गजेन्द्रमोक्षः · अध्याय 1
श्रीमद्भागवते अष्टमस्कंधे परीक्षित महाराजानां श्री शुकमुनिः उपदेशित गजेंद्रमोक्ष स्तोत्रमिदं
श्री शुक उवाच
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितं
गजेंद्र उवाच
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकं ।
पुरुषायादि बीजाय परेशायाभिधीमहि
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं ।
योस्मापरस्माच्च परस्तं प्रपद्ये स्वयंभुवं
यः स्वात्मनीदं निजमाययार्पितं
क्वचिद्विभातं क्वच तत्तिरोहितं ।
अविद्धदृक्साक्ष्यु भयं तदीक्षते
स आत्ममूलोवतु मां परात्परः
कालेन पंचत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदासीद्गहनं गभीरं
यस्तस्य पारेभिविराजिते विभु
न यस्य देवा ऋषयः
पदंर्विजंतुः कोर्हति गंतुमीरितुं ।
यथा नटस्याभिकृतिर्विचेष्टतो
स आत्ममूलोवतु मां परात्परः
दिदृक्षवो यस्यपदं सुमंगळं
विमुक्तसंगा मुनयः सुसाधवः ।
चरंत्य लोक व्रतमव्रणं वने
भूतात्मभूताः सहृदः स मे गतिः
न विद्यते यस्य च जन्मकर्मवा
न नामरूपे गुणदोष एव वा ।
तथापि लोकाप्यय संभवाय यः
स्वमायया तान्यनुकालमृच्छति
तस्मै नमः परेशाय ब्रह्मणेनंतशक्तये ।
अरूपायोरुरूपाय नम आश्चर्य कर्मणे
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनश्चेतसामपि
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे
नमः शांताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्य्क्षाय साक्षिणे ।
पुरुषायात्म मूलाय मूलप्रकृतये नमः
सर्वेंद्रिय गुणदृष्ट्रे सर्वप्रत्यय हेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नमः
नमो नमस्तेखिलकारणाय
निष्कारणायाद्भुत कारणाय ।
सर्वागमाम्नाय महार्णवाय
नमोपवर्गाय परायणाय
गुणारणिच्छन्न चिदूष्मपाय
तत्क्षोभविस्फूर्जित मानसाय ।
नैष्कर्म्य भावेन विवर्जितगम
स्वयंप्रकाशाय नमस्करोमि
मादृक्प्रपन्न पशुपाश विमोक्षणाय
मुक्ताय भूरिकारणाय नमोलयाय ।
स्वांशेन सर्वतनुभृन्मनसि प्रतीत
प्रत्यग्दृशे भगवते बृहते नमस्ते
आत्मात्मजाप्त गृहवित्तजनेषु सक्तै
र्दुष्प्रापणाय गुणसंग विवर्जिताय ।
मुक्तात्मभिः स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय
यं धर्मार्थ विमुक्तकामा
भजंत इष्टां गतिमाप्नुवंति ।
किं त्वाशिषोरात्यपि देहमव्ययं
करोतुमेदभ्रदयो विमोक्षणं
एकांतिनो यस्य न कंचनार्थं
वांछंति ये वै भगवत्प्रपन्नाः ।
अत्यद्भुतं तच्चरितं सुमंगळं
गायंत आनंदसमुद्रमग्नाः
तमक्षरं ब्रह्म परं परेशमव्यक्त
माध्यात्मिक योगगम्यं ।
अतींद्रियं सूक्ष्ममिवातिदूर
मनंतमाद्यं परिपूर्णमीडे
यस्य ब्रह्मादयोदेवा वेदा लोकाश्चराचराः ।
नामरूप विभेदेन फल्ग्व्या च कलया कृताः
यथार्चिषोग्नेः सवितुर्गर्भस्तयो
निर्यांति संयात्यसुकृत्स्वरोचिषः ।
तथा यतोयं गुणसम्प्रवाहो
बुद्धिर्मनः खानि शरीरसर्गाः
स वै न देवासुरमर्त्यतिर्य
ङ्न स्त्री न षंडो न पुमान्नजंतुः ।
नायं गुणः कर्म न सन्नचास
न्निशेधशेषो जयतादशेषः
जिजीविषे नाहमिहमुया
किमंतर्बहिश्चा वृत्तये भयोन्या ।
इच्छामि कालेन न यस्य विप्लवः
तस्यात्मलोकावरणस्य मोक्षं
सोहं विश्वसृजं विश्वमविश्वं विश्ववेदसं ।
विश्वात्मानजं ब्रह्म प्रणतोस्मि परंपदं
योगरंधितकर्मणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यंति योगेशं तं नतोस्म्यहं
नमो नमस्तुभ्यसह्यवेगाय
शक्तित्रया याखिलाधि गुणाय ।
प्रपन्न पालाय दुरंतशक्तये
कदिंद्रियाणा मनवाप्यवर्त्मने
नायं वेद स्वमात्मानं यच्छक्त्या हंधिया हतं ।
तं दुरत्यय माहात्म्यं भगवंतमितोस्म्यहं
श्री शुक उवाच
एवं गजेंद्रमुपवर्णित निर्विशेषं
ब्रह्मादयो विविध लिंग भिदाभिमानाः ।
नैते यदोपसृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत्
तं तद्वतार्त्तमुप्लभ्य जगन्निवासः
स्तोत्रंनिशम्य दिविजैःसह संस्तुवद्भिः ।
छंदोमयेन् गरुडेन समुह्यमानो
श्चक्रायुधोभ्यगमदाशु यतो गजेंद्रः
सोंतस्सरस्युरुबलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रं ।
उत्क्षिप्य सांबुजकरं गिरिमाह कच्छ्रा
न्नारयणाखिलगुरो भतवन्नमस्ते
तं वीक्ष्यपीडितमजः सहसावतीर्य
सग्राहमाशु सरसः कृपयोज्जाहारः ।
गृहाद्विपाटित मुखादरिणा गजेंद्रं
संपश्यतां हरिरमूमुचदुस्रियाणां
मूल पाठ: gajendramokṣaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0