भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपुराणम् · अध्याय 1.91.92

1.91.92.1

अध्याय ९१ प्रारंभ :-
व्यास उवाच ।
अन्यत् कथय मे देव गणेशस्य कथान्तरम ।
शृण्वतो मे मनोऽत्यन्तमुत्सुकुं भवति प्रभो

1.91.92.2

ब्रह्मोवाच ।
एकदा प्रलये वृत्तेऽज्ञापयन्मां गजाननः ।
सृष्टिं नानाविधां ब्रह्मन् कुरु त्वं हि ममाज्ञया

1.91.92.3

अहं प्रकल्पयामास पुत्रान् सप्त हृदा तदा ।
तेषां नामानि ते वच्मि कश्यपो गोतमोऽपि च

1.91.92.4

जमदग्निर्वसिष्ठश्च भरद्वाजोऽत्रिरेव च।
विश्वामित्रश्च सप्तैतै सर्वविद्याविशारदाः

1.91.92.5

सर्वे मामब्रुवन् ब्रह्मन्नाज्ञापय सुरेश्वर ।
मया तु कश्यपोऽज्ञायि बुद्धिमांस्तेषु चाधिकः

1.91.92.6

मत्कार्यं विविधां सृष्टिं कुर्वित्याज्ञापितस्तदा ।
असावोमिति मामुक्त्वा जगाम तपसे वनम्

1.91.92.7

जजापैकाक्षरं मन्त्रं दिव्यवर्षसहस्रकम् ।
ततः प्रसन्नो भगवान् द्विरदानन ईश्वरः

1.91.92.8

चतुर्भुजोऽरविन्दाक्षो महामुकुटमण्डितः ।
पाशांकुशधरो मालादन्त हस्तः शुभांगदः ।
सुवर्णमणिरत्नाढयः मुक्तामालालसद्गल:

1.91.92.9

सर्पोदरः कोटिसूर्य विलसद्दीप्तिमण्डलः ।
विकसन्नेत्र विभ्राजच्चारुशुण्डालसन्मुखः

1.91.92.1.91.10

आविरासीत् कश्यपस्य पुर एवं गजाननः ।
क्षुद्रघण्टा नूपुराणां रवान् मुखरिताङ्घ्रियुक्

1.91.92.11

दृष्ट्वा ननर्त तं देवं कश्यपो हर्षनिर्भरः।
नत्वा सम्पूजयामास नानामंगलवस्तुभिः

1.91.92.12

बद्धांजलिरुवाचेदं सुप्रसन्नो गजाननम् ।
धन्यो मे जनको माता तपो ज्ञानं वपुश्च दृक्

1.91.92.13

धन्येयं धरणी तात वीरूद् वृक्ष फलानि च ।
धन्य एकाक्षरो मन्त्रो येन दृष्टोऽखिलेश्वरः

1.91.92.14

गजाननः प्रसन्नात्मा परमात्मा परात्परः ।
यत्र कुण्ठाश्चतुर्वेदा वेदान्ता मूकतां गतः

1.91.92.15

अगोचरो मनस्तर्कै सोऽयं देवो मयेक्षितः ।
यस्मादाविर्भवन्तीमे हरेशाग्निमुखाः सुराः

1.91.92.16

पातालानि च सप्तैव भुवनानि चतुर्दश ।
यत्र तन्निलयं यान्ति सोयं देवो मयेक्षितः

1.91.92.17

यो निर्गुणो निराधीशो गुरुगम्यो निराकृतिः ।
ब्रह्मेति यं विदुः केचित् सोयं देवो मयेक्षितः

1.91.92.18

क उवाच ।
एवं वाक्यामृतरसैः परितुष्टो गजाननः ।
उवाच कश्यपं मम्रं स्तुवन्तं विविधैः स्तवैः

1.91.92.19

गणेश उवाच ।
भक्तेःस्तवादनुष्ठानात् प्रीतस्तेऽहं मुनेऽधुना।
वरं वरय मत्तस्त्वं यं यं स्ववनसेच्छसि

1.91.92.1.91.20

कश्यप उवाच ।
सृष्टिं नानाविधां कर्तुं सामर्थ्यं देहि मे प्रभो ।
त्वदड्घ्रिकमले भक्तिमविस्मरणमेव च

1.91.92.21

यायाः प्रत्यक्षता तत्र स्मरेत्त्वां यत्र चाप्यहम् ।
तादृशं देहि मे पुत्रं नाम्ना कश्यपनन्दनम्

1.91.92.22

गणेश उवाच ।
सर्वं ते वांछितं मत्तो भविताऽऽशु महामुने ।
भक्तिर्मेऽविस्मृति स्यात्ते संकटे चान्तिकं व्रजे

1.91.92.23

करिष्यसि विचित्रां त्वं सृष्टिं मम प्रसादतः ।
क उवाच ।
एवमुक्त्वा मुनिं देवस्तत्रैवान्तरधीयत ।
कश्यपोऽपि मुदा युक्तो निजस्थानं तदा ययौ

1.91.92.24

कदाचित् कश्यपोऽकस्मादशरीर प्रपीडितः ।
न चालभत् क्वापि शर्म गृहमध्यं ततोऽगमत्

1.91.92.25

नित्यं नैमित्तिकं काम्यं कर्म ध्यानं च नास्मरत् ।
तं तथा विह्वलं दृष्ट्वा योषितोऽस्य चतुर्दश

1.91.92.26

दित्यदितिर्दनुः कद्रुर्विनताद्याः पुरः स्थिताः ।
बुभुजे क्रमशस्तास्तु नानागारेषु कश्यपः

1.91.92.27

काले यथोक्ते सुषुवे दितार्दैत्याननेकशः।
अदितिर्देवगन्धर्वान् दनुश्च दानवानथ

1.91.92.28

क्रमेण किन्नरा यक्षाः सिद्धचारणगुहयकः ।
पशवश्च तथारण्या ग्राम्याश्चासन्ननेकशः

1.91.92.29

पृथिवी पर्वता वृक्षाः समुद्राः सरितो लता।
धान्यानि धातवो रत्ना मुक्ताः कृमि पिपीलिकाः

1.91.92.1.91.30

सर्पाः पक्षिगणास्ताभ्यः सर्वमासीच्चराचरम् ।
एवं दृष्ट्वा स सन्तानं जातं नानाविधां तदा

1.91.92.31

जहर्ष कश्यपो धीमान्नानामन्त्रान् समादिशत् ।
शोधायित्वा ऋणधनं सिद्धारिचक्रमीक्ष्य च

1.91.92.32

षोडशार्णं च कस्मैचित्तथाऽष्टादशवर्णकम् ।
एकाक्षरं च कस्मैचिदन्यस्मै च षडक्षरम्

1.91.92.33

पंचार्णमष्टाक्षरं च द्वादशाक्षरमेव च ।
कस्मैचिच्च महामन्त्रं ददौ स मुनिपुंगवः

1.91.92.34

कुर्वन् त्वनुष्ठितं तावद्यावद्देवो निरीक्ष्यते ।
गजाननोऽखिलाधारः सर्वसिद्धिप्रदायकः ।

1.91.92.35

एवमाज्ञापयत्तांश्च ते च जग्मुस्तदैव हि ।
तपसे बहुशो देशान् जेपुः स्वं स्वं मनुं तदा

1.91.92.36

आसने भोजने देवं निद्रायां जागरेऽपि च ।
अनन्यभक्त्या देवेशं सस्मरुस्ते गजाननम्

1.91.92.37

दिव्यवर्षसहस्रान्ते परितुष्टो गजाननः ।
आविरासिदनेकात्मा तत्पुरः करूणानिधिः

1.91.92.38

यो यथा ध्यातवान्देवं तादृशस्तत्परोऽभवत् ।
कस्यचित् पुरतश्चासीन् मेघाभोऽष्टमहाभुजः

1.91.92.39

कस्यचित्पुरतस्त्वासीच्छशिवर्णश्चतुर्भुजः ।
अग्रे कस्यचिदारक्तः षड्भुजोऽसौ गणेश्वरः

1.91.92.1.91.40

सहस्रनयनस्तावद् भुजोऽसावपि कस्यचित् ।
भाति बालस्वरूपोऽपि युवा वृद्धोऽपि भासते

1.91.92.41

दशद्वादशदोर्दण्डो धूम्रवर्णो महन्महः ।
अष्टादशभुजोऽप्यासीत् कोटिसूर्यसमप्रभः

1.91.92.42

तेजोरूपो महाकाय आखुवाहनपृष्टगः ।
सिंहगो बर्हिगो वापि गजास्यो नैकवक्त्रवान्

1.91.92.43

दृष्ट्वा देवं तु ते सर्वे नैकधा तुष्टुवुर्मुदा ॥
बद्धांजलिपुटा नम्रा भक्त्या देवं गजाननम

1.91.92.44

सर्वे ऊचुः ।
यतोऽनन्तशक्तेरनन्ताश्च जीवा।
यतो निर्गुणादप्रमेयाद् गुणास्ते।
यतो भाति सर्वं त्रिधा भेदभिन्नं।
सदा तं गणेशं नमामो भजामः

1.91.92.45

यतश्चाविरासीज्जगत् सर्वं वेत्तु
स्तथाऽब्जासनो विश्वगो विश्व गोप्ता ।
तथेन्द्रादयो दैत्यसंघा मनुष्याः ।
सदा तं गणेशं नमामो भजामः

1.91.92.46

यतो वह्नि भानू भवो भूर्जलं च ।
यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जंगमा वृक्षसंघाः ।
सदा तं गणेशं नमामो भजामः

1.91.92.47

यतो दानवाः किन्नरा यक्षसंघा ।
यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरुधश्च ।
सदा तं गणेशं नमामो भजामः

1.91.92.48

यतो बुद्धिरज्ञाननाशो मुमुक्षो।
यतः सम्पदो भक्तसंतोषकः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः ।
सदा तं गणेशं नमामो भजामः

1.91.92.49

यतः पुत्रसम्पद्यतो वांछितार्थो ।
यतो भक्तिविद्यास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव ।
सदा तं गणेशं नमामो भजामः

1.91.92.1.91.50

यतोऽनन्तशक्तिः स शेषो बभूव ।
धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना।
सदा तं गणेशं नमामो भजामः

1.91.92.51

यतो वेदवाचो विकुण्ठा मनोभिः।
सदा नेति नेतीति ता यं गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं ।
सदा तं गणेशं नमामो भजामः

1.91.92.1

(४०३५ )
अध्याय ९२ प्रारंभ :-
क उवाच ।
एवं नत्वा च स्तुत्वा च सर्वे ते तु गजाननम् ।
पुनरूचुर्गणाध्यक्षमध धन्यतमा वयम्

1.91.92.2

धन्यं तपो नो दानं च ज्ञानं यज्ञश्च पूर्वजाः ।
अद्य नो दृष्टयो धन्या याभिर्दृष्टो गजाननः

1.91.92.3

एवं वाक्यामृतैस्तेषां स्तुतिभिः परितोषितः ।
उवाच शृण्वन्तां तेषां गाम्भीर्याद् द्विरदाननः

1.91.92.4

नैतादृशं मयाऽदर्शि ब्रह्मविष्णुशिवादिषु ।
यत् साक्षाद् दृश्यते सर्वं रूपं मे निर्गुणस्य यत्

1.91.92.5

अतितुष्टोऽनया स्तुत्या वरान् दातुमिहागतः ।
यद्यद्वो वांछितं तत्तद् वृणुध्वमखिलं तु यत्

1.91.92.6

एवमुक्तास्तदा तेन विकटेन मुनीश्वर ।
यस्य यद्वांछितं तत्तद्वव्रुस्तस्माद् गजाननात्

1.91.92.7

असंख्यत्वात्तद्वराणां नास्ति शक्तिश्चतुर्मुखैः ।
गदितुं सर्वथा तस्मादुक्तं संक्षेपतो मया

1.91.92.8

तांस्तान् ददौ वरान्यान्यान् सर्वे वव्रुर्गजाननम् ।
पुनरप्यवदत् सर्वानिदं स्तोत्रं मम प्रियम् ।
त्रिसन्ध्यं यः पठेदेतद् विद्यावान् पुत्रवान् भवेत् ।
आयुरारोग्यमैश्वर्यं यशोवृद्धि जयोदयम् ।
प्राप्नुयाद्वांछितानर्थानन्ते च परमं पदम् ।
पुनरूचे गणाधीशः स्तोत्र मेतज्जपेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्व कार्यं भविष्यति

1.91.92.9

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिमवाप्नुयात्

1.91.92.1.92.10

यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद् बन्धनात्तं राजबद्धं न संशयः

1.91.92.11

विद्याकामो लभेत् विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वांछितं लभते सर्वमेकविंशति वारतः

1.91.92.12

यो जपेत् परया भक्त्या गजाननपरो नरः ।
एवमुक्त्वा ततो देवः सर्वेषामेव पश्यताम्

1.91.92.13

अन्तर्दधेऽखिलाधारः सुमुखोऽसौ गजाननः ।
ते च चक्रुस्तदा मूर्तिं गणेशस्य शुभाननाम्

1.91.92.14

प्रतिष्ठाप्य च तां स्थूले प्रासादे रत्ननिर्मिते ।
सुमुखेति च तस्यास्ते नाम चक्रुः सुविश्रुतम्

1.91.92.16

संपूज्य च नमस्कृत्वा स्वं स्वं स्थानं ययुः सुराः ।
सर्वै ते मुनयो लोका सर्वकार्यरतास्तदा ॥१५
केचित्तस्या नाम चक्रुरेकदन्त इति स्फुटम् ।
गन्धर्वै किन्नरै रम्या स्थापिता मूर्तिरुत्तमा

1.91.92.17

प्रासादे कांचने श्रेष्ठेऽनेकधा परिपूज्य च ।
कपिलेति च नामास्याः स्थापयामासुरुत्तमम्

1.91.92.18

गुहयकाश्चारणाः सिद्धा मूर्तिमन्या प्रचक्रिरे ।
महालये प्रतिष्ठाप्य नेमुश्च पुपुजुश्च ताम्

1.91.92.19

गजकर्णेति नामास्याश्चक्रुस्ते तु स्फुटार्थकम् ।
तत् प्रभावाद्विमानस्थाः सर्वे ते दिवमाक्रमत्

1.91.92.1.92.20

लम्बोदरेति नाम्ना च स्थापिता सर्व मानवैः ।
श्वापदैरखिलैरन्या स्थापिता मूर्तिरुत्तमा

1.91.92.21

विकटेति च नाम्ना तां पुपूजुस्त्ते ययुर्वनम्।
गिरयश्च द्रुमाश्चांन्यां मूर्तिं स्थाप्य प्रपूज्य च

1.91.92.22

विघ्नाशन इत्येवं नाम कृत्वा स्थितास्तु कौं।
तत्प्रसादश्च ते ख्याताः पर्वताश्च द्रुमास्तथा

1.91.92.23

सर्वैः पक्षिगणैर्मूर्तिः स्थापिता रत्नकांचनी।
गणाधिपेति नाम्ना तैः पूजिता च नमस्कृता

1.91.92.24

सर्वैर्विषधरैरेका स्थापिता गणनायकी ।
यस्या हूतिः कृता तैस्तु धूमकेतुरिति स्फुटा

1.91.92.25

सर्वैर्जलाशयैरेका प्रतिमा स्थापिता शुभा।
गणाध्यक्षेति नाम्ना सा पूजिता परमोत्सवैः

1.91.92.26

कृमिकीटादिनिचयैर्वनस्पत्योषधीगणैः ।
स्थापिता परमा मूर्तिर्भालचन्द्रेति विश्रुता

1.91.92.27

अन्यैः सचेतनैरन्या रत्नप्रासादमध्यगा।
वैनायकी महामूर्तिः पूजिता भक्तिभावतः

1.91.92.28

गजाननाख्यया ख्याता सर्वेषां सर्वकामदा ।
ते ते जगत्त्रये ख्यातास्तत्तज्जात्या बभूविरे

1.91.92.29

सुखिनः स्वस्वकार्येषु दक्षा देव प्रसादतः ।
प्रत्येकनामकथने न शक्तिर्मम वर्तते

1.91.92.1.92.30

सारं सारं प्रगृह्यैव कृतं नाम्ना सहस्रकम् ।
ततोऽपि सारभूतानि प्रोक्तानि द्वादशैव तु

1.91.92.31

समुद्रमथनाद्यद्वद् रत्नानीव चतुर्दश ।
एवं संक्षेपतो ब्रह्मन् महिमा तेऽभिवर्णितः

1.91.92.32

विस्तराद् गदितुं शेषा नेशो नेशोप्यहं हरिः।
इन्द्रादिमशकानां च जीवानां यक्षरक्षसाम्

1.91.92.33

तत्र का गणना कार्या मया सत्यवतीसुत ।
तस्मात् सर्वेषु कार्येषु पूजनीयो गजाननः

1.91.92.34

यो न पूजयते देवं देवविघ्नविनाशनम् ।
स दुरात्मा परित्याज्यश्चांडाल इव दूरतः

1.91.92.35

मुनिरुवाच ।
अनुक्रमेण कथय नामानि द्वादशैव मे ।
श्रवणात् पठनादेषां सर्वं निर्विघ्नतामियात्

1.91.92.36

ब्रह्मोवाच ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः

1.91.92.37

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि

1.91.92.38

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते

1.91.92.39

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

1.91.92.1.92.40

कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च ।
तपांसि यानि सर्वाणि तीर्थान्यायतनानि च

1.91.92.41

स्वर्णभारसहस्राणि कोटिदानानि यान्यपि ।
कृच्रासरणि तप्तकृच्रा ।णि पराकेन्दुव्रतानि च

1.91.92.42

शतांशमेषां पुण्यस्य तानि नाम्नां न यान्ति च ।
इमानि प्रातरुत्थाय शुचिर्भूत्वा समाहितः

1.91.92.43

यः पठेन्मानवो भक्त्या विघ्ना नो यांति तं नरम् ।
सिद्ध्यन्ति सर्वकार्याणि मोक्षमन्ते व्रजत्यसौ

1.91.92.44

तस्य दर्शनतो लोका देवाः पूता भवन्ति च ।
अतएव मुने सर्वाः शाक्ताः शैवाश्च वैष्णवाः

1.91.92.45

उक्त्वा द्वादश नामानि सर्वकार्याणि कुर्वते ।
गाणेशा अपि कुर्वन्ति किमत्रापि च कौतुकम्

1.91.92.46

न सिद्ध्यन्ति हि कार्याणि द्वादशान्यतमस्य ह ।
उच्चारणं विना ब्रह्मंस्तस्मादेकं समुच्चरेत्

1.91.92.47

दुष्टानां नास्तिकानां च कार्यं यद्यद्धि सिद्ध्यति ।
तेऽपि बीजं समुच्चार्य मद्ध्यानादपि कुर्वते

1.91.92.48

एवं ते महिमा सर्वः कथितो लेशतो मुने ।
उपासनाफलं नाना यथामति निरूपितम्

1.91.92.49

विष्णूनां कथितं यावत् तावत्तव निरूपितम् ।
सोऽपि नान्तं जगामास्य गणेशोपासनस्य ह

1.91.92.1.92.50

गणेशनाममहिमा पूर्णो ज्ञातो न तेन च ।
भृगुरुवाच ।
एवं ते कथिता राजन्नद्भुतो महिमा मया

1.91.92.51

ब्रह्मणा सुप्रसन्नेन यो व्यासाय निरूपितः ।
उपासनाखंडमिदं वर्णितं नृपते मया

1.91.92.52

यदि ते श्रवणे श्रद्धा तदान्यदपि वर्णने ।
चरितं गणनाथस्य सोमकांताघनाशनम्

1.91.92.53

सूत उवाच ।
इति वः कथितं नानाकथान्तरसमन्वितम् ।
उपासनं गणेशस्य शौनकाद्या महर्षयः

1.91.92.54

वेदव्यासाय मुनये ब्रह्मणा यत्समीरितम् ।
भृगुणा सोमकान्ताय वर्णितं पापनाशनम्

1.91.92.55

शृणुयाद्यो गणेशस्य पुराणमिदमुत्तमम् ।
स सर्वामापदं हित्वा भुक्त्वा भोगाननेकशः

1.91.92.56

पुत्रपौत्रसमायुक्तो ज्ञानविज्ञानसंयुतः ।
लभते परमां मुक्तिं गणेशस्य प्रसादतः

1.91.92.57

न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ।
यः श्रावयेद् महाभक्त्या यथोक्तफलभाग् भवेत्

1.91.92.92

यथाप्तं सोमकान्तेन शृण्वता परमादरात्।
इति श्रीगणेशपुराण उपासनाखंडे ब्रह्मव्यास भृगुसोमकान्त संवादे गजानननामनिरूपणं नाम द्विनवतितमोऽध्यायः

(४०९३ )
॥श्रीमद्गजाननार्पणमस्तु ।
॥ इति श्रीगणेशमहापुराणे उपासना खण्डं समाप्तम् ॥

मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc