भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 2.86.90

2.86.90.1

अध्याय ८६ प्रारंभ :-
क उवाच ।
ततोऽस्यांकात्सुतं गौरी नमस्कृत्य समाददे ।
आज्ञां गृहीत्वा प्रायात्स्वं मन्दिरं भृशहर्षिता

2.86.90.2

सोऽप्यनुज्ञां ततो गृह्य शिवं नत्वाश्रमं ययौ ।
ततो गौरी चकारास्य सुमुहुर्ते शुभे दिने

2.86.90.3

गौतमादीन्समाहूय ब्राह्मणानुपवेश्य च।
द्विजेभ्यो नमया चक्रे सा प्रणम्य स्वयं च तान्

2.86.90.4

सर्वे देवगणास्तत्र नानोपायनप्राणयः ।
आययुस्तं गणाश्चापि गन्धर्वाप्सरसस्तथा

2.86.90.5

उवाच गौरी तान्विप्रानुपवेशनमस्य ह ।
विचार्यं सर्वमुनिभिः कुर्वन्तु द्विजपुंगवाः

2.86.90.6

त ऊचुर्मुनयः सर्वे गुरुवारस्त्रयोदशी।
पौष्णं नक्षत्रमद्यास्ति तस्मात्कार्यो महोत्सवः

2.86.90.7

ततो गृत्समदः शीघ्रं नानारत्नचयं भुवि ।
निधाय च चकाराशु चतुष्कं रत्ननिर्मितम्

2.86.90.8

गणेशपूजनं कृत्वा पुण्याहवाचनं तथा।
दिव्यवस्त्रावृते तस्मिन्नुपवेश्य शिवा सुतम्

2.86.90.9

नीराजयामास च तं पतिवत्स्त्रीभिरादरात् ।
रत्नप्रभाजालगतं नानालंकारदीपितम्

2.86.90.2.86.10

उपायनानि ते सर्वे शिवाभ्यां तत्सुताय च ।
वाद्यत्सु दिव्यवाद्येषु प्रददुर्भक्तितत्पराः

2.86.90.11

साऽपूजयत्ततो विप्रान्रत्नवस्त्रादिकांचनैः ।
आशीर्वादाक्षतांस्तस्मिंश्चिक्षेप सकलार्पितान्

2.86.90.12

भवानि पूजयामास मुनिपत्नीः सकन्यकाः ।
ता ऊचुर्गिरिजे धन्या त्वदन्या नास्ति कुत्रचित

2.86.90.13

एतादृशः सुतो वापि सर्वलक्षणमण्डितः ।
क उवाच ।
एवं वदत्सु सर्वेषु स्त्रीजनेषु महाखलः

2.86.90.14

व्योमासुरो व्योमकर्णो नानामायाविशारदः ।
न बले सदृशस्तस्य कोऽपि त्रिभुवनेऽभवत्

2.86.90.15

स तु द्वारिस्थितं चूतं नानाशाखासमन्वितम् ।
अभेद्यं वारणशतैः कल्पान्तमारुतैरपि

2.86.90.16

प्रविवेश तदा व्योमो मायया स तदन्तरम् ।
यथा दृष्टिवशाद्भूतं विशते दुष्टचेष्टिते

2.86.90.17

दोलयामास तं वृक्षं कल्पान्ते मारुतो यथा ।
द्रुमपातभयात्सर्वे मुनयश्च समागताः

2.86.90.18

भीताः प्रोचुर्विना वायुं कम्पते किं महाद्रुमः ।
तावत्कटकटाशब्दं शुश्रुवुर्वृक्षसंभवम्

2.86.90.19

स्त्रियो गणाश्च सर्वे ते चक्रिरे तु पलायनम् ।
विस्मृत्य बालकं भ्रान्ता गिरिजापि पलायिता

2.86.90.2.86.20

एतस्मिन्नन्तरे वृक्षो निपपातार्भके तदा ।
हस्ताभ्यां निहतस्तेन शतचूर्णोऽपतद्भुवि

2.86.90.21

यथा घननिपातेन क्रमुकं दृषदि स्थितम् ।
भ्रमन्ति स्म तदा व्योम्नि तच्छाखाः पल्लवान्विताः

2.86.90.22

ऋषीणामाश्रमाः केचिद्भग्नाः शाखानिपाततः ।
पलायिते जने पेतुः काश्चिच्छाखाः सपल्लवाः

2.86.90.23

ततो व्योमासुरो दुष्टो गतासुर्निपपात ह ।
व्यादायास्यं वमन्रक्तं शतधा तेन सोऽभवत्

2.86.90.24

आययुस्ते ततः सर्वे स्त्रियस्य बालकं तदा ।
ददृशुस्ते यथापूर्वमुपविष्टं निराकुलम

2.86.90.25

सुमेरूनिश्चलं स्वस्थं ततः सर्वे विसिस्मिरे ।
पंचमासेन बालेन महाबलपराक्रमः

2.86.90.26

लीलया हस्ततो दैत्यः स वृक्षः शतधा कृतः ।
हाहाकाररवा गौरो धावति स्म निजं सुतम

2.86.90.27

मुनयस्तामथोचुस्ते हतदैत्यः सुतस्तवः ।
सा ददर्श ततो बालं हिमवत्पर्वतोपपम

2.86.90.28

उत्थाय कटिदेशे तं धृत्वा स्तन्यं ददौ मुदा ।
मरीचिवाक्यं सस्मार प्रशशंस महेश्वरम्

2.86.90.29

यमीश्वरोऽवति सदा तं हन्तुं यः समीहते ।
स एव विलयं याति पतंग इव दीपगः

2.86.90.2.86.30

मुनयो योषितः सर्वा ययुः स्वं स्वं निवेशनम् ।
ततो गणा ययुः केचिदक्षतं वीक्ष्य तत्सुतम्

2.86.90.31

ऊचुर्धन्यतरा माता रक्षितस्ते सुतोऽसुरात् ।
दुष्टा एव लयं यान्ति साधुर्न क्वापि सीदति

2.86.90.32

ततः सा शर्करां तेभ्यो दत्त्वाज्ञां प्रददौ शिवा ।
सर्वाभ्यश्च ततो याता दृष्टा तेन निजं गृहम्

2.86.90.86

य इदं शणुयात्पुण्यमाख्यानं भक्तिमान्नरः ।
न स बाधां लभेत्क्वापि सर्वत्रनिर्भयो भवेत् ३३ (३८३०)
इति श्रीगणेशपुराणे क्रीडाखण्डे भूम्युपवेशवर्णनं नाम षडशीतितमोऽध्यायः

2.86.90.1

अध्याय ८७ प्रारंभ :-
क उवाच ।
व्योमासुरस्य भगिनी तस्य दुःखेन दुःखिता।
निशामुखे दर्शदिने समुत्पन्ना क्षुधातुरा

2.86.90.2

भक्षयामास महिषाञ्शतसंख्यान्महाबलान् ।
करालकेशी लम्बोष्ठी तालनासा दरीमुखा

2.86.90.3

हलदन्ता कूपनेत्रा श्रोतावरणसंयुता ।
दीर्घस्तनी महाघोरा भूमिस्पृक्वचका खला

2.86.90.4

दीर्घबाहुर्निम्ननाभिर्गोधेव कर्कशा त्वचि ।
नाम चक्रुस्तदा लोकाः शतमाहिष भक्षणात्

2.86.90.5

अन्वर्थं भावदुष्टायाः स्फुटं तु शतमाहिषा।
सा ययौ बन्धुहन्तारं हन्तुं बन्धुप्रियंकरी

2.86.90.6

कमनीयतरा भूत्वा सर्वावयवसुन्दरा ।
नानालंकारसंयुक्ता गौरा षोडशवार्षिकी

2.86.90.7

कृत्वा षोडशशृंगारान्मोहयन्ती कटाक्षतः ।
सा ययौ दुष्टभावेन गिरिजालयमुत्तमम्

2.86.90.8

प्रणनाम शिवां चादौ प्रोवाच परमादरात्।
धन्याऽहं कृतकृत्याऽहं प्राप्ताऽहमीप्सितं फलम्

2.86.90.9

यतस्त्वं सर्वजननी सर्वदेवमयी शुभा ।
सर्वध्येया सर्वसिद्धिः सर्वकारणकारणम्

2.86.90.2.87.10

जगन्मोहनदक्षा त्वं पुण्येन दृष्टिमागता ।
क उवाच ।
श्रुत्वा वाचं तदीयां सा प्रोवाच गिरिजा तु ताम्

2.86.90.11

उत्तिष्ठोत्तिष्ठ भद्रं ते संतुष्टाऽहं तवेक्षणात् ।
कस्यासि कुत आयासि किमर्थं च वरांगने

2.86.90.12

कामं ते पूरयिष्यामि वद सत्यं ममाग्रतः ।
सोवाच ।
अहं चिरं वियोगार्ता शरणं त्वामुपागता

2.86.90.13

श्रुतं स्यादमरावत्या नायकोऽसुरवर्जितः ।
स लीनः क्वापि गिरिजे सर्वे देवगणा अपि

2.86.90.14

त्वं तु भाग्यवती देवि न वियोगो हरस्य ते ।
सह्यं भवेत्सर्वदुःखमसह्यं तु वियोगजम्

2.86.90.15

पार्वत्युवाच ।
बालोऽयं मम सुभगे हनिष्यति खलान्बलात् ।
मोचयिष्यति देवान्स कालः कश्चित्प्रतीक्ष्यताम्

2.86.90.16

एतदर्थं गुणेशेन धृतो देहो ममालये ।
भूभारोत्तारणार्थाय मुनीनां पालनाय च

2.86.90.17

क उवाच ।
इत्युक्त्वा पूजयामास पादक्षालनपूर्वकम् ।
सखीभिः कुंकुमाद्यैश्च भोजयामास सादरम्

2.86.90.18

सापि भुक्त्वा शिवातल्पे सुष्वापोवाच तत्सखीः ।
गिरिजाबालकं सख्य आनयन्तु ममान्तिकम्

2.86.90.19

विश्वस्ताः सर्वसख्यास्ता ददुर्बालं तु तत्करे।
लालयामास सा स्नेहान्मुखचुम्बनवल्गनैः

2.86.90.2.87.20

तज्जिघांसां स विज्ञाय सर्वज्ञः स शिवात्मजः ।
राक्षसीमिति निश्चित्य हस्ताभ्यां श्रोत्रयोरधात्

2.86.90.21

नासिकां च ततो भारं महापर्वतसन्निभम् ।
तदंगं पातयामास सा च श्वासनिरोधतः

2.86.90.22

विह्वला परिचिक्षेप पादाघाताशिशौ भृशम् ।
मुंच मुंचेति भाषन्ती कौतुकं द्रष्टुमागताम्

2.86.90.23

कथं हंसि स्त्रियं दुष्ट त्वनागस्कां शिवासमाम् ।
क उवाच ।
तदाक्रंदनमाकर्ण्य सखीभिः सह पार्वती

2.86.90.24

आगता मोचितुं पुत्रं नाशकत्तमुवाच सा ।
न मारयाशु मुंचैनां शक्रस्य महिषीं प्रियाम्

2.86.90.25

श्रुत्वा मातृवचो बालो दूरे चिक्षेप तां तदा।
पपातोपरि व्याजेन क्षणात्सोऽभ्युदतिष्ठत

2.86.90.26

तत्कर्णनासिकाहस्तो दृष्टः सासृकस्रवोऽपि च ।
तदंघ्रिघातात्सा प्राणांस्तत्याज क्षणमात्रतः

2.86.90.27

गतासुं तां शुशोचाथ पार्वती स्नेहनिर्भरा।
उवाच चपलो बालो दुर्यशो जितवानहम्

2.86.90.28

श्रुत्वा शची हतामिन्द्रः किं वागत्य करिष्यति ।
ददर्श पुरतो गत्वा राक्षसीं तां शिवाऽशिवाम्

2.86.90.29

दशयोजनविस्तीर्णां क्षतभूभूरुहां तदा ।
तत्याज शोकं जहृषे प्रशशंस निजं सुतम्

2.86.90.2.87.30

आदाय सुतमव्यंगं पार्वती मन्दिरं ययौ ।
विस्मापयत्यसौ बाला शंकिता बालपौरुषम्

2.86.90.31

विस्मयं पौरुषे तस्य समपद्यत पार्वती ।
तत्सख्याच्च्छिन्नकर्णां तां छिन्ननासां व्यलोकयन्

2.86.90.32

कथामस्या लाघवं च कथमस्य बलं शिशो: ।
अहसन्प्रावदन्नित्यं दत्त्वा तालं परस्परम्

2.86.90.33

ततस्तां राक्षसीं दूराच्चिक्षिपुः प्रमथास्तदा ।
अरिष्टे विहते गौरी ददौ दानानि भक्तितः

2.86.90.34

ततस्तु सप्तमे मासे प्रवृत्ते निद्रिते जने ।
तमसा सर्वतो व्याप्ते दशदिग्मण्डलेऽखिले

2.86.90.35

निशीथेऽरण्यपशुषु रुवत्सु दर्दुरेषु च ।
पर्यंके परिसुप्तायां पार्वत्यां दिव्यसंस्तरे

2.86.90.36

सखीजने निद्रिते च सेवकानां गणे तथा ।
एतस्मिन्नन्तरे दुष्टो नाम्ना यः कमठासुरः

2.86.90.37

आच्छादयत्स्वदेहेन शिवा प्रांगणमद्भुतम् ।
यस्य स्पर्शेन सहसा शीर्यंते वज्रसंहति

2.86.90.38

अतिशीतलगात्रः स पार्वणश्चन्द्रमा इव ।
उदिते तु दिवानाथे तत्पृष्ठे विचरंजनाः

2.86.90.39

केचित्स्नात्वा स्थिता जप्तुं केचिन्निद्रां प्रचक्रिरे ।
स्खलित्वा पतिताः केचिदतिकोमलदेहतः

2.86.90.2.87.40

सिषिचुर्बालिका वारि गोमयैरंगमालिकाः ।
चक्रुस्ततो बहिर्याता सबाला गिरिजा तदा

2.86.90.41

आस्वापयत्सुतं गौरी महार्हास्तरणेऽत्र सा ।
सखीस्तत्र च संस्थाप्य ययौ सा सेवितुं शिवम्

2.86.90.42

एवं ज्ञात्वाऽसौ कमठः स्वस्य पृष्ठमचालयत् ।
भूमिकम्पः कथमिह किं वारिष्टं भविष्यति

2.86.90.43

इत्यब्रुवन्स्थितास्तत्र गणाश्चकितमानसाः ।
निद्रिताः प्रतिबुद्धास्ते कि जातमिति चाब्रुवन्

2.86.90.44

तदैव तेन बालेन सर्वज्ञेन विवर्त्तिता।
उदरं तस्य पृष्ठे तु न्यधायि धर्षता भृशम्

2.86.90.45

चतुर्दशभुवनजं भारं निदधताऽत्र च ।
निरुद्धश्वासवायुः सोऽगांनि स्वानि व्यचालयत्

2.86.90.46

अस्रवद्रक्तमतुलमस्य देहात्तथाविधात् ।
उड्डानं कर्तुमारेभे नाशकत्कमठस्ततः

2.86.90.47

ततो गणा ययुः सर्वे ये तत्रासन्सुखोषिताः।
किमरिष्टं समुत्पन्नं मुहुर्भूश्चलते नु किम्

2.86.90.48

सख्यश्च बालिकाः सर्वाः पार्वतीं सेवितुं ययुः ।
उत्तिष्ठ मातर्बालस्ते नीतः स्याद्वा मृतोऽपि वा

2.86.90.49

त्वरया पार्वती याता धावमाना बहिः सुतम् ।
ददर्श निश्चलं गौरी सोत्थापयितुमुद्यता

2.86.90.2.87.50

भूगोलभारसदृशं मत्वा तस्थौ विमानसा ।
ततो ममर्द सहसा बालस्तं स ममार च

2.86.90.51

ततः सा ददृशे दैत्यं दशयोजनमायतम् ।
प्रसारितमुखं कूर्मं वमन्तं रुधिरं बहु

2.86.90.52

चूर्णयामास सहसाऽऽश्रमान्नानाविधान्दुमान् ।
ततः सा बालमादाय स्तनपानं ददौ मुदा

2.86.90.53

न ज्ञायतेऽसुराणां हि नानामायां प्रकुर्वताम् ।
त्रिलोचनप्रसादेन पुनर्लब्धः तुतो मया

2.86.90.54

यतः कृतान्ताद्बलवान्निहतः कमठासुरः ।
सख्यश्च तद्गणाः प्रापुः पप्रच्छुः क्षेममर्भके

2.86.90.55

क्षेममित्येव तान्गौरी निजगाद मुदान्विता ।
ततो गणाः खण्डशस्तं कृत्वा दूरतरं जहुः

2.86.90.56

ववर्षुः पुष्पवर्षाणि तस्मिन्देवगणास्तदा ।
य इदं परमाख्यानं शृणुयाच्छ्रावयेत्तथा

2.86.90.87

सर्वारिष्टविनिर्मुक्तः सर्वान्कामानवाप्नुयात् ५७ (३८८७)
इति श्रीगणेशपुराणे क्रीडाखण्डे कमठासुरवधो नाम सप्ताशीतितमोऽध्यायः

2.86.90.1

अध्याय ८८ प्रारंभ :-
व्यास उवाच ।
अद्भुतानि चरित्राणि श्रुतानि त्वन्मुखाम्बुजात् ।
ब्रह्मन्नघौघहारीणि गुणेशेन कृतानि वै

2.86.90.2

तथापि श्रोतुमिच्छा नो नापैति सर्ववित्तम ।
अतो बालस्य चरितं पुनर्मे ब्रूहि सादरम्

2.86.90.3

ब्रह्मोवाच ।
शृणुष्वावहितो ब्रह्मन्गुणेशस्य कथां पुनः ।
स्रुतिरस्य च पापानां संहर्त्री धर्ममोक्षदाम्

2.86.90.4

अष्टमे मासि मध्याह्नं ग्रीष्मर्तौ गिरिजा किल ।
ऊष्मणा पीडितां गेहे सा ययौ पुष्पवाटिकाम्

2.86.90.5

अशोकाश्चन्दना यत्र पनसास्रबिभीतकाः ।
मालतीचम्पकाजातीचिंचिणीपिचुमन्दकाः

2.86.90.6

पारिजातकवृक्षाश्च घनच्छायासमन्विताः ।
रम्यं शीतजलं चारु सरः कमलमण्डितम्

2.86.90.7

तत्र मंचकवर्ये सा सख्यानीते शुभास्तरे ।
सुष्वाप गिरिजा बालयुक्ता निःशंकचेतसा

2.86.90.8

सखीभ्यां वीजिता बालव्यंजनेनाश्ममुष्टिना ।
सुषुप्तिमगमद्यावत्तावद्दैत्यो महाबलः

2.86.90.9

तल्पासुर इतिख्यातो वायुरूपोऽविशत्ततः।
मंचकान्तर्गतः सोऽथ तेज साकं ययौ दिवम्

2.86.90.2.88.10

तस्य शब्देन संत्रस्ते ते सख्यौ पतिते भुवि ।
आक्रन्दं परमं चक्रे पर्यंकस्था तदा शिवा

2.86.90.11

व्योमस्था पर्यदेवत्सा धाव धावेति शंकर ।
किं मया विकृतं देव किमर्थं मामुपेक्षसे

2.86.90.12

अयं दैत्योऽतिबलवान्व्योमाक्रम्य प्रधावति ।
परहस्तगतां कान्तां शक्तः कथमुपेक्षसे

2.86.90.13

अस्य पुत्रस्य योगेन नानादुःखमभून्मम ।
अस्माद्दैत्यान्मृतिर्मे किं सपुत्राया विनिर्मिता

2.86.90.14

अयमेव न जातश्चेत्कथं बन्धनमाप्नुयाम् ।
क उवाच ।
एवामाक्रन्दनं श्रुत्वा उमाबालो महामनाः

2.86.90.15

तदा मुहुर्जगर्जासौ घनवद्गर्जयन्दिशः ।
चकम्पे धरणी तेन ससमुद्रवनाकरा

2.86.90.16

तामद्रष्ट्र्वा तु शोचत्सु गणेषु प्रमथादिषु।
पादाघातेन बालोऽथ मंचकं समताडयत्

2.86.90.17

बिभ्युर्भूतानि सहसा शतधेवाभवन्नभः ।
मंचकः खण्डशस्तेन भूत्वा निपतितो भुवि

2.86.90.18

ततस्तल्पासुरो दृश्यो जातो बालो दधार तम् ।
हस्तेनैकेन जननीं दधारासौ स्वलीलया

2.86.90.19

घनमुक्तं तोयबिन्दुं चञ्च्वेव चातकः क्षणात् ।
स्कन्धारूढां तु तां कृत्वा शिखां वामेन तस्य च

2.86.90.2.88.20

ततस्तत्याज भूदेशे तं बालः सहसा बलात् ।
पद्मासनं दैत्यदेहे कृत्वा योगीव तस्थिवान्

2.86.90.21

स भूमौ पतितो दूरान्मर्दितो बलवत्तरम् ।
प्राणांस्तत्याज दैत्योऽथ वमन्नास्यादसृग्मुहुः

2.86.90.22

स तु दृष्टो जनैर्दैत्य एकविंशतियोजनः ।
चूर्णयन्वृक्षपाषाणानाश्रमां शरणान्यपि

2.86.90.23

ततो दृष्टो बालकोऽसौ गणः सखिजनैरपि ।
ऊचुस्ते गौरि बालोऽयं रमते कुशली बली

2.86.90.24

सा तु भ्रांत्यैव नाजानाद्गगनं धरणीं शिशुम् ।
मुनयस्तामथोचुस्ते सावधानमना सति

2.86.90.25

भव दैत्यो हतस्तेन धृत्वा रूपं महत्तरम् ।
उन्मील्य नयने पश्य पुनर्बालं शिवं शुभम्

2.86.90.26

क उवाच ।
तद्वाक्यात्प्रतिबुद्धा साऽपश्यद्दैत्यं च बालकम् ।
गौर्युवाच ।
विपरीतं मया दृष्टं मूढो बालेन वा कथम्

2.86.90.27

हतोऽनेन महादैत्य एकविंशतियोजनः ।
मातॄणामृणमुत्तीर्णो बालो मे जीवितप्रदः

2.86.90.28

इत्युक्त्वा बालमादाय कारयामास शान्तिकम् ।
दत्त्वा दानानि च ददौ स्तनपानं शिशोरपि

2.86.90.29

दृष्ट्वा ते कौतुकं तस्य प्रशशंसुर्मुदान्वितः ।
एतस्मिन्नन्तरे घोरं चक्रे शब्दं महासुरः

2.86.90.2.88.30

दुन्दुभेः सदृशं सोऽपि ख्यातो दुन्दुभिनामतः ।
यस्य पाणितलाघाताद्धरा चूर्णत्वमागता

2.86.90.31

आच्छादितो दिनमणिर्देहेन गगनस्पृशा ।
गणबालस्वरूपेण गौरीबालं जुहाव सः

2.86.90.32

इत एहि रमावोऽद्य सोऽपि यातस्तदेव तम् ।
स्वांकं कृत्वा तु तं बालं हालाहलफलं ददौ

2.86.90.33

अद्ध्यद्धीति फलं बालं शीघ्रमित्यब्रवीच्च सः ।
दूरदेशात्समानीतं जन्ममृत्युजरापहम्

2.86.90.34

स तु जानन्दुष्टभावं फलं तज्जगृहे ततः ।
अभक्षयदयाचत्स फलान्तरमभीः पुनः

2.86.90.35

क उवाच ।
अमृतं विषतां याति विषं तत्तां शिवेच्छया।
धृत्वा वक्षः स्थलं तस्य तत्क्षणादुदतिष्ठत

2.86.90.36

तज्जानुनोर्न्यस्य पादौ कराभ्यां जगृहे शिखाम् ।
पराभ्यां श्मश्रुणी गृह्य दोलयामास लीलया

2.86.90.37

ननर्त जानुभागेऽस्य भूमण्डलभरान्वितः ।
स पीडित उवाचाथ जानुभागादवातर

2.86.90.38

तव भारेण नृत्येन मम देहोऽतिपीडितः।
मुंच मुंच गमिष्यामि स्वालयं गिरिजासुत

2.86.90.39

क उवाच ।
एवं संप्रार्थितस्तेन न मोचयति बालकः ।
उदतिष्ठद्बलाद्दैत्यो भग्नदेहस्तु पूर्वतः

2.86.90.2.88.40

बलाच्चकर्ष बालोऽपि मूर्धानमस्य तत्क्षणात् ।
कण्ठनालात्तच्छिरोऽपि बालहस्तगतं बभौ

2.86.90.41

रुधिराक्ता मही सर्वा तत्क्षणं समपद्यत ।
शिरःकमलहस्तोऽसौ खेलते गिरिजासुतः

2.86.90.42

शोणितेन विलिप्तांगे गणा मात्रे न्यवेदयन ।
सा गत्वा पश्यति स्माथ पुत्रं दृष्टवा तथाविधम्

2.86.90.43

तच्छिरो दूरतः क्षिप्त्वा वस्त्रेण च ममार्ज तम् ।
स्नापयित्वा स्वयं स्नात्वा ददौ स्तन्यं तदा मुदा

2.86.90.44

ततः सख्यो गणाश्चापुः पप्रच्छुः क्षममभकम् ।
सोवाच परमं क्षेम बालके शिवभक्तित:

2.86.90.45

मरीचिरक्षणाच्चापि कुशलं मम बालके ।
ततस्ते तं निरासुर्वै दूरतो दुष्टदानवम्

2.86.90.88

ततो हर्षयुता जग्मुर्गणाः सख्यो निजं गृहम् ।
पार्वती हर्षसंयुक्ता सबाला प्राविशद्गृहम ४६ (३९३३)
इति श्रीगणेशपुराणे क्रीडाखण्डे मंचकासुरवधो नामाष्टाशीतितमोऽध्यायः

2.86.90.1

अध्याय ८९ प्रारंभ :-
क उवाच ।
ततस्तु दशमे मासे त्रिमुहूर्तागते रवौ ।
किंचिच्च रिंगमाणोऽसौ रमते च शिवासुतः

2.86.90.2

पादाभ्यां चालयन्क्वापि गूढं गूढं च भाषते ।
लुण्ठते नर्तते चापि रोदनं कुरुते च ताम

2.86.90.3

दृष्ट्वा शिवां च सहसा पृष्ठलग्नो व्रजत्यपि ।
दृष्ट्वा तथाविधं बालं जहृषे पार्वती तदा

2.86.90.4

एतस्मिन्नन्तरे दृष्टो दैत्य आजगराभिधः ।
वमदग्निकणान्दृष्ट्या वज्रासारतनुर्दृढः

2.86.90.5

ललज्जिह्वो दीर्घदेहो ग्रसन्निव महागिरिम् ।
उपविष्टो द्रुमतले द्वे जिह्वे लालयन्मुहुः

2.86.90.6

तं बालो बालभावेन रिंगीत्वा विदधार ह ।
स निनाय च शीघ्रमास्यान्तः सह तेन च

2.86.90.7

अन्तःप्रविष्टे ओष्ठौ स न्यमीलयत वायुभुक् ।
नापश्यदंगणे बालं गौरी विह्वलमानसा

2.86.90.8

अत्र कीडन्स्थितो बालः केन नीतो हतो नु वा ।
शुशोच परमार्तासौ तताड मस्तकं निजम्

2.86.90.9

तावद्गणैर्निषिद्धा सा मा मातर्विमना भव ।
बालप्रभावो विज्ञातः शतशो बलतत्तरः

2.86.90.2.89.10

बालस्तदुदरगतो ववृधे च निरुध्य च ।
श्वासं तस्य तु दैत्यस्य पुच्छान्त सोप्यचालयत्

2.86.90.11

प्राणवायुस्तु नेत्राभ्यां रुधिरेण विनिर्ययौ ।
विदार्य देहमस्यासौ बहिर्यातोऽम्बिकासुतः

2.86.90.12

चिक्रीड रुधिरार्द्रांगः किं नु पुष्पितकिंशुकः ।
ततो गणास्तं निरीक्ष्य लिहन्तं स्वांगुलिं शिशुम्

2.86.90.13

उच्चैरूचुर्गिरिसुतामयं बालो विनिर्गतः ।
अस्यास्यान्मारयित्वा तं दैत्यमाजगरं खलम्

2.86.90.14

क उवाच ।
तद्वधानन्नरं बालमादाय सत्वरं शिवा ।
स्नापयामास सहसा लालयित्वा स्तनं ददौ

2.86.90.15

क्व गतोऽसि क्षणो बाल त्वां विनाब्दत्वमागतः ।
ततो ददर्शाजगरं विस्तीर्णं शतयोजनम्

2.86.90.16

भयानकमुखं दुष्टं वमन्तं रुधिरं बहु ।
पतितं वृक्षजालानि पातयित्वा गृहाणि च

2.86.90.17

गौर्युवाच ।
अस्मिन्स्थले कियन्तो नु भवेयुर्दैत्यराक्षसाः ।
कियन्तो निधनं प्राप्ता अस्य बालस्य विक्रमात्

2.86.90.18

ततस्तं चिक्षिपुः सर्वे गणा दूरे महासुरम् ।
ततस्त्वेकादशे मासे द्वारदेशे शिवा ययौ

2.86.90.19

सखीभिः पश्यती बालकौतुकानि बहून्यपि ।
कस्यचिद्वदनं बालश्चुम्बते चुम्बयत्यपि

2.86.90.2.89.20

आच्छादते चक्षुषी च कस्यचित्पृष्ठगः स्वयम् ।
पिबते मातुरन्यस्याः स्तन्यं गत्वा बलादसौ

2.86.90.21

मुखमाच्छाद्य वस्त्रेण बिभीषयति चापरान् ।
मुखं केशान्नासिकां च कर्षते भूषणान्यपि

2.86.90.22

वदते स्खलितां वाणीं परंदृष्ट्वा स्वकान्यपि ।
एतस्मिन्नन्तरे दुष्टो दानवः शलभासुरः

2.86.90.23

ब्रह्मादीनामगम्योऽसौ पर्वतस्कन्धमण्डलः ।
व्योमस्फोटिमहामूर्धा नीलवर्णो यथा घनः

2.86.90.24

जपाकुसुमनयनो मेघस्पृक्शृंगमण्डलः ।
बालान्तिकमुपायातो ग्रसन्निव जगत्त्रयम्

2.86.90.25

तं धर्तुं बालको याति यत्र यत्र स गच्छति ।
एवं तौ सुचिरं कालं भ्रमतः स्म महाजवौ

2.86.90.26

ततः श्रान्तोऽभवद्बालो रुषाऽधावत्तदन्तिकम् ।
दधार सहसा दैत्यं शलभं बलवत्तरम

2.86.90.27

सपक्षौ स्फालयामास श्येनो हस्तगतो यथा ।
बाधते चरणाघातैस्तं बालं शलभासुरः

2.86.90.28

प्रसार्य नयने क्रूरे पश्यती स्म तदा शिशुम ।
मुमुचे तं तदा बालो दधार च पुनःपुनः

2.86.90.29

दर्शयामास जननीं धरापृष्ठे व्यपोथयत् ।
शिवोवाच दयाविष्टा तं बालं क्रूरमानसम्

2.86.90.2.89.30

जीवघातो न कर्तव्यो मुंचैनं प्राणिनं शिशो।
बलात्पुनः शिलापृष्ठे हठाच्चिक्षेप बालकः

2.86.90.31

स तदा शतधा जातो निपपात च भूतले ।
गर्जयन्गगनं वृक्षान्पातयन्गृहतोरणान

2.86.90.32

वमन्रक्तं बहु मुखाद्दशयोजनविस्तृतः ।
चूर्णयन्नाश्रमान्वृक्षांस्ततो माता निनाय तम्

2.86.90.33

बालं संस्थापयामास प्रादात्स्तन्यं च भोजनम् ।
सख्यो निरीक्ष्य तं बालं मृतं दैत्यं तथाविधम्

2.86.90.34

साधु साध्विति ताः प्रोचुस्तां च पर्वतकन्यकाम् ।
गृहं विवेश गिरिजा ताश्च सख्यो मुदान्विताः

2.86.90.89

चिक्षिपुर्दूरतो दैत्यं तदाज्ञावशगा गणाः ।
मुमुचुः पुष्पवर्षाणि बालं देवगणास्तदा ३५ (३९६८)
इति श्रीगणेशपुराणे क्रीडाखण्डे शलभासुरवधो नामैकोननवतितमोऽध्यायः

2.86.90.1

अध्याय ९० प्रारंभ :-
क उवाच ।
ततो द्वादशमासे तु गिरिजा सुतमद्भुतम् ।
उपविष्टालिभिः सार्धमंके कृत्वा स्वलंकृतम्

2.86.90.2

कोटिसूर्यनिभं कोटिभूषणैश्च विराजितम् ।
ततस्तस्या महानासीदुत्सवो नृत्यदर्शने

2.86.90.3

बालकानां हरस्याथ ज्ञात्वा वांछां शिशुस्तदा ।
थेथीथेयीति शब्देन ननर्त गिरिजासुतः

2.86.90.4

श्रुत्वा तदीयं तं शब्दं हरो नर्तितुमागतः ।
शिवं नृत्यन्तमालोक्य ननर्त श्रीवरोऽपि च

2.86.90.5

तत इन्द्रादयो देवास्तव नर्तितुमागताः ।
स यथा नर्तते बालस्तेऽपि नृत्यन्ति तादृशम्

2.86.90.6

दर्शयन्ति तथा भावं स यथा दर्शयत्यपि ।
मनुष्याः पशवो वृक्षा यक्षराक्षसपन्नगाः

2.86.90.7

मुनयो मनवो भूपा भुवनानि चतुर्दश ।
एकविंशतिस्वर्गस्थाः सचेतनमचेतनम्

2.86.90.8

बालप्रभावान्ननृते बालच्छन्देन भूतलम् ।
मुनिपत्न्यो देवपत्न्यो ननृतुर्गिरिकन्यया

2.86.90.9

नूपुराणां सिंचितेन क्षुद्रघन्टारवेण च ।
पादाघातस्य शब्देन दिशो विदिश एव च

2.86.90.2.90.10

गगनं पर्वता आसन्नादयुक्तास्तदा मुने ।
चकम्पे धरणी शेषो रविश्चन्द्रश्च तारकाः

2.86.90.11

ततो नृत्यस्यातिशयं ज्ञात्वा गौरी न्यषेधयत् ।
न चक्रे बालको वाक्यं यदा गौरीसमीरितम्

2.86.90.12

नूपुराख्यो महादैत्यो महाकृष्णतनुर्दृढ ।
पातालचरणो व्योमसंस्पर्शिदृढमस्तकः

2.86.90.13

नूपुरान्तर्गतो दुष्टः सूक्ष्मरूपः शिशोरसौ ।
स बालस्तं बबन्धाशु मायया बलवत्तरम्

2.86.90.14

शृङ्खलाभिश्चतुर्दन्तं यथा मदच्युतं गजम् ।
अंके जग्राह तं बालं पुनरेवाद्रिकन्यका

2.86.90.15

तद्भारेण पिपीडाथ भूभारेण समेन सा।
उवाच वचसा गौरी कथं गुरुतरो भवान्

2.86.90.16

इदानीमेव जातोऽसि तस्मादुत्तर मेऽङतः ।
मम प्राणा गमिष्यन्ति तव भारेण बालक

2.86.90.17

क उवाच ।
श्रुत्वा मातुर्वचो बालः पीडिता सा भृशं तदा ।
उत्ततार बलादंकादुधावाङ्रि युगं शिशुः

2.86.90.18

ततो निसृत्य दैत्योऽसौ व्योम्नि बभ्राम पक्षिवत् ।
तमसाऽव्यापि भूः सर्वा तेन संछादिते रवौ

2.86.90.19

सोऽकस्मान्निपपातोर्व्या शतधा चाभवत्खलः ।
ततस्ते मुनयो देवाः परमानन्दनिर्वृताः

2.86.90.2.90.20

तुष्टुवुर्बालरूपं तं परमात्मानमव्ययम् ।
देवर्षय ऊचुः ।
न जानीमो वयं देव रूपाणि तव यन्महः

2.86.90.21

लीलामायाश्च विविधा दैत्यदानवनाशिकाः ।
चरणात्त्याजितो दैत्यो रविमण्डललोपकः

2.86.90.22

भ्रमित्वा व्योमनि भृशं पतितः शतधाऽभवत् ।
संहृत्य जीवसंघातान्वृक्षानाश्रमपर्वतान्

2.86.90.23

तव नृत्यं ततो वीक्ष्य सर्वे नृत्यं प्रचक्रिरे ।
क उवाच ।
ततस्ते पुपुजुः सर्वे तं बालं विश्वरूपिणम् ।
नृत्योत्सवे निवृत्ते तु गौतमादीन्विसृज्य सा

2.86.90.24

पार्वती बालमादाय लालयित्वा स्तनं ददौ।
स्त्रिय सर्वा विसृज्याथ विवेश निजमन्दिरम्

2.86.90.25

ततः पुनः कदाचित्स मुनिबालैः समन्वितः ।
गृहाद्बहिः क्रीडनार्थं ययौ चिक्रीड लीलया

2.86.90.26

मल्लयुद्धं च ते चकुर्द्वन्द्वशोऽनेकधा बहु ।
पातयामासुरागृह्य शिखायां ते परस्परम्

2.86.90.27

जघ्नुः शिरः शिरोभिश्च जानुभिर्जानुनी तथा ।
कूर्परं कूर्परेणैव चरणं चरणेन च

2.86.90.28

रुरुहुः पृष्ठभागं ते स्कन्धभागं परस्परम् ।
लत्ताप्रहारान्निर्जघ्नुरुदरे मस्तकेऽपि च

2.86.90.29

केचिच्च पुपुजुर्बालं गन्धपुष्पाक्षतादिभिः ।
केचिन्नीत्वाश्रमपदं भोजयामासुरन्धसा

2.86.90.2.90.30

नमश्चक्रुः पदयुगं केचिन्मालां ददुः शुभाम् ।
अविपुत्रस्वरूपेण दैत्यः सिन्धुप्रणोदितः

2.86.90.31

यं दृष्ट्वा भयमभ्येति दण्डपाणिर्भयानकः ।
स्वबलेन जघानारींस्तीक्ष्णधारनखो बली

2.86.90.32

बिरुदं बाहुदेशे स जित्वा सर्वान्बबन्ध ह ।
विशालाक्षो बृहच्छृङगो महागोत्रविदारणः

2.86.90.33

पुच्छाघातेन जीवानां यश्चक्रे नाशनं खलः ।
उन्मूलयामास द्रुमाञ्शृङ्गाघातेन पतंतान्

2.86.90.34

पृष्ठलग्नो मनुष्याणां बलान्मारयते बली ।
स ययौ पार्वतीबालं हन्तुकामो महासुरः

2.86.90.35

पृष्ठतो धावयित्वा स यावन्मारयते तु तम् ।
दधार शृङ्गयोर्बालो हस्ताभ्यां तावदेव हि

2.86.90.36

रुरोह च स तत्पृष्ठे हयपृष्ठे यथाऽर्भकः ।
ततो मुनिसुताः केचित्पुच्छं धृत्वा व्यकर्षयन्

2.86.90.37

केचिद्दण्डैश्च लगुडैर्निजघ्नुर्दैत्यपुंगवम् ।
सोऽवमत्य तु ताञ्जघ्ने पुच्छान्तेन स सत्वरम्

2.86.90.38

निपेतुस्ते तदा भूमौ पुच्छाघातेन पीडिताः ।
दृष्ट्वा तस्य बलं बालोऽवतरच्च दधार तम्

2.86.90.39

आस्फालयत्तदा पृष्ठं भ्रामयित्वा चिरं तु तम् ।
सहस्रधा विशीर्णांगो ममार सहसाऽसुरः

2.86.90.2.90.40

अन्त्यशब्देन तस्याथ बिभाय भुवनत्रयम् ।
वमन्रक्तं बहु मुखात्प्रसार्य विकृतं मुखम्

2.86.90.41

ततो बाला मुनीनां तेऽकथयन्नचलोद्भवाम् ।
अनेन निधनं नीत अविजेयो महासुरैः

2.86.90.42

निहन्तुं नः समायातः क्रीडता बलशालिना।
क उवाच ।
अम्बा निरीक्ष्य निहतं महादैत्यं सुतं च तम्

2.86.90.43

आश्चर्यं परमं कृत्वा निनाय निजमन्दिरम् ।
दध्योदनं भ्रामयित्वा बालोपरि जलेन ह

2.86.90.44

तत्याज दूरतो गेहात्स्तनपानं ततो ददौ ।
तानि खण्डानि दैत्यस्य तत्यजुर्दूरतो गणाः

2.86.90.45

मुनयो मुनिपत्न्यश्च मुनिबालाः स्त्रियोऽपि च ।
प्रशशंसुः सुतं गौर्या देवाः पुष्पाणि तत्यजुः

2.86.90.90

आशिषोऽपि ददुर्विप्रा नृत्यन्ते स्माप्सरोगणाः ४६ (४०१४)
इति श्रीगणेशपुराणे क्रीडाखण्डेऽविजयवधो नाम नवतितमोऽध्यायः

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc