द्वयसंपत्तिवार्त्तिक · श्लोक 1-20
नमः परमनाथाय गणनाथाय शूलिने ।
चिद्पद्मासनसंस्थाय चतुर्धाभिन्नमूर्तये ॥
अवर्णम् अस्वरं ध्यात्वा व्यापकं परमेश्वरम् ।
व्युत्थाने योगिनाम् इत्थं शिवत्वं जायते स्फुटम् ॥
ततः शक्तिमयो योगी नादबिन्द्वात्मविग्रहः ।
द्वयसम्पत्तिम् आप्नोति निराधारपदे स्थितः ॥
श्लोकद्वयम् इदं यस्माच् छिववक्त्रागमोदितम् ।
शुद्धैषा योगिकोषस्य विवृत्येह प्रवर्तते ॥
अहंकारमयी भूमिर् बुद्धिभूमेः परा हि सा ।
तया व्याप्तम् इदं सर्वं सैव ज्ञाता विमुक्तिदा ॥
संविद्रूपा परा शक्तिर् अभिन्ना पारमेश्वरी ।
ज्ञानशक्तिः पुनः सैव मन्त्ररूपा प्रकाशते ॥
अहंकारः स्मृतो मन्त्रः शिवशक्त्यात्मरूपकः ।
यद् अत्राद्यम् अवर्णाक्यं स शिवः परमेश्वरः ॥
नादबिन्द्वात्मकं यत् तु द्वितीया शक्तिर् ऐश्वरी ।
द्वयम् एतत् समाख्यातं बीजभूतं चराचरे ॥
अनेन मुद्रिताः सर्वे वर्णा अङ्गाररूपिणा ।
शब्दब्रह्म ततः प्राहुर् योगिनस् तत्त्वचिन्तकाः ॥
अप्राणम् अस्वरं ध्यात्वा पश्यन्त्या निर्विभागया ।
चिन्मात्रामर्शयोगेन विलीनः स्यात् परे पदे ॥
तथा हि सिद्धैर् आदिष्टं क्वचित् सिद्धान्तसंग्रहे ।
नाभेर् ऊर्ध्वं वितस्तिस् तु कण्ठाधस्तात् षडङ्गुलम् ॥
हृदयं मध्यदेशे तु पद्मं तु हृदि मध्यतः ।
तत्र मध्ये स्थिता सूक्ष्मा कर्णिका त्रिपथोपगा ॥
तत्र मध्ये ह्य् अकारं तु स्वात्मतत्त्वं व्यवस्थितम् ।
अकारान्तः परं सूक्ष्मं चिन्मात्रतत्त्वलक्षणम् ॥
तस्याप्य् उपासा कथिता विज्ञाने भैरवेन तु ।
अबिन्दुम् अविसर्गं च अकारं जपतो महान् ॥
उदेति देवि सहसाज् ज्ञानौघः परमेश्वरः ।
कर्णस्थाने निराधारा द्वितिया शक्तिर् ऐश्वरी ॥
बीजभूता कुण्डलिनी नादबिन्दुस्वरूपिणी ।
प्राणशक्तिर् इयं देहे हकाराख्या नदत्य् अलम् ॥
कर्णान्तरविवरे योगी स्थगित्वा लक्षयेत् स्फुटम् ।
बिन्दुरूपा भ्रुवोर् मध्ये विश्वस्य जननी ध्रुवा ॥
लक्ष्यते योगिभिर् नित्यं भ्राजमान स्वतेजसा ।
तस्य बिम्बौ तु चन्द्रार्कौ वामदक्षिननेत्रयोः ॥
निराश्रयौ तु तौ कृत्वा विषेद् ब्रह्म सनातनम् ।
विज्ञानभैरवे ऽप्य् उक्तं शस्त्रे सिद्धनिषेविते ॥
सम्प्रदायम् इमं सम्यक् शृणु देवि वदाम्य् अहम् ।
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः ॥
मूल पाठ: Dvayasaṃpattivārttika · Edition: Raniero Gnoli Il Dvayasampattivārttikam di Vāmanadatta Gururajamañjarikā Napoli Instituto Universitario Orientale 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0