भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 2.61.65

2.61.65.1

अध्याय ६१ प्रारंभ :-
विनायक उवाच ।
नेदृशो दृष्टपूर्वो मे बली च वीर्यवत्तरः ।
इदानीं पौरुषं पश्य मम बालस्य चेष्टितम्

2.61.65.2

इत्युक्त्वा पुनरेवासौ बाणं तूणादकर्षयत् ।
आकर्णं धनुराकृष्य प्राक्षिपत्तं नरान्तकम्

2.61.65.3

प्रकाशयन्व्योमतलं पातयन्वृक्षसंचयम् ।
आन्दोलयन्निव ययौ पुष्पवत्तं नरान्तकम्

2.61.65.4

स बाणोऽछेदयत्तस्य चरणौ स पपात ह ।
अर्धकाये निपतिते दैत्येऽगर्जद्विनायकः

2.61.65.5

चरणौ व्योममार्गेण भ्रमन्तौ पतितौ गृहे ।
देवान्तकस्य महति चूर्णयन्तौ बहून्जनान्

2.61.65.6

अर्द्धकायः स दैत्येन्द्रो मुखं कृत्वा भयानकम् ।
अभ्यधावद्बलेनासौ ग्रसन्निव जगत्त्रयम्

2.61.65.7

तथैव चरणावस्य मायया संबभूवतुः ।
विनायकस्य निकटे बभाषेऽभ्येत्य दैत्यराट्

2.61.65.8

त्वया यद्दर्शितं मह्यं पौरुषं कायभेदनात् ।
छेत्से तवापि चांगानि पश्य मे पौरुषं तथा

2.61.65.9

श्रुत्वा वाक्यं पुनस्तस्य जगर्जासौ विनायकः ।
शरवृष्टिं पुना रौद्रमसृजद्दैत्यपुंगवे

2.61.65.2.61.10

सोऽपि तां भक्षयामास संख्यातीतां महाबलः ।
तत एकं महाबाणमभिमन्त्र्य विनायकः

2.61.65.11

अग्नितुण्डं रुक्मपुंखं गर्जमानं भयानकम् ।
आकर्णं ज्यामपाकृष्य तत्याज दैत्यमस्तके

2.61.65.12

स ययौ वायुवेगेन दारयन्निव पर्वतान् ।
संहरन्पक्षिसंघातान्पातयन्वृक्षसंचयान्

2.61.65.13

श्रुत्वा तदीयनिनदं ययुः सेना दिशो दश ।
पपात दैत्यकण्ठे स गिरिसानौ यथा पविः

2.61.65.14

तदाघाताच्छिरोऽप्यस्य पक्षीव गगनं ययौ ।
न्यपतत्परिकूजत् पितुर्गेहे भयानकम्

2.61.65.15

पुनरन्यच्छिरोऽस्याभूदच्छिन्नमिव पूर्वतत् ।
ततः कोपेन दैत्योऽकि चक्रे क्ष्वेडितमुच्चकैः

2.61.65.16

बिभ्युः सुराः पक्षिसंघा सर्वे च जनसंचयाः ।
धर वृष्टिं पुना रौद्रां चक्रे तस्मिन्विनायके

2.61.65.17

स सर्वां बाणवृष्ट्यैव मध्ये चिच्छेद लाघवात् ।
अहोरात्रमभूद्युद्धं गिरिबाणमयं नवम्

2.61.65.18

परिशश्राम देवोऽपि सोऽपि दैत्यो महाबलः ।
चिन्तामवाप महतीं प्रजज्वाल च तेजसा

2.61.65.19

ततो जग्राह परशुं ज्वालामालासमाकुलम् ।
तोलयामास बलवांश्चकम्पे धरणी तदा

2.61.65.2.61.20

विमानगाः सुराः सर्वे युद्धं द्रष्टुमुपागताः ।
चकम्पिरे तदा शेषो बिभाय च रसातले

2.61.65.21

अवासृजद्दैत्यपतो स तस्याशु शिरोऽहरत् ।
पुनरन्यदभूच्चारुशिरोमुकुटकुण्डलम्

2.61.65.22

पुनस्तत्पातयामास शिरः क्रुद्धो विनायकः ।
पुनरन्यदभूत्तस्य छिन्ने तस्मिन्पुनःपुनः

2.61.65.23

एवं शतसहस्त्राणि शिरांसि सोऽच्छिनद्विभुः ।
पुनश्च चिन्तयामास मृतौ दैत्यस्य कारणम्

2.61.65.24

मोहयामास सहसा मायया तं नरान्तकम् ।
शिवस्य वरदानेन गर्वितं बलवत्तरम्

2.61.65.25

नाज्ञासीच्च तदा दैत्योऽपरं चात्मानमेव च ।
क्षणाच्च भासते रात्रिः क्षणाच्च दिनमेव च

2.61.65.26

क्षणाच्च भासते स्वर्गं पृथ्वी पातालमेव च ।
जागरश्च सुषप्तिश्च तुरीया स्वप्न एव च

2.61.65.27

विनायकोऽपि देवो वा नारी वा पुरुषोऽपि वा।
गुह्यको वाथ सिद्धो वा यक्षो राक्षस एव च

2.61.65.28

स्वकीयो वा परो वापि पिता वा जननी तु वा ।
निर्जीवो वा सजीवो वा भ्रमादेवममन्यत

2.61.65.29

चिन्तां च परमामाप तर्कयामास चेतसि ।
एवं मे तु वरा दत्ताः शिवेन शूलधारिणा

2.61.65.2.61.30

अयं च समयः प्राप्तः प्रायो मृत्युर्भविष्यति ।
क उवाच । एवं यावच्चिन्तयते पुरस्तावद्ददर्श सः

2.61.65.31

विनायकं विराड्रूपं गगनोर्ध्वगमस्तकम् ।
पातालव्याप्तचरणं दिक्श्रोत्रं वृक्षरोमकम्

2.61.65.31

भ्रमद्ब्रह्माण्डरोमांच पयोंघ्रिश्रमबिन्दुकम् ।
नखाग्रे यस्य देवानां भान्ति त्रिंशस्त्रिकोटयः

2.61.65.33

उदरे भान्त्येकदशे भुवनानि चतुर्दश ।
ततो विनायको दैत्यं मर्दयामास तत्क्षणात्

2.61.65.34

पादांगुष्ठनखाग्रेण मत्कुणं बालको यथा ।
ततो देवाश्च मुनयो जयशब्दै मुहुर्मुहुः

2.61.65.35

तुष्टुवुर्मुमुचुः पुष्पवृष्टिं भक्त्या प्रहर्षिताः।
अन्तर्हिते तु वैराटे रूपेऽगाद्धरणी विभुम्

2.61.65.36

नत्वा प्रोवाच देवेशमर्धभारो हृतो मम ।
पूर्णे हृते परा प्रीतिर्मे स्यात्तस्मात्सदा कुरु

2.61.65.37

तस्यामन्तर्हितायां तु काशीराजः पुपूज तम् ।
उवाच च प्रसन्नात्मा विनयावनतो नृपः

2.61.65.38

अत्याश्चर्यं विभो दृष्टं मनोवाण्योरगोचरम् ।
अवतीर्णोऽसि भूभारं हर्तुं तच्च कृतं त्वया

2.61.65.39

त्रयस्त्रिंशत्कोटिदेवैरवध्योऽयं हतो यतः।
अतिपुण्येन द्रष्टं ते विराड्रूपं सुरेश्वर

2.61.65.2.61.40

क उवाच ।
एवं ब्रुवति राजेन्द्र पौराः सर्वेऽब्रुवंस्तदा ।
धन्योऽसि बालभावेन सर्वान्नो भ्रामयस्यहो

2.61.65.41

यशः प्रथयितुं सर्वं कृतमेतद्विभो त्वया ।
पुपूजुश्च महाभक्त्या प्रार्थयन्निति तं विभुम्

2.61.65.42

भक्तिं ते देहि नो देव स्ववियोगं च मा कुरु ।
ततो राजा च ते लोका ददुर्दानान्यनेकशः

2.61.65.43

ब्राह्मणान्प्रार्थयामासुरेवमेव जयोऽस्तु नः ।
उपायनानि च तदा ददू राज्ञे परस्परम्

2.61.65.61

(२७५६ )
इति श्रीगणेशपुराणे क्रीडाखंडे दैत्यदमनं विराड्दर्शनं नामैकषष्टित्तमोऽध्यायः

2.61.65.1

अध्याय ६२ प्रारंभ –
क उवाच ।
रौद्रकेतोस्तु या भार्या शारदाख्या द्विजस्य सा ।
विदर्भ्यामुपविष्टा सा सखीभिः कौतुकान्विता

2.61.65.2

नरान्तकस्य च शिरोऽकस्मात्ताभिर्ददर्श ह ।
पतितं प्रांगणे कर्णकुण्डलाभ्यां विराजितम्

2.61.65.3

नादयत्पत्तनं सर्वं शिखरं पार्वतं यथा ।
श्यामलं हिमसंसृष्टं विशोभं कमलं यथा

2.61.65.4

बिभ्यतो रौद्रकेतुश्च शारदाघातविह्वला ।
सावधानौ ददृशतू रुदतः स्म भृशं तदा

2.61.65.5

लुण्ठतः स्म धरण्यां तौ ताडयन्तौ च वक्षसि ।
मूर्च्छामवापतुरुभौ मुहूर्तादिव चेतनाम्

2.61.65.6

माता शुशोच तदा हृदि स्थाप्य त तच्छिरः ।
चक्रन्दे विह्वला सा गौर्मृतवत्सा यथा भृशम्

2.61.65.7

शारदोवाच ।
वीरश्रिया व्याप्ततनू रणायैव समुत्सुकः

2.61.65.8

प्रोक्तवान्न हि किचिन्मामिदानीं गिरमाहर

2.61.65.9

क्व गतः पूर्वकायस्ते शिरसैव समागतः ।
एकाकी कथमायातः क्व ते सैन्यं महत्तरम्

2.61.65.2.62.10

क्व ते जलधरा यासांश्छत्रचामरधारिणः ।
यं दृष्ट्वा वरकामिन्यो म्लायन्ते विरहाग्निना

2.61.65.11

स कथं म्लानतां यातो रविरस्तानुगो यथा।
किं मया ह्यपराद्धं ते पित्रा वा वत्सलेन च

2.61.65.12

किमर्थं वदसे नैव रुददश्रु प्रमार्ज्य नः ।
परार्ध्यास्तरणोपेते मंचक स्वापतत्परः

2.61.65.13

क्वेदानीं परिसुप्तोऽसि खिद्यते मे मनो भृशम् ।
विनाभूतौ त्वया नेशावास्यं सन्दर्शितुं सुत

2.61.65.14

क उवाच ।
शारदायाः शुचं श्रुत्वा रौद्रकेतुः शुशोच ह ।
विना वृत्तान्तकथनात्क्व गतोऽसि प्रियात्मज

2.61.65.15

प्रत्यहं सर्ववृत्तान्तं जातं भाविनमेव च ।
संश्रावयसि स्वस्थानमिदानीं किन्न भाषसे

2.61.65.16

यदि त्वं संमुखे युध्यन्धारापूतो दिवं गतः ।
मामपृच्छ्य च मां त्यक्त्वा कथं त्वं परिजग्मिवान्

2.61.65.17

कथं त्वया कृता पित्रोः पुत्रता शत्रुतापि च ।
यदा त्वं सेवककरात्खड्गं गृह्णासि स्वं करे

2.61.65.18

तदा सपर्वतवना सस्वर्गा कम्पते च भूः ।
स केन पातितो मह्यां न जाने कालपर्ययम्

2.61.65.19

दैवं हि बलवल्लोके पौरुषं तु निरर्थकम् ।
भूषणं मम वंशस्य लोकस्य च गतं क्व नु

2.61.65.2.62.20

लोकस्यापि च यः कालः पंचास्योऽरिगजस्य यः ।
स कथं त्वं द्विधाभूतो वाताहत इव द्रुमः

2.61.65.21

प्रतापसविता राजंस्तूलदाहहुताशनः ।
क उवाच ।
एवं नानाविधं शोकं रौद्रकेतुच्छ शारदा

2.61.65.22

कृत्वा मूर्धानमादाय देवान्तकमगच्छताम् ।
भद्रासनात्समुत्थाय त्वरया तौ तथाविधौ

2.61.65.23

दृष्ट्वा कण्ठं समालिंग्य रुरोदावरजं तदा ।
तत्परीवारभूता ये दैत्याः कालयमोपमाः

2.61.65.24

रुरुदुः सुस्वरं तत्र दृष्ट्वा नारान्तकं शिरः ।
मातुर्हस्ताच्छिरो गृहय तत्स्वे हृदि निधाय च

2.61.65.25

चक्रन्द कुररीवासौ भ्रातृस्नेहेन दुःखितः ।
देवान्तक उवाच ।
समं भुक्तं समं पीतं क्रीडितं सुप्तमुत्थितम्

2.61.65.26

समं तप्तं समं जप्तं क्व गतोऽसि विहाय माम् ।
यस्य ते दर्शनान्मर्त्याः सुरा यान्ति दिशो दश

2.61.65.27

स कथं निहतः केन दुष्टेन च बलीयसा ।
रसा रसातलं चैव तवैव च निवेदितम्

2.61.65.28

विहाय मां कथं स्वर्गं गतोऽसि भ्रातृवत्सल !
यस्य ज्याघोषमाकर्ण्य कम्पते स्म चराचरम्

2.61.65.29

असंख्याता नृपा यस्य साम्ने द्वारगता बभुः ।
स कथं पितरौ हित्वा गतश्च सुन्दरां स्त्रियम्

2.61.65.2.62.30

एवं तत्क्रन्दनं श्रुत्वा वीरलोका समाययुः ।
हेतुभिर्वारयामासुर्बलाद्धृत्वा तु तत्करैः

2.61.65.31

जना ऊचुः ।
न वीराः परिशोचन्ति वीरे युद्धे हते नृप ।
निघ्नन्ति तं बलाद्गत्वा येनासौ निहतो भवेत्

2.61.65.32

मृत्युस्तु सर्वजन्तूनां सह देहेन जायते ।
सोऽद्य वर्षशतेनापि भविष्यति न संशयः

2.61.65.33

स्वस्य वान्यस्य वा राजस्तत्र का परिदेवना ।
श्रुत्वा वाक्यं तु लोकानां तदा देवान्तकोऽसुरः

2.61.65.34

सावधानमना भूत्वा पितरौ प्राह धर्मवित् ।
मा शोचतमहं यामि ग्रसितुं तं निजं रिपूम्

2.61.65.35

वदतं क्व निवासोऽस्य येन बन्धुहतो मम ।
तं हत्वा सुखमेष्यामि बन्धुं यास्यामि वा मृतः

2.61.65.36

मम भ्रूभंगमात्रेण कम्पते भुवनत्रयम् ।
मयि क्षुब्धे तु कस्त्राता लोकानां पितरौ यतः

2.61.65.37

क उवाच ।
श्रुत्वा देवान्तकवचः आश्वस्तौ तावुभौ तदा।
शोकसागरमग्नौ तावद्धतौ तेन वाक्यतः

2.61.65.38

ऊचतुः परमं वाक्यं ज्येष्ठपृष्टौ सविस्तरम् ।
काशिराजेति विख्यातो राजा परमधार्मिकः

2.61.65.39

वैवाहिको महोत्साहस्तद्गृहे समपद्यत ।
आकारिताः सर्वजनाः कश्यपस्यात्मजोऽपि च

2.61.65.2.62.40

स बाल एव बलवान्विनायक इति स्मृतः ।
तेन मार्गे हतो भ्राता धूम्राक्षो मम पुत्रक

2.61.65.41

तस्य प्रत्याम्नायकृते प्रेषिता वीरसंमताः ।
धावमाना ययुस्ते च सहस्रार्द्धं निशाचराः

2.61.65.42

सप्तवर्षेण ते सर्वे नाशिता मुनिसूनुना ।
तेषां प्रत्याम्नायकृते स्वयं यातो नरान्तकः

2.61.65.34

अनेकशस्त्रसंपन्नश्चतुरङगबलान्वितः ।
एकोऽपि नागतस्तस्मादकस्माद्ददृशे शिरः

2.61.65.44

शोकं कृत्वा तव पुर आनीतं तच्छिरोऽधुना।
क उवाच ।
इति तद्वाक्यमाकर्ण्य चकम्पे रक्तलोचनः

2.61.65.45

देवान्तकश्चोदतिष्ठद्ग्रसन्निव जगत्त्रयम् ।
उवाच गर्वमोहेन पितरं वेगवत्तरम्

2.61.65.46

कालं हनिष्येऽखिलघ्नं न्युब्जां पृथ्वीं विधाय च ।
करिष्ये क्रोधदृष्ट्यैव ब्रह्मांडं भस्मसात्क्षणात्

2.61.65.47

इत्युक्त्वा क्ष्वेडितं कृत्वा जगतीं कम्पयन्निव ।
देवाधिकारे ये दैत्यास्तान्सर्वानाजुहाव च

2.61.65.48

नत्वा तौ पितरौ वाक्यं प्रोचे देवान्तकस्तदा ।
इदानीं मुनिपुत्रं तमानयिष्यामि सत्वरम्

2.61.65.49

सहैव तेन दास्यामि मूर्ध्न्यस्य च धनंजयम् ।
एवमुक्त्वा बलात्सर्वे उड्डीय सहसा च ते

2.61.65.2.62.50

देवान्तकोऽप्यसंख्याता विहंगा इव शीघ्रगाः ।
काशिराजपुरीं प्राप्य वेष्टयेयुः समन्ततः

2.61.65.51

कोलाहलो महानासीद्रजसाच्छादिता दिशः ।
न प्रकाशो रवेरासीत्पौराश्च चुक्रुशुर्भृशम्

2.61.65.52

नरान्तके हते द्वित्रिदिवसा नैव यद्गताः।
तत्कथं पुनरायातः प्रलयोऽत्र जनापहः

2.61.65.53

कोऽयं प्रचण्डदेहेन दुष्प्रेक्ष्यो वै समागतः ।
क्षमः कालं कलयितुं भक्षितुं वा जगत्त्रयम्

2.61.65.54

दैत्यानां परिखा जाताः प्रेषिता दैत्यपुंगवाः ।
हतास्तेनाथ ते सर्वे गन्तुं मार्गो न विद्यते

2.61.65.55

एवं तदस्तु पौरेषु तावद्दूताः समागताः ।
काशिराजं कथयितुं देवान्तकसमागमम्

2.61.65.62

(२८११ )
इति श्रीगणेशपुराणे क्रीडाखण्डे नगरीनिरोधो नाम द्विषष्टितमोऽध्यायः

2.61.65.1

अध्याय ६३ प्रारंभ –
दूता ऊचुः ।
देवान्तको महारौद्रो रौद्रैर्दैत्यैः समावृतः ।
असंख्यैर्विविधैः कालभीतिदैर्व्योममस्तकः

2.61.65.2

वयं तद्दर्शनभ्रान्तः पलाय्य त्वामुपागताः ।
नगरी वेष्टिता राजन्यत्करिष्यसि तत्कुरु

2.61.65.3

क उवाच ।
श्रुत्वा दूतमुखाद्राजा वृत्तात्तं समकम्पत ।
अतिम्लानतया यातो बालकं स विनायकम्

2.61.65.4

क्रीडन्तं शिशुमध्ये तं वृत्तान्तं सर्वमब्रवीत्।
राजोवाच ।
परब्रह्मन्नमस्तेऽस्तु लीलामानुषविग्रह

2.61.65.5

चराचरगुरो नानालीलाकर नमोऽस्तु ते।
अनेकशो वयं त्रातास्त्वया बालस्वरूपिणा

2.61.65.6

इदानीमपि रक्षास्मानस्माद्देवान्तकात्प्रभो ।
क उवाच ।
एवं संप्रार्थितस्तेन काशिराजेन बालकः ।

2.61.65.7

देहं कृत्वा विशालं स सिंहारूढो धनुष्करः ।
सिद्धिबुद्धियुतो गर्जन्नादयन्गिरिकन्दराः

2.61.65.8

तेजसा लोपयन्सूर्यं वमन्नग्निकणान्मुखात् ।
बाणं खड्गं च परशुं धनुर्हस्ते विधारयत्

2.61.65.9

नभोमार्गेण नगराद्बहिर्यातो विनायकः ।
श्वेडितेन स दैत्यानां मनांसि परिकम्पयन्

2.61.65.2.63.10

ददर्श दुष्टसैन्यं तं देवान्तकममर्षणम् ।
असंख्यातास्तदा दैत्या बभ्रमुः शलभा इव

2.61.65.11

दृष्ट्वा नानाविधं सैन्यं सिद्धिं प्रोवाच विघ्नराट् ।
एकाकिना न साध्येयं सेना नाना विधीयताम्

2.61.65.12

स्वकीया साधितुं दैत्यं कुरु शीघ्रमिदं वचः ।
क उवाच ।
ततः सिद्धिर्नमस्कृत्वा परमात्मांघ्रिपंकजम्

2.61.65.13

देवान्तकं योधयितुं ययौ चाथ जगर्ज च ।
निनादैः सर्वजन्तूनां दैत्यानां भयदायिनी

2.61.65.14

चचाल शेषो द्यौश्चापि पर्वता वृक्षसंचयाः ।
तद्गर्जितमहारावैः प्रतिशद्वैरनेकशः

2.61.65.15

सस्मार चाष्टसिद्धीः सा ताश्च याता मुदान्विताः ।
अणिमा प्रथमं प्राप्ता गरिमा तदन्तरम्

2.61.65.16

महिमा लघिमा चापि संप्राप्ते तदन्तरम् ।
प्राप्तिश्चैव तु प्राकाम्यं वशित्वं च समाययौ

2.61.65.17

ईशित्वं तदनु प्राप्तं तासां सैन्यमभूदनु ।
गजाश्वरथपादान्तं नानायुधविराजितम्

2.61.65.18

वर्षाकाले यथा नद्यः सागरं यान्ति सर्वतः ।
तथा सैन्यं दश दिशो याति स्म युद्धलालसम्

2.61.65.19

असंख्यवाद्यनिर्घोषं वीरशद्वैर्नदद्भृशम् ।
कृतान्तसदृशान्वीरान्भूगोलप्राशनोत्सुकान्

2.61.65.2.63.20

दृष्ट्वा देवान्तकः स्वान्तं चिन्तयामास चेतसि ।
बालं क्षणेन षेष्यामीत्येवं युद्धाय चागतः

2.61.65.21

अकस्मादीदृशं सैन्यं कुत एतद्विनिर्गतम् ।
दृष्टं विचित्रसामर्थ्यं बालस्य मायया कृतम्

2.61.65.22

मरिष्ये मारयिष्ये वा जीवत्स्याज्यो यशो न हि ।
एवं वदति दैत्येन्द्रे सेनान्यः प्राब्रुवन्वचः

2.61.65.23

वयं योत्स्यामहे सैन्ये रक्ष पृष्टं जयो भवेत् ।
पीत्वा वाक्यामृतं तेषां हृष्टो देवान्तकोऽब्रवीत्

2.61.65.24

सम्यगुक्तं महावीरा यान्तु युद्धाय यामि च ।
जयोऽस्तु मम वाक्येन भवतां पुण्यकर्मणाम्

2.61.65.25

आशिषं परिगृह्यैव नमस्कृत्वा सुरान्तकम् ।
कर्दमो नाम दैत्योऽथ ययौ व्यूहं रथाकृतिम्

2.61.65.26

दीर्घदन्तो ययौ चक्रव्यूहं परमदुर्जयम् ।
गरिम्णा वीरमुख्यस्तु रचितं वीरमोहनम्

2.61.65.27

प्रथिम्णा पालितं व्यूहं तालजंघो ययौ मुदा।
महिम्ना रचितं व्यूहं यक्ष्मनामा समाययौ

2.61.65.28

प्राप्त्या विरचितं व्यूहं ययौ घण्टासुरो महान् ।
प्राकाम्यरचितं व्यूहं रक्तकेशो बलान्वितम्

2.61.65.29

कालान्तको ययौ व्यूहं वशितारचितं परम् ।
ईशितारचितं व्यूहं दुर्जयोऽभिययौ बली

2.61.65.2.63.30

एतेषां वचसाऽशक्यं वक्तुं सामर्थ्यमंजसा ।
अष्टौ व्यूहानयुध्यन्त दैत्या अष्टौ महाबलाः

2.61.65.31

परस्परं विनिघ्नन्तः परान्परमदुर्जयान् ।
शरधारा विमुंचन्तो जलधारा यथा घनाः

2.61.65.32

चिच्छिदुरुत्तमांगानि शस्त्रैर्नाविधैर्भटाः ।
निहतैश्च तदा वौरैर्गजैरश्वैर्वसुन्धरा

2.61.65.33

ऊरुभिर्जानुभिर्हस्तैश्छिन्नैरासीत्सुदुर्गमा ।
खेटानि पुरतः कृत्वा जघ्नुः पादांश्च केचन

2.61.65.34

उड्डीय गिरिवत्केचित्पेतुर्वीरेषु चूर्णितुम् ।
रजोऽन्धकारे नाज्ञासीत्स्वीयः स्वीयं परस्परम्

2.61.65.35

ततो निपेतुः सहसा दैत्या देवहता भुवि ।
देवा हताश्च दैत्याश्च कुर्वते भैरवान्रवान्

2.61.65.36

कबन्धा युयुधुस्तत्र मुमुदुश्चाप्सरोगणाः ।
शुशुभुः शस्त्रसंघातैः पुष्पिताः किंशुका यथा

2.61.65.37

शुक्रस्तत्र मृतान्दैत्यानुज्जीवयति विद्यया।
अष्टौ व्यूहा ययुश्चिन्तां मृतशेषा बलान्विताः

2.61.65.38

ईशितायै ततः प्रोचुः सर्वे ते शुक्रचेष्टितम् ।
तस्याः क्रोधवशादेका कृत्या स्यान्निर्गता पुरः

2.61.65.39

कटाक्षेण तयाज्ञप्ता भार्गवं तु निजे भगे।
कृत्वा तदाऽन्तर्दधे सा पश्चात्तत्याज बर्बरे

2.61.65.2.63.40

तेन बर्बरदेशीयं यं तं वदन्ति मनीषिणः ।
ततो मुमुदिरे देवा युयुधुश्च बलान्विताः

2.61.65.41

निहन्यमाना दैतेयाः पलायनपरा ययुः ।
केचिच्च शरणं प्राप्ता रक्ष रक्षेति चापरे

2.61.65.42

प्रत्यूचुर्देवगन्धर्वानणिमादिकृतांस्तदा ।
कदा विजयिनो दैत्याः कदाचिद्देवतागणाः

2.61.65.43

अभवन्युद्ध निरताः परस्परजयैषिणः ।
द्वन्द्वयुद्धमभूद्घोरं तस्मिन्नुपरते युधि

2.61.65.63

(२८५४)
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शुक्रत्यागो नाम त्रिषष्टितमोऽध्यायः

2.61.65.1

क उवाच ।
कालान्तकेन दैत्येन प्राकाम्येन परस्परम् ।
कालान्तको विजयेते प्राकाम्यं यावदेव हि

2.61.65.2

तावत्साहाय्यमकरोद्वशित्वं वेगवत्तरम् ।
तत्याज गिरिशृंगं तन्मस्तके हस्तलाघवात्

2.61.65.3

तेन कालान्तको भूमौ सहसा निपपात ह ।
रुधिराक्तं द्विधाभूतं दृष्ट्वा कालान्तकं तदा

2.61.65.4

हाहाकारो महानासीद्दैत्यसेनाचरेश्वथ ।
मुसलो नाम दैत्येशो भल्लश्चैवापरोऽसुरः

2.61.65.5

महिमा चैव चत्वारो ययुर्युद्धाय सादराः ।
प्राकाम्येन युयुधिरेऽनेकशस्त्रप्रहारिणः

2.61.65.6

असंख्याता हता देवाः पतिता भग्नवृक्षवत् ।
असृग्जलप्रवाहिन्य आसन्नद्यः सहस्रशः

2.61.65.7

ईशिता च वशित्वं च विभूतिश्च ययुस्ततः ।
साहाय्यं चक्रिरे तस्य प्राकाम्यस्य तदा युधि

2.61.65.8

चत्वारः पर्वतास्ताभिश्चतुर्ष्वपि निपातिताः ।
तैश्च ते चूणिताः सर्वे गताः स्वर्गं सुदुर्लभम्

2.61.65.9

अणिमा तु शिखां धृत्वा कर्दमस्य रणे बलात् ।
अपाटि सहसा भूमौ शतधा स व्यशीर्यत

2.61.65.2.64.10

अस्रवद्रुधिरं वक्त्राल्लुठन्प्राणां जहौ तदा।
महिमा लघिमा चैव गरिमा वृक्षसंचयान्

2.61.65.11

यक्ष्मासुरे तालजंघे दीर्घदन्ते न्यपातयन् ।
ततो घण्टासुरो रक्तकेशो दैत्योऽथ दुर्जयः

2.61.65.12

आययुः सर्वसैन्यानि निश्वसन्तो महाबलाः ।
तैराहतं बलं दृष्टवा वशितासिद्धिबुद्धयः

2.61.65.13

मुष्टिघातैर्निजघ्नुस्ता भालदेशे दृढं तदा ।
तेऽपि भूमौ निपतिताः शतधा चूर्णितास्तदा

2.61.65.14

ततो जगर्जुः सर्वास्ता जयं लब्धा स्वशक्तितः ।
विनायको विजयते सर्वास्ता एवमूचिरे

2.61.65.15

अन्ये क्षुद्रतरा दैत्यास्तेऽपि ताभिर्विनाशिताः।
पुनः सर्वे दैत्यसिंहाः सिद्धिसेनां व्यनाशयन्

2.61.65.16

कोलाहलो महानासीत्सेनयोरुभयोरपि ।
हन्तु निघ्नन्तु बध्नन्तु सावधाना भवन्त्विति

2.61.65.17

प्रादुरासीत्ततश्चाग्निः शस्त्रसंघदृसंभवः ।
भग्ने शस्त्रे मल्लयुद्धं चक्रुर्वीरा रुषान्विताः

2.61.65.18

पुनश्चानियतं युद्धं परस्परविनाशनम् ।
अभवत्तुमुलं सूर्यस्ततश्चास्तमयं गतः

2.61.65.19

अन्धकारेण महता दिशो व्याप्ताः समन्ततः ।
ततो दिव्यौषधीर्गृह्य निजघ्नुस्ते परस्परम्

2.61.65.2.64.20

अहोरात्रत्रयं घोरं युद्धमासीन्निरन्तरम् ।
असृङ्नद्यो दशदिशो याता वीरवहास्तदा

2.61.65.21

खेटकूर्माः खड्गझषाः शिरःकमलशोभिताः ।
गजग्राहाः प्रेतकाष्टाः केशशैवलराजिताः

2.61.65.22

भीरुभीतिकरा वीरमहाहर्षविवर्द्धनाः ।
ततो जयत्सु देवेषु सर्वदा बलशालिषु

2.61.65.23

देवान्तको ययौ चिन्तां तर्कयामास चेतसि ।
येन सर्वे देवगणा जितास्ते स्वप्रभावतः

2.61.65.24

क्वेयं तत्र बालमाया सामान्या जनमोहिनी ।
अष्टसिद्धी: सर्वसैन्यमिदानीं नाशयाम्यहम्

2.61.65.25

धृत्वा विनायकं बालं गमिष्यामि स्वमालयम् ।
एवमुक्त्वा खड्गपाणिः स्वनेनापूरयन्दिशः

2.61.65.26

आययौ परसैन्यानि निघ्नं खड्गेन सर्वशः ।
भयेन मूर्छिता देवा निपेतुर्धरणीतले

2.61.65.27

स्मृत्वा विनायकं देवं जहुः प्राणांस्तु केचन ।
असृङ्नदीवहाः केचित्कचित्स्वर्गं गताः सुराः

2.61.65.28

केचिद्दैत्यं विलोक्यैव जहुर्जीवितमात्मनः ।
ततो भग्ना देवसेना पपाल च दिशो दश

2.61.65.29

सोऽपि दैत्यः खड्गपाणिर्निघ्नन्पृष्ठे जघान ताम् ।
गरिमा तन्निरीक्ष्याथ पर्वतं वृक्षसङकुलम्

2.61.65.2.64.30

तत्याज दैत्याहे स खडगेन शतधाऽच्छिनत् ।
ततोऽष्टसिद्धयः क्षुब्धास्तत्यजुः पर्वतान्बहून्

2.61.65.31

चिच्छेद त्वरया तान्स खड्गाघातेन लाघवात् ।
उड्डीय महिमा तस्य स्कन्धे स्थित्वा तमाददे

2.61.65.32

खड्गं दैत्यकराच्छीघ्रमन्तर्धानं ययौ तदा ।
बलाच्चिक्षेप तं खड्गं तस्य दैत्यस्य मस्तके

2.61.65.33

स एव शतधा जातो न तु मूर्द्धां तदद्भुतम् ।
शरवृष्टिं तदा दैत्यो भग्नपृष्ठश्चकार ह

2.61.65.34

एकैकस्यां दशदशपंचसप्तशरानसौ ।
क्षिप्त्वा व्याकुलयांचक्रे ततस्ता भुवि पेतिरे

2.61.65.35

ततो देवा युयुधिरे पतितास्वष्टसिद्धिषु ।
मुहूर्तात्सावधानास्ता ययुर्देवं विनायकम्

2.61.65.36

तमुदन्तं परिज्ञाय बुद्धि प्रोचे विनायकम् ।
कथं विचारस्तस्य स्याद्यत्र बुद्धिर्न दृश्यते

2.61.65.37

पराजिताः सिद्धयस्ते देह्यनुज्ञां व्रजाम्यहम् ।
योद्धुं दैत्येन तेनाथ पौरुषं चास्य लक्षये

2.61.65.64

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते चतुःषष्टितमोऽध्यायः

2.61.65.1

(२८९१)
क उवाच ।
श्रुत्वा बुद्धिवचो देवो हर्षं प्राप्य जगाद ताम् ।
देव उवाच ।
गच्छ युध्यस्व दैत्येन जहि तं यश आप्नुहि

2.61.65.2

एवमुक्त्वा सुवासांसि ददौ तस्यै विनायकः ।
सा च नत्वा तदा देवं ययौ दैत्यं रणं प्रति

2.61.65.3

तस्याः क्ष्वेडितशब्देन कम्पितं भुवनत्रयम् ।
वदनान्निर्ययौ तस्या एका शक्तिर्गरीयसी

2.61.65.4

जटिला विकृतास्या च जगद्भक्षणलालसा ।
विशालाभ्यां तु नेत्राभ्यां त्यजन्ती ज्वालसंचयान्

2.61.65.5

दहन्ती दैत्यसेनां सा ययौ सा च पपाल ह ।
दर्शने पतिता दैत्यास्तस्याः केचिद्गतासवः

2.61.65.6

अन्ये त्वतर्कयन्क्वाद्य गन्तव्यं क्व सुखं भवेत् ।
केचिदाहुर्धाव धाव देवान्तक मृता वयम्

2.61.65.7

एवं कोलाहलं श्रुत्वा ययौ देवान्तकः पुरः ।
सज्यं कृत्वा धनुः शीघ्रं शरानाशीविषोपमान्

2.61.65.8

ससर्ज तस्या गात्रेषु दर्शयन्पाणिलाघवम् ।
आच्छाद्य भानुं तन्मूर्ध्नां बाणजालैस्तथाविधैः

2.61.65.9

सा प्रसार्य महद्वक्त्रं बिसवद्गिलते शरान् ।
तूणीरास्तस्य दैत्यस्य सर्वे रिक्तास्तदाऽभवन्

2.61.65.2.65.10

न तस्यास्तृप्तिरभवद्राक्षसस्येव मानुषैः ।
देवान्तकं क्षीणशक्तिं दृष्ट्वा सा सैन्यमाययौ

2.61.65.11

भक्षयामास तान्दैत्यान्कां श्चिद्धस्तादपातयत् ।
कांश्चिद्गले विनिक्षिप्य चूर्णयामास चापरान्

2.61.65.12

असंख्यकोटीर्दैत्यानां भक्षिताश्चूर्णिता हताः ।
चूर्णयन्ती पदाघातैः कांश्चिद्देवान्तकं ययौ

2.61.65.13

तमुवाच तदा सा तु विश मे भगगह्वरम् ।
यत्र ते शेरते दैत्या मातुर्गर्भं गता इव

2.61.65.14

ये भक्षिता मृतास्ते मे जठरे जीर्णतां गताः ।
तद्भित्या स पपालाशु मूत्रविड्गन्धविह्वलः

2.61.65.15

यत्र यत्र प्रलीनोऽभूत्तत्र तत्रापि सा ययौ ।
बभ्राम स्वर्गलोकान्स पातालानि दिशो दश

2.61.65.16

ततः शिखां समाक्रम्य धृत्वा तं प्राक्षिपद्भगे ।
तया सह ततो बुद्धिर्विनायकमुपाययौ

2.61.65.17

ननाम तां पुरस्कृत्य मदघूर्णितलोचनाम् ।
पातयन्तीमुभयतः स्तनाघाताद्वनस्पतीन्

2.61.65.18

शरधाराश्च घनवत्स्रवन्ती मन्दगामिनी ।
निराकरोत्करालां तां दृष्ट्वा देवो विनायकः

2.61.65.19

निराकृतायां तस्यां तद्भगाद्दैत्योऽपतद्भुवि ।
सोऽपि दुर्गन्धिरित्येव दूतैः संत्याजितो बहिः

2.61.65.2.65.20

स तु संज्ञां समासाद्य स्नात्वा तूष्णीं गृहं ययौ ।
व्रीडितोऽधोमुखश्चिन्तां यातो म्लानोऽसिदुःखितः

2.61.65.21

बुद्ध्या निवेदिता सा तु ननाम तं विनायकम् ।
तां दृष्ट्वा जहसुर्बिभ्युर्मम्लुः पेतुश्च केचन

2.61.65.22

तता सैनं जगादाशु भक्षिता दैत्यवाहिनी ।
सोऽपि देवान्तकः पायौ निक्षिप्य स्थापितो भया

2.61.65.23

इदानीं वसतिस्थानं देहि देव दयानिधे ।
देव उवाच ।
वञ्चयित्वा गतो दैत्यो गृहं स्वं दैत्यनाशिनि

2.61.65.24

तवापि पौरुषं ज्ञातं शक्रादिभ्योऽधिकं मया ।
विश वक्त्रं ममैव त्वं विश्रान्तिं तत्र गच्छ च

2.61.65.25

अहं तं साधयिष्यामि मा चिन्तां कर्तुमर्हसि ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं दृष्ट्वा वक्त्रं विवेश सा

2.61.65.26

सुष्वाप परमप्रीता मातुरङ्के यथाऽर्भकः ।
उदरे देवदेवस्य सर्वलोकनिवासिनि

2.61.65.65

(२९१७)
इति श्रीगणेशपुराणे क्रीडाखंडे बुद्धिविजयो नाम पंचषष्टितमोऽध्यायः

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc