मा सत्त्वेन पालकः

2.96.100.2.98.40

विष्णुस्त्वमसि तमसा संहरञ्शंकरोऽपि च ।
न देवा नर्षयस्तत्त्वं विदुस्ते सगुणस्य ह

2.96.100.41

निर्गुणस्य तु को वेद चराचरगुरोरपि ।
एवं स्तुत्वाऽवदीत्सा तं प्रणता भक्तितत्परा

2.96.100.42

कश्यपस्य मुनेर्भार्या विनतां विद्धि मामिह ।
तस्य पुत्रः शिखण्डी च सेवकस्ते भविष्यति

2.96.100.43

मुनिना पूर्वमुक्तं मे योऽण्डमेतद्भिनत्ति च ।
सोऽस्य स्वामी न संदेहो मोचयिष्याति ते सुतान्

2.96.100.44

प्रतीक्षन्त्या मया दृष्टं पादपद्मं चिरं तव ।
जटायुः श्येनसंपाती नीता कद्रूसुतैस्त्रयः

2.96.100.45

तान्मोचय जगन्नाथ शीघ्रं दर्शय मे सुतान् ।
गणेश उवाच ।
मा चिन्तां कुरु मातस्त्वं दर्शयिष्ये सुतांस्तव

2.96.100.47

क उवाच ।
एवमुक्त्वा तु विनतां बहुहर्षसमन्वितः ।
शिखिनं च ततः प्राह वरं मत्तो वृणीष्व ह॥४६ .
मयूर उवाच ।
यदि मे त्वं प्रसन्नोऽसि यदि देयो वरो मम ।
तदा मन्नामपूर्वं ते नामाख्यातं भवेद्भुवि

2.96.100.48

एतन्मे देहि सर्वेश तव भक्ति दृढां तथा ।
देव उवाच ।
साधु साधु त्वया प्रोक्तं निर्लोभेनान्तरात्मना

2.96.100.49

त्वन्नामपूर्व मन्नाम मयूरेश्वर इत्यथ ।
विख्यातं त्रिषु लोकेषु भक्तिर्मयि दृढा भवेत्

2.96.100.2.98.50

क उवाच ।
एवमाकर्ण्य सा सर्वं विनता स्वाश्रमं ययौ ।
शिखण्डिनं समारूढो मयूरेशो निजं गृहम्

2.96.100.51

मयूरेश मयूरेश मयूरेशेति चासकृत् ।
गृणद्भिर्मुनिबालैस्तैरन्वितः शोभयन्दिशः

2.96.100.52

मातरं प्रणिपत्याह वृत्तान्तं सर्वमंजसा ।
वर्णयन्तो मयूरेशं मुनिपुत्रा गृहान्ययुः

2.96.100.98

इत्थं मयूरेशनाम प्राप चासौ गुणेश्वरः ५३ (४४५१)
इति श्रीगणेशपुराणे क्रीडाखण्डे शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः

2.96.100.1

अध्याय ९९ प्रारंभ :-
क उवाच ।
अद्भुतं कृतवान्वर्षे नवमेऽसौ गुणेश्वरः ।
शिखण्डिनं समारुह्य चतुरायुधभूषितः

2.96.100.2

नानालंकारसंयुक्तो नृगनाभिजशोभितः ।
दिव्याम्बरधरो बालः क्रीडितुं समुपाययौ

2.96.100.3

पूर्णचन्द्रनिभः श्रीमांजयशब्दैरभिष्टुतः ।
केचिन्नमन्ति तं बालाः केचिच्छत्रं ध्वजं परे

2.96.100.4

दध्रुः केचिद्वीजयन्तस्तद्दर्शनमहोत्सवाः ।
क्रीडन्तः सरसीं याताः पंचयोजनविस्तृताम्

2.96.100.5

अगाधोदां नक्रझषकूर्ममण्डूकसंयुताम् ।
लतातरुपरीवारां नानापक्षिगणैर्युताम्

2.96.100.6

उड्डीय पतिताः केचित्तस्यां केचिच्छनैर्ययुः ।
चूतं तत्तीरगं दृष्ट्वा विशालं फलसंयुतम्

2.96.100.7

आरुरोह मयूरेशो बालाः फलजिघत्सया।
रसालैस्ते निजघ्नुस्तानभिन्नांगांन्पलायिताः

2.96.100.8

बालाः स्कन्धान्दारयन्तो निपेतुः केऽपि तज्जले ।
एवं क्रीडत्सु बालेषु दैत्योऽगादश्वरूपवान्

2.96.100.9

यस्य पादप्रहारेण चूर्णतां यान्ति पर्वताः ।
यस्य ह्रेषितशब्देन कम्पते भुवनत्रयम्

2.96.100.2.99.10

पुच्छचांचल्यतो जीवान्हन्ति स्कन्धं जघर्ष ह ।
यस्मिंश्चूतेऽस्य शब्देन कम्पिते पतितेऽर्भके

2.96.100.11

केचित्पलायिता बालाः केचिद्भग्नाश्च मस्तके ।
केचिन्निपतिताश्चाशु गुणेशो पतितो जले

2.96.100.12

निमग्ने द्विमुहूर्तेस्मिन्प्रारुदन्मुनिबालकाः ।
किं वक्तव्यमुमायै च दर्शनीयं मुखं कथम्

2.96.100.13

शंकरोऽपि रुषाविष्टो भस्मसान्न: करिष्यति ।
अगाधेस्मिंज्जले मग्नं प्रवेष्टुं च न शक्नुमः

2.96.100.14

माता पिता पालयिता भ्राता त्राता सखा च नः ।
क उवाच ।
एवं शोचत्सु बालेषु मयूरेशो दधार तम्

2.96.100.15

कर्णयोर्जलमध्ये तु चकर्ष बलवान्विभुः ।
आरुरोह बलाद्दैत्यं भारेणामज्जयन्मुहुः

2.96.100.16

स दैत्यो निर्वमन्नेत्रान्मुखाद्बहु जलं मुहुः ।
जलपूर्णश्रुतिश्वासोऽत्यजन्प्राणान्महारवः

2.96.100.17

एकहस्तेन धृत्वा तं दोलयित्वा जलाद्बहिः ।
मयूरेशस्ततो बाला जहृषुर्ननृतुर्भृशम्

2.96.100.18

भुवि ते शतधा जातं ददृशुर्दैत्यपुंगवम् ।
प्रशशंसुर्मयूरेशं महाबलपराक्रमम्

2.96.100.19

त ऊचुस्तं तदा देवं मृतं मत्वा रुदामहे ।
तावदेव हि दृष्टोऽसि हतदैत्यो बहिर्गतः

2.96.100.2.99.20

पुनस्ते जलमाविश्य प्रासिंचन्नंजलीन्मिथः ।
एकमत्या च सर्वे ते प्रासिंचन्गणनायकम्

2.96.100.21

वर्षाकाले यथा मेघा धरणीं पर्वतानपि ।
षड्भुजैः परिषिंचन्सन्नपर्याप्तोऽभवद्यदा

2.96.100.22

तदासंख्यभुजैर्वारी चिक्षेप बालकेषु सः ।
तदाश्चर्यं तु ते दृष्ट्वा परस्परमथाब्रुवन्

2.96.100.23

षड्भुजोऽयं कथमभूदनन्तभुजमण्डितः ।
मन्दीभूता मुनिसुताः क्व द्विहस्ता वयं विभो

2.96.100.24

असंख्यभुजवीर्योजाः क्व च त्वं भुवनेश्वर ।
पुनः सर्वे सिषिचुस्ते मयूरेशं रुषान्विताः

2.96.100.25

सोऽनन्तरूपस्तान्सर्वान्सिषेचे गणनायकः ।
एकैकस्याग्रतो भूत्वा षड्भुजो निजतेजसा

2.96.100.26

तावच्छिखण्डिनिष्ठोऽसौ चतुरायुधभूषितः ।
प्रणेमुस्तेऽञ्जलिपुटं बद्ध्वा देवम् गुणेश्वरम्

2.96.100.27

पश्यन्तस्तन्मुखे विश्वं सर्वस्वर्गान्वितं तु ते ।
गन्धर्वयक्षरक्षांसि सरिदब्धिद्रुमानपि

2.96.100.28

सर्वं चराचरं विश्वं सदेवासुरमानुषम्।
प्रार्थयामासुरथ ते दृष्ट्वेत्थं ते भयातुराः

2.96.100.29

बाला ऊचुः ।
न विदामः स्वमात्मानं परं वा नापि किंचन ।
एकरूपो भव विभो कृपां कृत्वाऽखिलेश्वर

2.96.100.2.99.30

क उवाच ।
इति तत्प्रार्थनां श्रुत्वा जातोऽसौ पूर्ववद्विभुः ।
एतस्मिन्नन्तरे तत्र चिक्रीडुर्नागकन्यकाः

2.96.100.31

या निरीक्ष्याभवच्चाष्टनायिकानां त्रपा भृशम् ।
नेत्रे निरीक्ष्य ह्रीमन्त्यः प्रापलन्हरिणस्त्रियः

2.96.100.32

अतिसुन्दरगात्रास्ताः सर्वालंकारभूषिताः ।
ता निरीक्ष्य मयूरेशं विह्वला मदनाग्निना

2.96.100.33

ता ऊचुश्च मिथः सर्वा अयं भर्ता भवेद्यति ।
सफलं नस्तदा जन्म जीवितं च वयोऽपि च

2.96.100.34

धैर्यात्तमूचुस्ताः सर्वाः कुत आगमनं तव ।
दृष्ट्वा ते वदनं चेतो विह्वलं नोऽभिजायते

2.96.100.35

विश्रान्तं कुरु चेतो नः स्वांगसंगान्नृषूत्तम ।
देव उवाच ।
अहं शिवसुतो नाम्ना मयूरेश इति स्फुटम्

2.96.100.36

विख्यातो मुनिपुत्रैस्तु मज्जिता बलवत्तरैः ।
दृष्टवान्पादकमलं भवतीनां प्रसंगतः

2.96.100.37

ता ऊचुः ।
अस्मद्गृहे क्षणं स्थित्वा विश्रामं कर्तुमर्हसि ।
देव उवाच ।
पार्वती मद्वियोगेन परितप्येद्भृशं यतः

2.96.100.38

अतो नायामि वः स्थानं गच्छन्तु नागकन्यकाः ।
क उवाच ।
एवं वदति तस्मिंस्तु धृत्वा निन्युर्गृहं तु ताः

2.96.100.39

तमदृष्ट्वा पुनः शोकं व्यधुर्मुनिसुतास्तदा ।
बाला ऊचुः ।
कथं कठिनतां यातो दयालुः स गुणेश्वरः

2.96.100.2.99.40

अमृतस्राविकिरणो न चन्द्र उष्णतां व्रजेत् ।
न पिता त्यजते बालानपराधायुते सति

2.96.100.41

क्व गतोऽसि विना त्वां हि गमिष्यन्ति हि नोऽसवः ।
क उवाच ।
केचिन्निपतिता भूमौ केचिद्भालं निजघ्निरे

2.96.100.42

केचिद्ययुः स्वाश्रमं ते पथि तस्य पदाम्बुजे॥
दृष्ट्वा नेमू रुदन्तस्ते ददृशुस्ते भगासुरम्

2.96.100.43

मूर्धजाघाततो यस्य भानि भूमौ निपेतिरे ।
शतयोजनपादाब्जो भूमावास्यं प्रसार्य सः

2.96.100.44

तेषां मार्गे प्रसुष्वाप ततस्ते शिशवो ययुः ।
ध्यायन्तस्तं मयूरेशं शोचन्तः पथिविह्वलाः

2.96.100.45

उदरे तस्य ते याता आपगा जलधीनिव ।
भ्रान्ताः परस्परं चक्रुर्वार्ता नानाविधास्ततः

2.96.100.46

मयूरेशो गतः क्वापि वयं कुत्र व्रजामहे ।
न जानीमो दिशं सर्वे नो दृश्यन्ते गृहाणि च

2.96.100.47

इन्द्रियाणामधिपतिर्मनो नीतं तु तेन नः ।
विना नो मनसा ज्ञानं कथमुत्पत्स्यतेऽर्भकाः

2.96.100.48

क्व मातरो भ्रातरो वा पितरः क्व गुणेश्वरः ।
एवं वदत्सु बालेषु मयूरेशोऽखिलार्थकृत्

2.96.100.49

आविरासीत्तत्पुरतश्चतुरायुधभूषितः ।
गुणेश उवाच ।
मा शोचन्तु भवद्दुःखं ज्ञात्वाऽहं शीघ्रमागतः

2.96.100.2.99.50

भगासुरोदरगता नात्मानं विदुरर्भकाः ।
क उवाच ।
निद्रया मोहयामास मुनिपुत्रान्गुणेश्वरः

2.96.100.51

दैत्यदेहान्तरगतो ववृधे वामनौ यथा ।
विपाट्य देहं तस्याशु शकले द्वे व्यधाद्विभुः

2.96.100.52

ततोऽस्तमित आदित्ये नागतेष्वर्भकेषु च ।
मातरः पितरश्चैव चिन्तामापुः शुचान्विताः

2.96.100.53

ऊचुः परस्परं ते तु शिवापुत्रो महाबलः ।
बालान्नीत्वा गतः कुत्र मृतो वा शिशुभिः सह

2.96.100.54

जीवंश्चेदागतः स स्यात्सायंकाले बुभुक्षितः ।
केचित्प्राणान्विना तैस्तु तत्यजुर्मातरोऽपि च

2.96.100.55

केचिदूचुरुमायैतत्वृत्तं सर्वं निवेद्यताम् ।
केचित्तेषु वनं याता बभ्रमुर्वनपर्वतान्

2.96.100.56

नापुस्तं च स्वकान्बालान्खिन्नाः प्रापुर्गृहान्पुनः ।
नानाकोलाहलं चक्रुर्जनन्यः पिदृसोदराः

2.96.100.57

तेषामाक्रन्दितं श्रुत्वा कृपालुः स मयूरराट् ।
तत्तद्रूपं स्वमात्मानं तत्तद्भूषासमन्वितम्

2.96.100.58

तत्तद्वासःपरीधानं तत्तच्छीलगुणान्वितम् ।
तत्तदंगं चकाराशु विवेशासौ गृहे ततः

2.96.100.59

कृत्वा तत्तद्वयोवेषं तत्तन्मानयुतं शुभम् ।
जनन्यस्ताः समुत्थाय बालानादाय सत्वराः

2.96.100.2.99.60

स्तनपानं ददुः प्रीत्या परमानन्दनिर्भराः।
ततो ददृशिरे बालाः पितृभिर्मातृभिस्तदा

2.96.100.61

ता ऊचुः क्व स्थिता रोषादुषःकाले गताः कुतः।
न स्नानं न च भुक्तं वा न चान्यद्वापि भक्षितम्

2.96.100.62

मयूरेश्वरसंगेन नेदानीं गन्तुमर्हथ ।
क उवाच ।
एवं शिक्षाप्य तान्बालानालिंग्य बुभुजुः सुखम्

2.96.100.63

शिवापि पुरतोऽपश्यन्मयूरेशं समागतम् ।
आलिंग्य परिपप्रच्छ कि भुक्तं वनगोचरे

2.96.100.99

त्वद्वियोगजदुःखेन मया किंचिन्न भक्षितम् ।
स्तनौ पिब पयोवृद्धौ भोजनं च समाचर ।
ततः सर्वं चकारासौ मातृवाक्यं गुणेश्वरः ६४ (४५१५)
इति श्रीगणेशपुराणे क्रीडाखण्डे नवनवतिमोऽध्यायः

2.96.100.1

अध्याय १०० प्रारंभ :-
क उवाच ।
अनेकरूपवान्देवो मयूरेशोऽखिलेश्वरः ।
अतिसुन्दरदेहः सन्नागकन्याभिराहृतः

2.96.100.2

गृहं स्वकीयं क्रीडार्थं पूजितो बहुविस्तरात् ।
सुगन्धतैलोद्वर्तनैः स्नाप्योष्णैरपि तं जलैः

2.96.100.3

दिव्यवस्त्रैरलंकारैश्चन्दनैरपि पूज्य च ।
धूपदीपैश्च नैवेद्यैः फलतांबूलकांचनैः

2.96.100.4

ऊचुः करपुटं बद्ध्वा वयं धन्यतमा विभो ।
यद् दृष्टं ते पदं देव ब्रह्माद्यैरपि कांक्षितम्

2.96.100.5

नागलोको धन्यतमो जीवितं नः सुजीवितम् ।
आनंदह्रदमग्नं नो मानसं तापमप्यजत्

2.96.100.7

यद्यत्ते ईप्सितं देव तत्तदत्रापि गृह्यताम् ।
अत्र स्थित्वा कति दिनं पश्चात्त्वं गन्तुमर्हसि. ६.
मयूरेश उवाच।
वांच्छितं वो विधास्येऽहं गिरिजा मां प्रतीक्षते ।
मद्वियोगेन तप्ता सा न भक्षयति किंचन

2.96.100.8

यूयं कस्यात्मजास्तस्य दर्शनं चेद्भवेन्मम ।
क उवाच ।
तत ऊचुर्नागकन्या वासुकेः पुत्रिका वयम्

2.96.100.9

ब्रह्माद्या मुनयो देवा यान्ति यस्य गृहं सदा ।
यस्य विषभवा ज्वाला दहेत्त्रिभुवनं विभो

2.96.100.2.100.10

क उवाच ।
इत्युक्त्वा तं पुरस्कृत्य पितरं प्रापुरंगनाः ।
रत्नसिंहासने दीप्ते तिष्ठन्तं पन्नगैर्युतम्

2.96.100.11

सूर्यकोटिनिभं रत्नमालया शोभितं तदा ।
मूर्धस्थरत्नकिरणैर्भासयन्तं दिशोऽखिलाः ।
तं दृष्ट्वा वासुकिं देवो गर्वितं बलवत्तरम्

2.96.100.12

उड्डीय तत्फणासंस्थं मणिं जग्राह सत्वरम् ।
येन पातालविवरे नान्धकारोऽभवत्किल

2.96.100.13

आन्दोलयामास शिरः कम्पयन्सप्तपर्वतान् ।
उदधीन्सप्तस्वर्गांश्च पातालानि रसातलम

2.96.100.14

हस्तेनैकेन तं गृह्य मयूरेशः स्वलीलया।
वासुकिं निजकण्ठं तं बबन्ध सर्पभूषणः

2.96.100.15

विख्यातः स्वर्गलोकेऽभून्ज्जगर्जानन्दतो विभुः ।
तद्गर्जितं समाकर्ण्य चुक्षुभे भुवनत्रयम्

2.96.100.16

ततः सर्पगणाः शेषं नीतुं वासुकिमब्रुवन् ।
स च क्रोधसमाविष्टो विस्तार्य निखिलान्फणान्

2.96.100.17

विषाग्निमुत्सृजन्दग्धुं त्रैलोक्यमुपचक्रमे ।
उवाच कः क्षमो जेतुं मम बन्धुं तु वासुकिम्

2.96.100.18

आवेशेन ययौ रोषाद्दावानल इव ज्वलन् ।
शीघ्रं यातो मयूरेशं तिष्ठ तिष्ठेति चाब्रवीत्

2.96.100.19

ततो नागकुलान्याशु तं शेषमन्वयुस्तदा ।
ततः पन्नगवृन्दं तं दृष्ट्वा देवो व्यतिष्ठत

2.96.100.2.100.20

शिखण्डिमस्तके हस्तं न्यधाद्युद्धाय पन्नगैः।
स ययौ तं नमस्कृत्य ग्रसन्निव महाद्भुतः

2.96.100.21

दुधाव पक्षौ तद्वाताद्भ्रामयन्भुजगोत्तमान् ।
कांश्चित्स भक्षयामास चुचूर्ण चापरानपि

2.96.100.22

मारयामास कांश्चित्स भुजगान्बलवत्तरान् ।
निरीक्ष्य तं मृताः केचित्पन्नगा भयविह्वलाः

2.96.100.23

दृष्ट्वा पराक्रमं तस्य शेषः श्वासमपास्रजत् ।
शिखण्डी पतितस्तेन मूर्छितो धरणीतले

2.96.100.24

मयूरेशं ततः शेषो ययौ क्रोधद्दहन्निव ।
त्रैलोक्य विषवह्निस्थं समालोक्य गुणेश्वरः

2.96.100.25

विराटरूपं समास्थाय रुरोह तत्फणोपरि ।
उड्डीय बालभावेन गर्जन्मेघ इवापरः

2.96.100.26

ननर्त करतालेन पादाघातेन मर्दयन् ।
अनन्तकोटिब्रह्माण्डभारेण परिपीडितः

2.96.100.27

एकब्रह्माण्डवाही स कथं तद्भारमावहेत् ।
बबन्ध शेषं हि कटौ रज्जुं बालो यथा रमन्

2.96.100.28

ततस्ते भुजगाः सर्वे योद्धु कामास्तमन्वयुः ।
हुंकारेणैव तान्सर्वान्पातयामास विघ्नराट्

2.96.100.29

अबध्नान्मस्तके कांश्चित्कांश्चिच्च कर्णयोर्विभुः ।
परिश्रान्तस्तदा शेषस्तं नुनाव गुणेश्वरम्

2.96.100.2.100.30

न स्वरूपं विदुर्देवा ब्रह्माद्या मुनयोऽपि च ।
त्वमेव सृजसे विश्वं पासि हंसि त्वमेव हि

2.96.100.31

नानावतारकर्ता त्वं नानादैत्यविमर्दनः ।
त्वमेव साक्षी सर्वस्य सर्वान्तर्यामितां दधत्

2.96.100.32

सर्वत्र कारणं त्वं हि कारणानां च कारणम् ।
अज्ञानादभिमानेन योद्धुकामान्क्षमस्व नः

2.96.100.33

क उवाच ।
सम्पातिं च जटायुं च श्येनमानीय सर्पराट् ।
निवेद्य च नमस्कृत्य शेषस्तूष्णीं बभूव ह

2.96.100.34

तेऽपि तं प्रणिपत्याहुर्दीननाथ प्रसादतः ।
बन्धा मुक्ताः सर्पकृतान्नमस्ते परमेश्वर

2.96.100.35

क उवाच ।
एवमुक्त्वा मयूरेश बन्धुं तं शिखिनं त्रयः ।
आलिलिंगुर्मुदा युक्तास्तदा गद्गदभाषिणः

2.96.100.36

पप्रच्छुः कुशलं मात्रे ते च क्षेममथाब्रुवन् ।
ततः शिखण्डिनं सोऽथ रुरोह गणनायकः

2.96.100.37

पातालाद्धरणीं प्रायात्तैस्त्रिभिः संयुतो वशी।
भगासुरं ददर्शार्द्धमार्गे शिशुहरं च तम्

2.96.100.38

उद्यम्य परशुं दीप्तं शशिसूर्यनिभं विभु ।
तत्याज कण्ठे तं तस्य पशुमारममारयत्

2.96.100.39

तच्छिरः परिबभ्राम शृंगवज्राहतं यथा ।
ततस्तदुत्थिता बाला योगमायाविमोहिताः

2.96.100.2.100.40

मयूरेशः क्व चास्तीति प्राक्रोशन्सर्व एव ते।
आसने क्रीडने स्वापे जागृतौ भोजनेऽपि च

2.96.100.41

तमेव ध्यायमानास्ते तन्मुखाद्बहिराययुः ।
गर्भवासादिवोत्तीर्णा ददृशुस्तं गुणेश्वरम्

2.96.100.42

दृष्ट्वा ते रुरुदुः स्नेहादालिलिंगुर्मुदाखिला ।
ते ऊचु ।
त्यक्त्वाऽस्मान्दैत्यजठरे मृतान्क्वास्ति गतो भवान्

2.96.100.43

त्वत्स्मृतेस्तस्य जठरे जीविता निर्गतास्ततः ।
मयूरेश उवाच ।
सर्वव्यापी सर्वगतः सर्ववेत्ताऽखिलेश्वरः

2.96.100.44

न त्यक्तवान्कदाचिद्वो मा चिन्तां कर्तुमर्हथ ।
क उवाच ।
ततो ययौ मयूरेशो बालकैः परिवेष्टितः

2.96.100.45

केचिद्धावन्ति पुरतो नानाशब्दकरा भृशम् ।
केचिच्छत्रधराः केचिद्दण्डचामरधारिणः

2.96.100.46

धूलिध्वजं समालोक्य ययुर्मुनिगणा बहि ।
शिख्यारूढं मयूरेशं बालकै परिवेष्टितम्

2.96.100.47

ऊचुः परस्परं सर्वे मुनयो विस्मयान्विताः।
गृहेऽस्मिन्शिशवश्चामी कुतोऽन्येऽस्य समीपतः

2.96.100.48

तांश्च तान्मीलिताः सर्वेऽपश्यंते देवरूपिणः ।
विचारेण च तान्सर्वे परब्रह्मस्वरूपिणः

2.96.100.49

आनन्दह्रदमग्नास्ते न विदुः स्वपरं पुनः ।
नापश्यंस्ते पुनस्तांस्तान्भ्रान्ता इव व्यलोकयन्

2.96.100.2.100.50

मायया मोहिताः सर्वे स्वान्स्वान्बालान्व्यलोकयन् ।
कश्चित्पितरमासाद्य पठति स्म यथा पुरा

2.96.100.51

कश्चिन्मातरमासाद्य पिबति स्म स्तनं मुदा।
आलिलिंगाथ जननीं पितरं वापि कश्चन

2.96.100.52

भ्रातरं ताडयित्वाऽन्यो रुरोद ताडनादिव ।
उमापि तनयं दृष्ट्वालिंग्य प्रादात्स्तनं मुदा

2.96.100.53

कथं चिरतरं यात इति क्रोधादभाषत ।
आदाय हस्ते गिरिजा मयूरेशं गृहं ययौ

2.96.100.100

सर्वे ते मुनयो जग्मुः शिशुभिः स्वं स्वमाश्रमम् ५४ (४५६९)
इति श्रीगणेशपुराणे क्रीडाखण्डे भगासुरवधो नाम शततमोऽध्यायः

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc