भाषा

ENहिગુ
ग्रंथ पाठ

गणेशपंचरत्न · अध्याय 1

1

मुदाकरात्त मोदकं सदा विमुक्तिसाधकम् । कलाधरावतंसकं विलासि लोकरक्षकम् ।
अनायकैक नायकं विनाशितेभदैत्यकम् । नताशुभाशुनाशकं नमामि तं विनायकम्

2

नतेतरातिभीकरं नवोदितार्कभास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं । महेश्वरं तमाश्रये परात्परं निरन्तरम्

3

समस्त लोकसंकरं निरस्तदैत्यकुंजरम्। दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्वरम्

4

अकिंचनार्तिमार्जनं चिरन्तनोक्ति भाजनम् । पुरारिपूर्व नन्दनं सुरारि गर्वचर्वणम्।
प्रपंच नाशभीषणं धनंजयादि भूषणम्। कपोलदानवारणं भजे पुराणवारणम्

5

नितान्तकान्तदन्तकान्ति - मन्तकान्तकात्मजम् । अचिन्त्य - रुपमन्तहीन - मन्तरायकृन्तनम्।
ह्रदन्तरे निरन्तरं वसन्तमेव योगिनाम्। तमेकदन्तमेव तं विचिन्तयामि सन्ततम्

फलश्रुती
महागणेश पंचरत्नम् आदरेण योन्वहम्। प्रजल्पति प्रभातके ह्रदि स्मरन् गणेश्वरम्।
अरोगितामदोषतां सुसाहितीं सुपुत्रताम्। समाहितायु - रष्टभूतिमभ्युपैति सोस्चिरात्॥

मूल पाठ: gaṇeśapaṃcaratna stotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc