भाषा

ENहिગુ
ग्रंथ पाठ

द्वयसंपत्तिवार्त्तिक · श्लोक 21-23

21

संकोचं कर्णयोः कृत्वा ह्य् अधोद्वारे तथैव च ।
अनच्कम् अहलं ध्यायन् विषेद् ब्रह्मबिलं क्षणात् ॥

22

इति सिद्धमुखोद्गीतं स्वयम् एव उदाहृतम् ।
मार्गेनानेन संसिद्धा लभन्ते योगिनीपदम् ॥

23

जाकदेशसमुद्भूतो मीमांसावनकेसरी ।
हर्षदत्तेतिनामा यस् तस्य सूनोर् इयं कृतिः ॥

मूल पाठ: Dvayasaṃpattivārttika · Edition: Raniero Gnoli Il Dvayasampattivārttikam di Vāmanadatta Gururajamañjarikā Napoli Instituto Universitario Orientale 451-455 · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc