भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 2.51.55

2.51.55.1

अध्याय ५१ प्रारंभ :-
व्यास उवाच ।
कथमाराधितस्तेन काशीराजेन विघ्नराट् ।
कथं च चर्मदेहेन गतः स्थानमनुत्तमम्

2.51.55.2

एतन्मे शंस भगवञ्शृण्वंस्तृप्यामि न क्वचित् ।
क उवाच ।
सम्यक्शृणु महाबुद्धे कथां पापप्रणाशिनीम्

2.51.55.3

कथयामि महाबुद्धे इतिहासं पुरातनम् ।
यथा निर्वासनो भूपः स्वानन्दभवनं गतः

2.51.55.4

महिमानं परिज्ञाय मुद्गलाज्ज्ञानसागरात् ।
कायेन मनसा वाचा गणेशे भक्तिमानभूत्

2.51.55.5

गोदानानि महाभक्त्या गजादानान्यनेकशः ।
रथाश्वगृहधान्यानि दश दानान्यजानपि

2.51.55.6

विनायकप्रीतये स ददात्येव दिने दिने ।
मिष्टान्नभोजनैर्विप्रांस्तोषयित्वा धनादिभिः

2.51.55.7

गणेशदृढभक्तिं स याचते स्म दिने दिने ।
माघशुक्लचतुर्थ्यां स भौमवारे शुभे दिने

2.51.55.8

स्नानं चक्रे उषःकाले सन्ध्यां नित्यविधिं तथा ।
भूषयित्वा तथात्मानं नानालंकरणांशुकैः

2.51.55.9

आकायं सकलांल्लोकान्ब्राह्मणान्सुहृदोऽपरान् ।
पूजयामास विविधै रत्नरंशुकसंचयैः

2.51.55.2.51.10

वारंवारं पश्यति स्म विमानागमनं नृपः ।
सभातो गन्तुकामांस्तान्निषेधति मुहुर्मुहः

2.51.55.11

ततो विनायको ज्ञात्वा कालं तस्य महात्मनः ।
प्रेषयामास दूताभ्यां विमानं द्युतिमत्तरम्

2.51.55.12

गणेश उवाच ।
प्रमोदामोद गत्वा तु काशीराजं धरातले ।
मद्भक्तमत्रानय ते विमानवरमास्थितम्

2.51.55.13

क उवाच ।
तदाज्ञां प्राप्य तं नत्वा दिवो लोकादुभौ तदा ।
दिव्यं विमानमादाय काशीराजं समीयतुः

2.51.55.14

तत्तेजोधर्षिता लोका मेनिरे प्रलयानलम् ।
केचिच्च मेनिरे व्यभ्रे विद्युत्पातमिवागतम्

2.51.55.15

तर्कयामासुरपरे पतन्तं रविमण्डलम् ।
घण्टानां चैव तूर्याणां गन्धर्वाप्सरसां स्वनम्

2.51.55.16

श्रुत्वाऽन्ये जज्ञिरे यानं गणेशकृपयागतम् ।
अङ्गणे काशिराजस्य समुत्तीर्णं श्रिया लसत्

2.51.55.17

आगतौ राजनिकटे प्रमोदामोदसंज्ञकौ ।
गणौ दिव्याम्बरधरौ दिव्यभूषाविराजितौ

2.51.55.18

दिव्यमाल्यानुलेपाद्यैर्दिव्यदीप्त्या स्मराविव ।
विनायकस्वरूपौ तौ नत्वा राजा निजासने

2.51.55.19

उपविश्य प्रपूज्याशु यावत्पृच्छति तौ नृपः ।
तावत्तावूचतुर्दूतौ सर्वलोकेऽथ ...

2.51.55.2.51.20

शृणु राजन्प्रवक्ष्यामि वाक्यं वैनायकं शुभम् ।
न भक्तस्त्रिषु लोकेषु त्वत्तः प्रतीकरो नृपः।
त्वां ध्यायंति दिवारात्रं शृण्वति शृण्वति त्वद्गुणान्वदतेऽनिशम्

2.51.55.21

धन्योऽसि जन्मसाफल्यं कृतं पुण्यवता त्वया ।
त्वद्दर्शनात्क्षिप्रतरं नष्टं पापं तमो महत्

2.51.55.22

न जानीवस्तपः किं ते कृतं जन्मान्तरेषु च।
परब्रह्मस्वरूपोऽयं बालरूपी विनायकः

2.51.55.23

भवतां गृहमागत्य नानालीला अदर्शयत् ।
देवस्य देवभक्तस्य महिमा नैव गोचरः

2.51.55.24

यतो विनायको देवस्त्वां चिन्तयति सर्वदा ।
त्वदर्थं प्रेषितं यानं दिव्यं वैभवसंयुतम्

2.51.55.25

न यावो दिव्यलोकं त्वां तदाज्ञावशवर्तिनौ ।
शीघ्रमानयतां काशीराजमित्याह नौ विभुः

2.51.55.26

शृण्वत्सु सर्वलोकेषु शुश्राव स वचस्तयोः ।
अमृताब्धौ निमग्नोऽभूदानन्दाश्रु सृजन्मुहुः

2.51.55.27

देहावस्थां पुनर्लब्ध्वा प्रणम्य तौ उवाच सः ।
धन्यं जन्म च पितरौ निष्ठा भक्तिश्च सम्पदा

2.51.55.28

यद्दुर्लभो मया दृष्टौ चरणौ वां शुभावहौ ।
विनायकस्वरूपेण प्राप्तौ नेतुं परं स्थलम्

2.51.55.29

इक्षुसागरमध्यस्थं दुर्दर्शं चर्मचक्षुषाम् ।
यन्निर्गुणं चिदानन्दं परं ब्रह्म सनातनम्

2.51.55.2.51.30

विश्वोत्पत्तिस्थितिलयहेतुभूतमगोचरम् ।
यदणुभ्योऽप्यणुतरं स्थूलात्स्थूलतरं च यत्

2.51.55.31

सर्वत्रगमसक्तं च साकारं गुणभोक्तृ च ।
नानारूपमरूपं च भूभारहरणोद्यतम्

2.51.55.32

तेन मे रङकभूतस्य कृपेयं महती कृता।
इत्युक्त्वा स नमस्कृत्य सर्वानालिंग्य प्रेक्ष्य च

2.51.55.33

दूतावूचे त्वारुहतं प्रणिपातपुरः सरम् ।
पश्चादहं समारोक्ष्ये विमानं मर्त्यदुर्लभम्

2.51.55.34

अमात्याभ्यां नमस्कृत्य पुत्रं दत्वा तयोः करे।
प्रजानां पालनं कार्यं धर्मेण च बलेन च

2.51.55.35

मुद्गलेन च तत्प्रोक्तमनुभूतमिदं मया ।
इत्युक्त्वा चर्मदेहेन रुरोह यानमुत्तमम्

2.51.55.36

अधिष्ठितं तु दूताभ्यां पूजिताभ्यामनेकधा ।
आरुढस्य च तत्रास्य देहोऽभूद्रविसन्निभः

2.51.55.37

दिव्यैर्गन्धैरलंकारैस्ताभ्यां संपूजितोंऽशुकैः ।
गतौ तौ वायुवेगेन दर्शयन्तौ च तौ नृपम्

2.51.55.38

भूतप्रेतपिशाचानां लोकं दुष्कृतकर्मणाम् ।
यत्र ते विकृताकारा ऊर्ध्वपादा अधोमुखाः

2.51.55.39

पृष्ठभागमुखाः केचिन्मस्तकाक्षास्तथाऽपरे ।
हृदि नेत्राः पृष्ठनेत्राः सूक्ष्मकण्ठा महोदराः

2.51.55.2.51.40

यथा रश्मौ जालगते भ्रमन्ति परमाणवः ।
तथा भ्रमन्ति गगनेऽनेकरूपाः सुदुःखिनः

2.51.55.41

कोऽयं लोको दूतवरौ ब्रूतं म इति सोऽब्रवीत्

2.51.55.51

(२२३६)
इति श्रीगणेशपुराणे क्रीडाखण्डे एकपंचाशत्तमोऽध्यायः

2.51.55.1

अध्याय ५२ प्रारंभ :-
दूतावूचतुः ।
प्रेतभूतपिशाचानां लोकोऽयं राजसत्तम ।
निन्दापैशून्यतास्तेयकृतो यान्त्यत्र भूपते

2.51.55.2

ततोऽग्रे पश्यति स्मासौ लोकावसुररक्षसाम् ।
यत्र ते विविधाकारा ऊर्ध्वकेशा भयानकाः

2.51.55.3

घोरास्याश्च ललज्जिह्वा मेघनादाधरोपमाः।
अग्निकुण्डनिभांस्तान्स दृष्ट्वा पप्रच्छ तौ पुनः

2.51.55.4

केषामिदं पुरं दूतौ गदतं मेऽनुपच्छतः ।
तावूचतुरयं लोको दुष्टदानवरक्षसाम्

2.51.55.5

श्रौतस्मार्तक्रियाहीना अत्र तिष्ठन्ति पापिनः ।
तदग्रे स ददर्शाथ लोकं गन्धर्वसेवितम्

2.51.55.6

रौप्यस्वर्गगृहा यत्र रत्नकांचनभूमयः ।
नरनार्यः कामरत्यो नृत्यगानविशारदाः

2.51.55.7

अतिसौख्यकरं तं स दृष्ट्वा पप्रच्छ तौ पुनः।
केषामिदं पुरं दूतौ गदतं मेऽनुपृच्छतः

2.51.55.8

तावूचतुः ।
गन्धर्वनगरं चेदं देवस्थानेषु गायकाः।
प्राप्नुवन्ति महापुण्यादिदं पुरमनुत्तमम्

2.51.55.9

सिद्धचारणयक्षाणां गुह्यकानां पुरं महत् ।
नानाव्रतैस्तथा दानैर्गम्यं पुण्यसमुच्चचैः

2.51.55.2.52.10

दूतौ च तौ नृपं पश्चाद्दर्शयेतां गरीयसीम्।
इन्द्रस्य नगरीं रम्यामश्वमेधशतार्जिताम्

2.51.55.11

सुवर्णरत्नगोदानरथाश्वगजदानतः।
गम्यां तीर्थाभिषेकाद्यैः पुण्यैर्नानाविधैरपि

2.51.55.12

यत्रेन्द्रभवनं रम्यं दर्शयेतामुभौ नृपम् ।
नृपो निरीक्ष्य तौ प्रोचे यच्छ्रुतं दृष्टमेव तत्

2.51.55.13

अग्निलोकं ततोऽग्रे तौ दर्शयेतां नृपं शुभम् ।
यत्राग्निहोत्रिणो वह्नितेजसो भान्त्यनेकशः

2.51.55.14

ततोऽग्रे दर्शयेतां तौ यमलोकं शुभाशुभम् ।
यत्र पुण्यकृतो यान्ति तथा पापकृतोऽपि च

2.51.55.15

स धर्मः सुकृतां भाति क्रूरो दुष्कृतकर्मणाम् ।
सुकृतः सर्वभोगांस्तु दुष्कृतो नरकानपि

2.51.55.16

भुंजते प्राणिनः स्वस्वकर्मभोगाननेकशः ।
कुम्भीपाके च पच्यन्ते छिद्यन्ते चासिपत्रकैः

2.51.55.17

अयोघनेन ताड्यन्ते कृत्यन्ते कण्टकैरपि ।
तामिस्रं चान्धतामिस्रे कृमिकुण्डे सपूयके

2.51.55.18

पात्यन्ते नरके घोरे दुष्कृतः प्राणिनः स तान् ।
निरीक्ष्यामीलयन्नेत्रे यातं यातमिति ब्रुवन्

2.51.55.19

ततोऽग्रे दर्शयेतां तौ कौबेरं लोकमुत्तमम् ।
अत्याश्चर्यकरं शक्रलोकादतिवरं परम्

2.51.55.2.52.20

रत्नकांचनयुक्तानि गृहाणि दीप्तिमन्ति च ।
रत्नकांचनदानेन तुलादानैश्च कोटिशः

2.51.55.21

प्राप्नुवन्ति महाभागाः कौबेरं लोकमुत्तमम् ।
ततोऽग्रे दर्शयेतां तौ वारुणं लोकमुत्तमम्

2.51.55.22

तीर्थान्न दानतो लभ्यं कुबेरभवनातिगम् ।
अप्सु सर्वे शुष्कदेहा वसन्ति सुखभोगिनः

2.51.55.23

वापीकूपतडागानां दृश्यन्ते जलदायिनः ।
ततोऽग्रे दर्शयेतां तौ वायुलोकं सुखावहम्

2.51.55.24

ददते व्यजनं ग्रीष्मे सौशीरं कर्पुरं जलम् ।
वसन्ति वायुलोके ते स्वेच्छानातिविहारिणः

2.51.55.25

ततोऽग्रे दर्शयेतां तौ सूर्यलोकं दुरासदम् ।
पंचाग्निसाधनरताः सूर्यभक्तिपरायणाः

2.51.55.26

अवाप्तकामा मुनयः सर्वे ते सूर्यवर्चसः ।
निवसन्ति निराबाधा ब्रह्मकल्पशतं नराः

2.51.55.27

नाक्षत्रं चन्द्रलोकं च दर्शयेतां नृपं ततः ।
मुक्ताफलसुवर्णानां दानेन सोमयागतः

2.51.55.28

प्राप्नुवन्ति महात्मानो लोकमेनं सुपुण्यतः ।
गोलोकं च ततोऽग्रे तौ दर्शयेतां नृपं तदा

2.51.55.29

गोसहस्राणि ये दद्युर्ब्राह्मणेभ्यो यथाविधि ।
रोमसंख्यैस्तु कल्पैस्ते गोलोके निवसन्ति हि

2.51.55.2.52.30

सत्यलोकं ततोऽग्रे तौ दर्शयेतां चिरन्तनम् ।
सत्यव्रता वेदविदो वेदाध्ययनतत्पराः

2.51.55.31

सदाचाराः शास्त्रविदः पुराणपाठकाश्च ये।
अन्नदानरता यज्ञकर्तारस्तीर्थसेविनः

2.51.55.32

अप्रतिग्राहका विप्राः परोपकृतिकारिणः ।
तपस्विनो दानपराः सत्यलोकं व्रजन्ति ते

2.51.55.33

गव्यूत्यष्टसहस्रेण विस्तीर्णं तावदायतम् ।
यत्र ब्रह्मा मुनिगणैर्गणै राजर्षिणां परैः

2.51.55.34

देवर्षीणां दानवानां गन्धर्वाप्सरसां तथा ।
स्तूयमानो दिवारात्रं सेव्यते भक्तितत्परैः

2.51.55.35

यत्रेन्द्र भवनामानि गृह्याणि परिता लसन् ।
तं दृष्टवा नृपतिर्लोकं विस्मितः प्राह तौ तदा

2.51.55.36

नृप उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि गणेशेन कृपावता ।
भवद्भ्यां च यतो दृष्टाः स्वर्गलोकाः सुदुर्लभाः

2.51.55.37

क उवाच।
तं पुनर्दर्शयेतां तौ वैकुण्ठं विश्रुतं त्रिषु ।
लोकेषु तत्र गच्छन्ति वैष्णवा भक्तितत्पराः

2.51.55.38

सर्वलोकेषु श्रेष्ठं तं नोपमा यस्य विद्यते ।
शेपो न वर्णने शक्तोऽनेकवक्त्रो न चात्मभूः

2.51.55.39

उर्जंस्नायी झषस्नायी मेषस्नायी तिलान्नदः ।
गोदो गीताध्ययनवान्प्राणिनां चोपकृच्च यः

2.51.55.2.52.40

विष्णुलोकं व्रजत्याशु सहस्र पंचयोजनम् ।
सूर्यचन्द्रप्रकाशानि विश्वकर्मकृतानि च

2.51.55.41

मन्दिराणि प्रभासन्ति रत्नकांचन राजतैः ।
येषु ना प्रविशत्येव तमोरत्नमरीचिभिः

2.51.55.42

परिवारयुतो लक्ष्म्या यत्र तिष्ठति दैत्यहा ।
जहर्ष नृपवर्योऽसौ दृष्ट्वा तत्पुण्यसंचयात्

2.51.55.43

ततोऽग्रे दर्शयेतां तौ कैलासं गिरिशालयम् ।
मेरोस्तु शिखरे रम्येऽयुतयोजनविस्तृते

2.51.55.44

रविचन्द्रप्रकाशानि हर्म्याणि यत्र भान्ति च ।
यत्र पंचाक्षरजपा रुद्राध्यायजपाश्च ये

2.51.55.45

अनेकसाधनरताः पुण्यवन्तो व्रजन्ति ह ।
तं दृष्टवा प्राह नृपतिर्विनायकप्रसादतः

2.51.55.46

दृष्ट्वा सर्वे देवलोकाः पुण्यदा दर्शनान्नृणाम् ।
ततोऽग्रेण रविश्चन्द्रः सहस्रयोजनावधि

2.51.55.47

विमानप्रभया याति न च पश्यन्ति किंचन ।
मेघनादनिभं शब्दं शुश्राव दुःसहं नृपः

2.51.55.48

गिरिवर्यप्रकाशानां भ्रमराणां समन्ततः ।
कस्य शब्दः श्रूयतेऽयमिति पप्रच्छ तौ नृपः

2.51.55.49

कदा द्रक्ष्यामि देवस्य पादपद्ममिति स्फुटम् ।
ददर्श पुरतो राजा शक्तिं भ्रामरिकां दृढाम्

2.51.55.2.52.50

अनेकादित्यसङकाशां ब्रह्माण्डग्राससाहसाम् ।
प्रसारितमुखां भीमां दृष्ट्वा मूर्छामियान्नृपः

2.51.55.51

आश्वास्य निन्यतुस्तं तु दूतावग्रे नृपं तदा ।
तत आधारशक्तिं स ततोऽप्यतिभयङकराम्

2.51.55.52

दृष्टवा चकम्पे नृपतिर्भ्रामरीमस्तके स्थिताम् ।
करालकेशां लम्बोष्ठीं दीर्घजिह्वां प्रभायुताम्

2.51.55.53

आश्वासितो व्रजन्नग्रे सोऽपश्यत्कामदायिनीम् ।
आधारशक्तिं संविष्टां योजनायुतविस्तृताम्

2.51.55.54

भ्रमन्ति पर्वता यस्याः श्वासवायुविवर्तनात् ।
वज्रातिनिष्ठुरैर्देहैर्यस्यास्तिष्ठति सा पुरी

2.51.55.55

वदतः स्म नृपं दूतौ पश्य स्वानन्दपत्तनम् ।
यद्ध्यानपरितृप्तोऽसि कोटिसूर्यनिभं शुभम्

2.51.55.56

रत्नकांचनसंभिन्ना भाति यत्र गृहाः परे ।
मुक्तारजतसूर्याश्मनिमिताश्च सहस्रशः

2.51.55.57

नीलाश्मकुट्टिमा यत्र पुमांसो यत्र वह्निभाः ।
यत्र वापीकूपतडागा भान्ति च सरांसि च

2.51.55.58

स्वच्छशीताम्बुनीलानि पीतरत्नतटानि च ।
यदम्बुपानान्न जरा न क्षुद्रोगो नृणां भवेत्

2.51.55.59

आक्रीडा विमला नानावृक्षवल्लीविराजिताः।
दिव्यौषध्यो दिवा सूर्यकोटिभा भान्ति यत्र च

2.51.55.2.52.60

चन्द्रपृष्ठे प्रपश्यन्ति कलंकरदिते मुखम् ।
विलासिनीजना यत्र सर्वदाऽधोगते निशि

2.51.55.61

यत्रपुष्पवनामोदः श्रमं हन्ति विहारिणाम् ।
इक्षुसागरतीरं तत्प्राप्योत्तेरुर्मुदा युताः

2.51.55.52

इति श्रीगणेशपुराणे क्रीडाखंडे द्विपञ्चाशत्तमोऽध्यायः

2.51.55.1

अध्याय ५३ प्रारंभ –
ब्रह्मोवाच ।
पपुरिक्षुरसं पुण्यनिचयैर्लभ्यमंजसा ।
तन्मध्ये पद्मिनी श्वेता सहस्रदलपद्मयुक्

2.51.55.2

सहस्रकिरणप्रख्यं तस्यां यत्पद्ममुत्तमम् ।
तन्मध्ये तस्य देवस्य पर्यंकोतिमनोहरः

2.51.55.3

दिव्यास्तरणसंपन्नो दिव्यधूपैः सुधूपितः।
दिव्यनानाकुसुमवान्स्वप्रभै रत्नसंचयैः

2.51.55.4

भासयन्प्रभया सर्वा दिशो विदिश एव च ।
व्यजनैर्वीज्यमानः स तत्र शेते विनायकः

2.51.55.5

कोटिचन्द्रनिभो नानालंकारो नागभूषणः ।
रम्भास्तम्भनिभं शुण्डादण्डं रदनसुन्दरम्

2.51.55.6

दधद्दिव्याम्बरच्छन्नो भालनेत्रः किरीटवान् ।
कुण्डले चांगदे मुद्रा कटिसूत्रं महाधनम्

2.51.55.7

सिद्धिबुद्धी सिद्धिहेतू पादौ सर्वहतोऽस्य ह।
अणिमागरिमाश्वेतचामरैर्वीजितः स्म ह

2.51.55.8

ज्वालिनी तेजिनी दीप्यमाने चोभयतः स्थिते ।
दिव्यगन्धेन लिप्तांगो दिव्यमालाविभूषितः

2.51.55.9

महिमा प्रथिमादाय स्थिते दृष्टिसमीपतः ।
जवं गण्डूषपात्रं च छत्रं कांचनरत्नयुक्

2.51.55.2.53.10

ततो दूतौ करे धृत्वा तं नृपं पुरतोऽस्न तु ।
ईक्षेते वागवसरं ततो देवोऽन्वबुध्यत

2.51.55.11

तौ दूतावूचतुर्देवमानीतोऽयं तवाज्ञया।
प्रणम्य च स्थितौ दूरं तदाज्ञापेक्षकावुभौ

2.51.55.12

तस्मिन्प्रबुद्धे राजा स प्रणनाम कृतांजलिः ।
उवाच परमप्रीत्या धन्यो वंशो ममाद्य ह

2.51.55.13

पितरौ जन्म विद्या च तपो दृष्टिः सुतादयः ।
येन मे दर्शितं ब्रह्म ध्येयं पदयुगं तव

2.51.55.14

न ब्रह्मलोके कैलासे शक्रलोकेऽपि वैभवः ।
एतादृशोऽदर्शि मया नान्यलोकेऽपि कश्चन

2.51.55.15

दूतावूच आस्यतां स ततस्तौ च निषेदतुः ।
तत्तोऽपश्यद्बालरूपं द्विभुजं स विनायकम्

2.51.55.16

येन तौ निहतौ दैत्यौ देवान्तकनरान्तकौ ।
अतिगौरं कोमलांगे हिमकर्पूरसन्निभम्

2.51.55.17

न शशाक तदा वक्तुं बाष्परुद्धमहागलः ।
आनन्दाश्रुनदी पूरैरासिंचस्तत्पदद्वयम्

2.51.55.18

विज्ञाय तन्महाभक्तिमुत्थाप्यालिंग्य विघ्नराट् ।
मूर्ध्न्याघ्रातश्च पितृवद्बहुकालगतः सुतः

2.51.55.19

देवोऽपि बाष्पकण्ठोऽभूदुभौ रोमांचसंयतौ ।
उभौ सुखाब्धि संमग्नौ देहातीतौ यथा मुनी

2.51.55.2.53.20

उवाच वचनं पश्चाद्बालरूपी विनायकः ।
त्वद्गृहेऽनेकधा तात क्रीडता यत्कृतं मया

2.51.55.21

तत्क्षान्तं हि त्वया सर्वं शुभं वा यदि वाऽशुभम् ।
निहता बहवो दैत्या धराभारश्च संहृतः

2.51.55.22

पालिताः साधुलोकाश्च स्थापिता धर्मसेतवः ।
तवाज्ञया पुनर्यातः कश्यपं सृष्टिकारकम्

2.51.55.23

प्रणम्य तं निजं लोकं प्राप्तोऽमुं सर्ववैभवम् ।
त्वामेव परिचिन्त्याहं विश्रान्तिं न लभे क्वचित

2.51.55.24

तवादिभावं ज्ञात्वाऽहं मुद्गलं मुनिपुंगवम् ।
अप्रेषयं तव गृहे तदनुग्रहतस्त्वया

2.51.55.25

प्राप्तं स्थानं मुद्गलेन भक्तेनेदं त्वयाऽपि च ।
यदगम्यं सदा देवैर्ब्रह्माद्यैर्मुनिपुंगवैः

2.51.55.26

क उवाच ।
पीत्वा वागमृतं तस्य नृपो नत्वा पुनःपुनः ।
उवाच धैर्यमालम्ब्य तुष्टाव च यथामति

2.51.55.27

नृप उवाच ।
नमामि ते नाथ पदारविन्दं ब्रह्मादिभिर्ध्येयतमं शिवाय ।
यत्पद्मपाशासिपरश्वधादिचिह्नितं विघ्नहरं निजानाम्

2.51.55.28

यदर्च्यते विष्णुशिवादिभिः सुरैरनेककार्यार्थकरैर्नरैश्च ।
अनेकशो विघ्नविनाशदक्षं संसारतप्तामृतवृष्टिकारि

2.51.55.29

नमामि ते नाथ मुखारविन्दं त्रिलोचनं वह्निरवीन्दुतारम् ।
कृपाकटाक्षामृतसेचनेन तापत्रयोन्मूलनदृष्टशक्ति

2.51.55.2.53.30

नमामि ते नाथ करारविन्दमनेकहेतिक्षतदैत्यसंघम् ।
अनेकभक्ताभयदं सुरेश संसारकूपोत्तरणावलम्बम्

2.51.55.31

त्वमेव सत्त्वात्मतया बिभर्षि सृजस्यजो राजसतामवाप्य ।
तमोगुणाधारतया च हंसि चराचरं ते वशगं गणेश

2.51.55.32

यः शुद्धचेता भजतेऽनिशं त्वामाक्रम्य विघ्ना परिधावसि त्वम् ।
स त्वां वशे कृत्य सुखं हि शेते वत्सं यथा गौरिव धावसि त्वम्

2.51.55.33

येऽन्ये भजन्तः समवाप्य तापान्संसारचक्रे बहुधा भ्रमन्तः ।
कदापि तेऽनुग्रहमाप्य तेऽपि भजन्ति मानुष्यमवाप्य तेऽपि

2.51.55.34

धरारजः कोऽपि मिमीत नाके तारा गणं वारिमुचां च धाराः ।
नालं गुणानां गणानां हि कर्तुं शेषो विधाता तव वर्षपूगैः

2.51.55.35

निराकृतेस्ते यदि नाकृतिः स्यादुपासनाकर्मविधिर्वृथा स्यात् ।
गुणप्रपंचः प्रकृतेर्विलासा जनस्य भोगश्च तथा कथम् स्यात्

2.51.55.36

सत्संगतिश्चेत्सदनुग्रहः स्यात्सकर्मनिष्ठा सदनुस्मृतिश्च ।
चित्तस्य शुद्धिर्महती कृपा ते ज्ञानं विमुक्तिश्च न दुर्लभा स्यात्

2.51.55.37

क उवाच ।
इति स्तोत्रं समाकर्ण्य परितुष्टो विनायकः ।
उवाच काशीराजं स वरं वृणु हृदि स्थितम्

2.51.55.38

नृप उवाच ।
जातं वरस्य कृत्यं मे यत्राहं हि समागतः ।
इतः पुनर्जन्ममृती न स्यातां तद्विधीयताम्

2.51.55.39

क उवाच ।
स्तोत्रेण प्रीतस्तं प्राह तथेति दिव्यदेहिनम् ।
स्थापयामास निकटे कल्पकोटियुगावधि

2.51.55.2.53.40

मुने स्तोत्रं मया तस्मात्प्राप्तं तस्य प्रसादतः ।
नारदाय मया प्रोक्तं नारदो गौतमाय च

2.51.55.41

प्राह सोऽपि मुनीन्सर्वान्सर्वकामफलप्रदम् ।
ज्ञानेन्द्रे मोक्षदं विघ्ननाशनं पावनं परम्

2.51.55.42

यः पठेत्स लभेद्भक्तिं गणेशसन्निधौ नरः ।
विद्याकामो लभेद्विद्यां त्रिसन्ध्यं यः पठेन्नरः

2.51.55.43

पुत्रकामो लभेत्पुत्रांजयकामो लभेज्जयम् ।
एवं सर्वं समाख्यातं यद्यत्पृष्टं त्वया मुने

2.51.55.44

आख्यानं काशिराजस्य किमन्यच्छ्रोतुमिच्छसि ।
भृगुरुवाच ।
इति श्रुत्वा ब्रह्मवाक्यं व्यासो निःसंशयो गिरः

2.51.55.45

पुनः पप्रच्छ सुमतिर्विस्तरेण कथान्तरम् ।
व्यास उवाच ।
शुक्लस्यातिदरिद्रस्य हृतं दारिद्र्यमादरात्

2.51.55.46

भुक्त्वा कदन्नं तद्गेहे काशिराजं समेत्य च ।
किं चकार स देवोऽपि काशिराजश्च तद्वद

2.51.55.47

कथं तौ निहतौ दैत्यौ भूभारश्च कथं हृतः ।
स्थापितश्च कथं धर्मस्तन्मे शंस यथाविधि

2.51.55.48

क उवाच ।
कथयामि समासेन चरितं बालरूपिणः ।
हृत्वा शुक्लस्य दारिद्र्यं यद्यत्तेन कृतं मुने

2.51.55.53

(२३४५)
इति श्रीगणेशपुराणे क्रीडाखंडे राज्ञस्यानन्दप्राप्तिवर्णनं नाम त्रिपंचाशत्तमोऽध्यायः

2.51.55.1

अध्याय ५४ प्रारंभ :-
क उवाच ।
भुक्त्वा शुक्लगृहे देवो यावत्क्रीडति चत्वरे ।
क्षणं सुष्वाप मध्ये स ततो नागरिका जनाः

2.51.55.2

भोजनाय समारम्भं कृत्वा मुनिसुतस्य ह ।
काशिराजगृहं तावदाकारयितुमागताः

2.51.55.3

तानूचे काशिराजस्तु क्रीडन्क्रीडन्नितो गतः ।
पश्यन्ति स्म ततो लोका गृहेगृहे विनायकम्

2.51.55.4

शुक्लस्य स गृहं यात इति केचित्समूचिरे ।
ततो जना निनिन्दुस्तं देवं शुक्लमकिंचनम्

2.51.55.5

जना ऊचुः ।
उष्ट्रस्तु कण्टकान्भुंक्ते हित्वा कोमलपल्लवान् ।
अस्मानाढयान्विहायासौ दरिद्रस्य गृहं गतः

2.51.55.6

वृथैवेश्वरतां नीतो राज्ञा बालो यदीश्वरः ।
स्यादयं चेत्तदा कुर्यात्संतुष्टिं सर्वचेतसाम्

2.51.55.7

कदन्नं तदपि स्वल्पं कथं भोक्ष्यति बालकः ।
केचित्सत्पुरुषास्तेषु तमानयितुमुत्सुकाः

2.51.55.8

इतस्ततः प्रधावन्ति विज्ञातुं विनायकम् ।
पप्रच्छुर्मार्गगांल्लोकान्क्वचिद्दृष्टो विनायकः

2.51.55.9

पृष्ट्वा पृष्ट्वा व्रजन्ति स्म जनास्तद्भक्ति
तत्पराः । केचिदुचुः शुक्लगृहं गतः स्यादिति तान्प्रति

2.51.55.2.54.10

ते शीघ्रं तद्गृहं याता ज्ञात्वा सुप्तं विनायकम् ।
अतिष्ठन्सात्त्विकास्तूष्णीं प्रबुद्धः स्याद्यदा विभुः

2.51.55.11

तदैनं प्रार्थयामेति राजसास्तु तमब्रुवन् ।
उत्तिष्ठ याहि रे भौक्तुमन्नं पर्युषितं भवेत्

2.51.55.12

त्वदर्थं नगरे लोकाः कोलाहलं प्रकुर्वते ।
दरिद्रस्यास्य शुक्लस्य शुक्लभिक्षारतस्य ह

2.51.55.13

पर्याप्तिश्चास्य भिक्षाया जायते न कदाचन ।
न जलं कोऽपि पिबति तस्य गेहे कथं भवान् ।
भुक्तवान्कुत्सितं चान्नं कश्यपस्यात्मजोऽपि सन्

2.51.55.14

केचित्तं विविधैर्वाक्यैर्निनिन्दुस्तुष्टुवुः परे ।
मुनिरुवाच ।
एवं श्रुत्वा सर्ववाक्यमुवाच कश्यपात्मजः

2.51.55.16

देव उवाच ।
भक्त्योपपादितं चान्नं भुक्तमद्य यथेच्छतः ।
पदमात्रं हि गन्तुं मे शक्तिस्तृप्तस्य नास्ति च ॥१५।
ग्रासमात्रं हि भोक्तुं मे वांछा नास्त्यधुना जनाः ।
क उवाच ।
एवं निष्ठुरतां ज्ञात्वा जनास्ते विरसास्तदा

2.51.55.17

ऊचुः परस्परं केचित्कर्तव्यं किं हि बालके ।
सोऽपि विह्वलतां ज्ञात्वा पुरवासिजनस्य ह

2.51.55.18

एकोऽनन्तत्वमापेदे घटाकाश इव क्षणात् ।
जलकुम्भगतो यद्वत्सविताऽनेकरूपवान्

2.51.55.19

प्रतिगृहं गतो नानाक्रीडासक्तोऽभवद्विभुः ।
क्वचित्सोपान मार्गेषु क्वचिद्दोलागतोऽपि च

2.51.55.2.54.20

क्वचिच्च पर्यंकगतः क्वचित्सौधगतोऽपि च।
क्रीडते हसते क्वापि गृहबालैर्भुनक्ति च

2.51.55.21

अध्येति क्वापि शास्त्राणि पाठयत्यपि कुत्रचित् ।
तं दृष्ट्वा स्वगृहं यातं काशिराजेन संयुतम्

2.51.55.22

जहृषे स गृहस्वामी धन्योऽहमिति चाब्रवीत् ।
एवं सर्वगृहे राजसहितोऽसौ विनायकः

2.51.55.23

क्वचिदभ्यज्यते तैलैः स्नाति क्वापि शुभैर्जलैः ।
पादप्रक्षालनं क्वापि क्रियते परमादरात्

2.51.55.24

उपचारैः षोडशभिः पूज्यते क्वापि भक्तितः ।
भुज्यते परमान्नेन बालभावाद्यथा तथा

2.51.55.25

क्वचिन्नानापरिमलैः कस्तूरीचन्दनादिभिः ।
अर्च्यते सुमनोभिश्च नैवेद्यैर्विविधैरपि ।
सेव्यते गृहपत्नीभिः शिशुभिः सेवकैरपि

2.51.55.26

भुक्त्वा यथेष्ठं सुष्वाप पादसंवाहनादिभिः ।
वेदापरायणरतः क्वापि गानरतस्तु सः

2.51.55.27

शृणोति सत्कथां क्वापि हरेरपि कथां क्वचित् ।
क्वचिच्च प्रमदानृत्यं पश्यति स्म नृपेण सः

2.51.55.28

आरार्तिक्यैश्च विविधैः क्वापि नीराज्यते विभुः ।
क्वचिच्च पाशहस्तोऽसौ क्रीडते क्षुद्रबालकैः

2.51.55.29

पुराणं वाच्यते क्वापि धर्मशास्त्रं स्मृतिस्तथा।
एवं सर्वगृहे भुक्त्वा सर्वेषां कामपूरकः

2.51.55.2.54.30

यस्य यस्य यथा वांच्छा तथा तां व्यदधाद्विभुः।
सुप्रसन्नो महादेवो यथाकल्पद्रुमोऽपि च

2.51.55.31

यथा चिन्तामणिः कामधेनुर्वाऽखिलकामदा।
दीननाथेति यन्नाम कृतं तत्सार्थकं तदा

2.51.55.32

देवदुन्दुभयो नेदुः पुष्पवृष्टिर्गृहे गृहे ।
दृष्ट्वेत्थं काशिराजाऽसौ भ्रान्त ऊचे निजान्प्रति

2.51.55.33

अयं विनायको बालः सन्निधौ मम तिष्ठति।
स कथं सर्वगृहगः पूज्यते सर्वमानवैः

2.51.55.34

गृहे गृहे तु स कथं तिष्ठत्यत्रापि साम्प्रतम् ।
यो मामाकारयति तं वदामि च पुनः पुनः

2.51.55.35

विना विनायकं यामि कथं भोक्तुं भवद्गृहे ।
गृहमध्यस्थितं चान्नं भुंजे काश्यपसंयुतः

2.51.55.36

तं भुक्तवन्तं त्यक्त्वैव बहिस्थमत दृष्टवान् ।
इतस्ततोऽब्रुवंल्लोका दृढविस्मितमानसाः

2.51.55.37

नानागृहगतो भुंक्ते काशिराजयुतो विभुः ।
आकर्ण्य वचनं तेषां हसन्नूचे नृपः स तान्

2.51.55.38

विना मां स कथं यातो भोक्तुं नानागृहानिति ।
ततो गृहाणि द्वित्रीणि गत्वा राजा हि दृष्टवान्

2.51.55.39

स्वं च कश्यपपुत्रं च भुक्तवन्तं गृहे गृहे ।
एतस्मिन्नन्तरे प्राप्तौ स्नात्वा तौ मुनिसत्तमौ

2.51.55.2.54.40

भुक्त्यर्थं भ्रममाणौ तौ सनकश्च सनन्दनः ।
पुरीं महोत्सवयुतां विनायकमयीं शुभाम्

2.51.55.41

यद्यद्गृहं प्रविशतस्तत्र तत्र विनायकम् ।
पश्यतः स्मरतस्तौ तु यातः स्म बहिरेव च

2.51.55.42

भुक्तं च भुक्तवन्तं च सुप्तं क्रीडन्तमेव च ।
जपन्तं च पठन्तं च पाठयन्तं च पश्यतः

2.51.55.43

एवं सर्वत्र तं दृष्ट्वा परस्परमथोचतुः ।
न स्थलं भोजनार्थाय दृश्यतेऽथात्र निर्मलम्

2.51.55.44

यावः शुक्लगृहं कर्ता स नानातिथ्यमादरात् ।
इत्युक्त्वा तद्गृहं यातो दृष्टस्तत्रापि काश्यपः

2.51.55.45

अधोमुखौ क्षुधार्तौ तौ यातः स्म नगराद्बहिः।
पश्यतः स्म परां मूर्तिं स्फुटां वैनायकीं शुभाम्

2.51.55.46

अन्तर्हदि च नेत्रे स्वे निमील्योन्मील्य वा पुनः।
अधश्चोर्ध्वं चान्तराले दिक्षु चैव विदिक्षु च

2.51.55.47

तस्थतुस्तौ ततः पश्चाद्ध्यानस्तिमितवीक्षणौ ।
क्षणमुद्धाट्य नयने विनायकस्वरूपिणम्

2.51.55.48

परस्परं पश्यति स्म सनकस्तं परोऽपि तम् ।
यं देवं तौ ध्यायतः स्म पश्यतस्तं विनायकम्

2.51.55.49

सर्वव्यापी सर्वरूप आविरासीत्तयोः पुरः।
दशबाहुः सिंहगतः सिद्धिबुद्धिविराजितः

2.51.55.2.54.50

सुप्रकाशं किरीटं च कुण्डले चांगदे दधत् ।
दिव्यगन्धं च माल्यं च नागं चन्द्रार्द्धमेव च

2.51.55.51

कस्तूरीतिलकं दिव्ये वसने दशनप्रभे।
सौम्यतेजाः सुमनसां दुष्टानां दुर्निरीक्षणः

2.51.55.52

त्यक्त्वा भ्रमन्तु तत्त्वज्ञौ प्रणमेतां विनायकम् ।
बद्ध्वा करपुटं तौ तं तुष्टुवाते महामती

2.51.55.53

तौ ऊचतुः ।
नित्यमद्वैतमपरं परं ब्रह्म सनातनम् ।
तमेव परया भक्त्या पंचभूतात्मकं विभुम्

2.51.55.55

चराचरगतं सर्वरूपिणं परमेश्वरम् ।
भ्रमन्ति यस्य रोमाञ्चगता ब्रह्माण्डकोटयः ५४
स कथं स्तवनीयोऽसौ वेदान्तानामगोचरः ।
आवयोर्वाञ्छितं देव त्वया ज्ञात्वा प्रपूरितम्

2.51.55.56

न विद्मो महिमानं ते बालरूपधरस्य ह ।
भूभारहरणार्थाय काश्यपं रूपमुत्तमम्

2.51.55.57

क उवाच ।
अन्तर्दधे तु तद्रूमुपभयोः स्तुवतोः पुरः ।
न पश्यतो यदा रूपं तदा तौ श्रमवर्जितौ

2.51.55.58

प्रासादं परमं कृत्वा मूर्तिं वैनायकीं शुभाम् ।
ब्रह्मवादित्रघोषैश्च यथा दृष्टं शुभे दिने

2.51.55.59

स्थापयामासतुर्नाम वरदोऽयं विनायकः ।
गणेशतीर्थमिति च तत्र यत्सर उत्तमम्

2.51.55.2.54.60

स्थापितं नाम तस्यापि तत्र तत्ख्यातिमागमत् ।
अत्र स्नानेन दानेन गणेश पूजनेन च

2.51.55.61

सर्वांन्कामानवाप्नोति हित्वा पापं पुरातनम् ।
तत्रेयुर्मुनयः सर्वे देवाश्च सदिगीश्वराः

2.51.55.62

दृष्ट्वा संपूजितं देवं स्तुत्वा नत्वा ययुः पुनः ।
मुनिरुवाच ।
एवं तौ बालरूपस्य प्रभावं द्रष्टुमागतौ

2.51.55.63

दृष्टप्रभावौ संतुष्टौ स्वस्थानमापतुः परम् ।
य इदं शृणुयाद्भक्त्या बालस्य चरितं शुभम्

2.51.55.64

सर्वान्कामानवाप्नोति प्रेत्यं ब्रह्ममयो भवेत् ।
न बालग्रहपीडा स्यात्सर्वत्र विजयी भवेत्

2.51.55.54

(२४०९)
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते चतुःपंचाशत्तमो ऽध्यायः

2.51.55.1

अध्याय ५५ प्रारंभ :
मुनिरुवाच ।
तयोस्तु गतयोः पश्चान्मोहापन्नो महानृपः ।
काशिराजो हयारूढो भ्रमति स्म गृहे गृहे

2.51.55.2

विनायकमचक्षाणः क्व गतो भोक्त्युमित्युत ।
विहाय मां कथं यातो मिष्ठान्नं भोक्तुमेकशः

2.51.55.3

गृहे गृहे पर्यपृच्छत्क्व गतोऽसौ विनायकः ।
इदानीं बहिरायातो भुक्त्वा क्रीडितुमुत्सुकः

2.51.55.4

काशिराजेन सहितो वृथा त्वं पृच्छसे कथम् ।
एवं निराकृतः सर्वैः पुरवासिजनैरसौ

2.51.55.5

परमं श्रममापन्नो कुटुम्ब्यकिंचनो यथा ।
केचिदूचुः शुक्लगृहे क्रीडतेऽसौ विनायकः

2.51.55.6

ततो हर्षयुतः शुक्लगृहं यातो नृपस्तदा ।
ददर्श चांगणे तस्य बालं वृषगतं विभुम्

2.51.55.7

दृष्ट्वा तं वृषभारूढं त्रिनेत्रमिव चापरम् ।
प्रणम्य परया भक्त्या बद्धांजलिपुटोऽब्रवीत्

2.51.55.8

नृप उवाच ।
न बाले साधुचरितं न ज्ञानं स्नेह एव च ।
विहाय मां कथं भुक्तं मिष्टान्नं विविधं त्वया

2.51.55.9

क उवाच ।
एवमाकर्ण्य तद्वाक्यमुवाच स विनायकः ।
यत्र यत्र मया भुंक्ते तत्र भुक्तं त्वयाऽपि च

2.51.55.2.55.10

मिथ्या त्वं भाषसे मन्द बालस्वमसि बुद्धितः ।
वदिष्यन्ति जनाः सर्वे पच्छेति च ससाक्षिकम्

2.51.55.12

श्रुत्वा वैनायकं वाक्यं जना ऊचुर्नृपं तदा ।
इदानीं हि त्वया भुक्तं विनायकसमीपतः ॥११।
कथं मिथ्या भाषसे त्वं वृद्धः सन्नृपसत्तम ।
ततः प्रकृतिमापन्नो ज्ञातवान्स नृपोऽब्रवीत्

2.51.55.13

अज्ञेया ते परा माया योगिनामपि मोहिनी।
धन्योऽसि सर्वरूपेण सर्वत्र मानितो यतः

2.51.55.14

क उवाच ।
रोमांचांचितगात्रः स ध्यानमेवान्वपद्यत ।
ततो वैनायकं रूपं स्वयमेवान्वपद्यत

2.51.55.15

यथा जलं जलं क्षिप्तं जलत्वं प्रतिपद्यते ।
पुनर्मायाबलेनासौ भिन्नमूर्तिर्नृपोत्तमः

2.51.55.16

स तु तं शिबिकारूढं निनाय निजमन्दिरम् ।
नानावादित्रनिर्घोषैर्नृत्यैर्गीतैरनेकशः

2.51.55.17

शुशुभे बालकोऽतीव देवेषु मदनो यथा ।
अनुयाति सपत्नीको भक्त्या शुक्लः शनैः शनैः

2.51.55.18

परावर्त्य मुखं दृष्टो बालेन व्रीडता भृशम् ।
कथं प्रयातो दत्त्वाऽस्मै वरं कं च न तोषकम्

2.51.55.19

इत्येवं मनसा तस्मै ददौ सम्पत्तिमुत्तमाम् ।
कुबेरसम्पदः श्रेष्ठां सर्वाश्चर्यकरीं विभुः

2.51.55.2.55.20

शुक्लः परावृत्तो दीनः सपत्नीको महामनाः ।
कदन्नभक्षणाद्देवो रुष्टः किं त्विति चिन्तयन्

2.51.55.21

नापश्यतां पर्णकुटीं चिन्तां परमिकां ययौ ।
ततस्तु सेवकाः शुक्लं सुगन्धतैलमर्दनैः

2.51.55.22

स्नापयित्वाऽप्यलंचक्रुर्भूषणैः कांचनांशुकैः ।
तथैव तस्य पत्नीं च बलादिव नियोजिताः

2.51.55.23

अत्याश्चर्ययुतौ चोभौ पश्यतः सर्वसम्पदः ।
रत्नकांचनभित्तीश्च मंचान्नानासनानि च

2.51.55.24

मुक्तामणिगणैश्चित्राण्यनेकानि स्थले स्थले ।
कांचनानि च भाण्डानि वस्त्राण्याच्छादनानि च

2.51.55.25

भक्ष्याण्यनेकरूपाणि खाद्यानि विविधानि च ।
दृष्ट्वेत्थं सकलं चौभौ परस्परमभाषताम्

2.51.55.26

किमिदं भवनं क्षुद्रं जातमिन्द्रगृहोपमम् ।
ततः शुक्लोऽब्रवीत्पत्नीं विनायकप्रसादतः

2.51.55.27

सर्वं जानीहि सुभगे न समक्षं महाविभुः ।
ददाति तु पराक्षेऽसौ अल्पमात्रेण तोषयन्

2.51.55.28

स्वयं दत्तं बहुतरमल्पमेव हि मन्यते ।
भक्त्योपपादितं स्वल्पं मन्यते बहुलं विभुः

2.51.55.29

तस्माद्भयेन कामेन स्नेहेन रिपुभावतः ।
स्मर्तव्यो नमनीयश्च स्तव्यः पूज्यो हिताय च

2.51.55.2.55.30

मुनिरुवाच । ततस्तु नगरे गुप्तौ नरान्तकसमीरितौ ।
आस्तां दूतौ चिरं कालं शूरश्च चपलस्तथा

2.51.55.31

यच्चण्डशब्दात्त्रैलोक्यं कम्पतेऽश्वत्थपत्रवत् ।
यच्छिरःकम्पतः कम्पं यान्ति देवाः सवासवाः

2.51.55.32

पराक्रमे बले शब्दे त्रैलोक्ये न समस्तयोः ।
अयं तु शिबिकामध्ये हन्तव्यो मुनिदेहजः

2.51.55.33

यतोऽनेन हता दैत्या बलिनः पूर्वमागताः ।
तेषां प्रतिकृतिः कार्येत्येवमूचुः परस्परम्

2.51.55.34

विद्युद्रूपं समास्थाय गर्जतः स्म महारवौ ।
तत्तेजसा प्रतिहतचक्षुषा वीरसंचयाः ।
किमिदं किमिदमिति चुक्रुशुर्भृशविह्वलाः

2.51.55.35

एतस्मिन्नन्तरे प्राप्तौ शिबिकानिकटं तु तौ ।
वाहाः पलायिताः सर्वे त्यक्त्वा तं च विनायकम्

2.51.55.36

धृतौ विनायकेनोभौ हस्ताभ्यां बलिनौ बलात् ।
उत्पाटितुं धरण्या स भ्रामयामास तावुभौ

2.51.55.37

करुर्णाद्रमनाः पश्चात्स्थापयामास भूतले।
हन्तव्यः पुरुषेणासौ यः पराक्रमतोऽधिकः

2.51.55.38

मशके निहते कः स्यात्पुमर्थः पुरुषस्य ह ।
ततः पप्रच्छ तौ कस्य दूतौ वा कथ्यतामिति

2.51.55.39

स्वशक्त्या तु कृते यत्ने न दोषः पुरुषस्य ह ।
एवं तद्वचनं श्रुत्वा प्रोचतुः पुरतः स्थितौ

2.51.55.2.55.40

करुणाब्धिर्भवान्ख्यातो दिननाथः पिताऽसि नः ।
सेककृच्चोपनेता च विद्यादोऽभयदोऽपरः

2.51.55.41

अन्नदः पंचपितरो विख्याता भुवनत्रये ।
आवां दूतौ गुप्तरूपौ नरान्तकसमीरितौ

2.51.55.42

तव विघ्नकरौ देव रक्षितौ कृपया त्वया ।
भूतं भव्यं भवच्चैव सर्वं जानासि सर्ववित्

2.51.55.43

ये ये वैरेण त्वां याता हतास्ते क्षणमात्रतः ।
एतस्मिन्नन्तरे पौरा विनायकमथाब्रुवन्

2.51.55.44

किमेतौ रक्षितौ देवदुष्टौ लोकभयंकरौ ।
अनयोरुपकारस्तु कृतोऽपकृतये भवेत्

2.51.55.45

पन्नगाय पयो दत्तं विषमेव हि जायते ।
मुनिरुवाच ।
तानुवाच ततो देवः पूर्वमेवानयोर्मया

2.51.55.46

अभयं दत्तमधुना विपरीतं कथं भवेत् ।
इत्युक्त्वाऽमोचयत्तौ स ततो राजाऽब्रवीत्पुनः

2.51.55.47

अपराधानसंख्यातान्क्षान्त्वा तौ मोचितौ रिपू ।
मरणे जीवने जन्तोरिच्छा ते कारणं मता

2.51.55.48

इत्युक्त्वा मन्दिरं प्राप्तौ काशिराजविनायकौ ।
नत्वा तौ सर्वलोकाश्च स्वं स्वं भवनमागमन्

2.51.55.49

प्रशंसन्तो नृपं नानारूपिणं च विनायकम्

2.51.55.55

(२४५८)
इति श्रीगणेशपुराणे क्रीडाखंडे दूतमोचनं नाम पंचपंचाशत्तमोऽध्यायः

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc