भाषा

ENहिગુ
ग्रंथ पाठ

दिव्यावदान · अध्याय 31

31.1

425.001. <425>तस्मात्तर्हि भिक्षवो ऽनभिसमितानां चतुर्णामार्यसत्यानामभिसमयाय, अधिमात्रं वीर्यं तीव्रच्छन्दो वीर्यं शब्दापयामि।
425.002. उत्साह उन्नतिरप्रतिवाणिः।
425.002. स्मृत्या संप्रजन्येन अप्रमादतो योगः करणीयः।
425.003. द्रुतमेषां चतुर्णां दुःखस्यार्यसत्यस्य दुःखसमुदयस्य निरोधस्य निरोधगामिन्याः प्रतिपद आर्यसत्यस्य अमीषां चतुर्णामार्यसत्यानामनभिसमितानामभिसमयाय अधिमात्रं तीव्रच्छन्दो वीर्यं व्यायाम उत्साह उन्नतिरप्रतिवाणिः स्मृत्या संप्रजन्येनाप्रमादतो योगः करणीयः॥
425.007. अस्मिंश्च खलु पुनर्धर्मपर्याये भाष्यमाणे भिक्षूणां षष्टिमात्राणामनुपादाय आस्रवेभ्यश्चित्ताअनि विमुक्तानि।
425.008. संबहुलानां श्रावकाणां ब्रह्मणां गृहपतीनां च विरजस्कं विगतमलं धर्मचक्षुरुदपादि विशुद्धम्॥
425.010. इदमवोचद्भगवान्।
425.010. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
425.011. इति श्रीदिव्यावदाने शार्दूलकर्णावदानम्॥
********** अवदान 34 **********
426.001. दिव्34 दानाधिकरणमहायानसूत्रम्।
426.001. एवं मया श्रुतम्।
426.002. एकस्मिन् समये भगवाञ्छ्रावस्त्यां विअह्रति जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम्।
426.003. तत्र {भगवान्} भिक्षूनामन्त्रयते स्म--सप्तग्त्रिंशता भिक्षव आकारैः पण्डितो दानं ददाति।
426.004. काले दानं ददाति तथागतानुज्ञातम्।
426.005. कल्पितं दानं ददाति त्रिवस्तुपरिशुद्धम्।
426.005. सत्कुत्य दानं ददाति सर्वदोषविक्षेपविगमार्थम्।
426.006. स्वहस्तेन दानं ददात्यसारात्कायात्सारसंग्रहार्थम्।
426.006. स्कन्धं दानं ददाति महात्यागभोगविपाकप्रतिलाभसंवर्तनीयम्।
426.007. वर्णसम्पन्नं दानं ददाति प्रासादिकविपाकप्रतिसंवर्तनीयम्।
426.007. गन्धसम्पन्नं दानं ददाति गन्धविपाकप्रतिलाभसंवर्तनीयम्।
426.008. रससम्पन्नं दानं ददाति रसरसाग्रव्यञ्जनविपाकप्रतिलाभसंवर्तनीयम्।
426.009. प्रणीतं दानं ददाति प्रणीतभोगविपाकप्रतिलाभसंवर्तनीयम्।
426.010. विपुलं दानं ददाति विपुलभोगविपाकप्रतिलाभसंवर्तनीयम्।
426.010. अन्नदानं ददाति क्षुत्तर्षविच्छेदविपाकप्रतिलाभसंवर्तनीयम्।
426.011. पानदानं ददाति सर्वत्र जातिषु तृड्विच्छेदविपाकप्रतिलाभसंवर्तनीयम्।
426.012. वस्त्रदानं ददाति प्रणीतवस्त्रभोगविपाकप्रतिलाभसंवर्तनीयम्।
426.012. प्रतिश्रयं दानं ददाति हर्म्यकूटागारप्रासादभवनविमानोद्यानारामविशेषविपाकप्रतिलाभसंवर्तनीयम्।
426.014. शय्यादानं ददात्युच्चकुलभोगविपाकप्रतिलाभसंवर्तनीयम्।
426.014. यानं दानं ददाति ऋद्धिपादविपाकप्रतिलाभसंवर्तनीयम्।
426.015. भैषज्यदानं ददाति अजरामरणविशोकसंक्लिष्टनिरोधनिवाणविपाकप्रतिलाभसंवर्तनीयम्।
426.016. धर्मदानं ददाति जातिस्मरप्रतिलाभसंवर्तनीयम्।
426.016. पुष्पदानं ददाति बोध्यङ्गपुष्पविपाकप्रतिलाभसंवर्तनीयम्।
426.017. माल्यदानं ददाति रागद्वेषमोहविशुद्धविपाकप्रतिलाभसंवर्तनीयम्।
426.018. गन्धदानं ददाति दिव्यगन्धसुखोपपत्तिविपाकप्रतिलाभसंवर्तनीयम्।
426.019. धूपदानं ददाति संक्लेशदौर्गन्धप्रहाणविपाकप्रतिलाभसंवर्तनीयम्।
426.019. छत्रदानं ददाति धर्मैश्वर्याधिपत्यविपाकप्रतिलाभसंवर्तनीयम्।
426.020. घण्टादानं ददाति मनोज्ञस्वरविपाकप्रतिलाभसंवर्तनीयम्।
426.021. वाद्यदानं ददाति ब्रह्मस्वरनिर्घोषविपाकप्रतिलाभसंवर्तनीयम्।
426.021. पट्टदानं ददाति देवमनुष्याभिषेकपट्टबन्धविपाकप्रतिलाभसंवर्तनीयम्।
426.022. तथाअगतचैत्येषु तथागतबिम्बेषु च सुगन्धोदकस्नानं दानं ददाति द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनविपाकप्रतिलाभसंवर्तनीयम्।
426.023. सूत्रदानं ददाति सर्वत्र जातिषूत्पस्यता ग्राह्यकुलेषूपपद्य समन्तप्रासादिकविपाकप्रतिलाभसंवर्तनीयम्।
426.025. पञ्चसारदानं ददाति सर्वत्र जातिषु महाबलविपाकप्रतिलाभसंवर्तनीयम्।
426.025. मैत्र्यात्मकदानं ददाति व्यापादप्रहाणविपाकप्रतिलाभसंवर्तनीयम्।
426.026. करुणाश्रितदानं ददाति महासुखविपाकप्रतिलाभसंवर्तनीयम्।
426.027. मुदिताश्रितदानं ददाति सर्वथा मुदितानन्दविपाकप्रतिलाभसंवर्तनीयम्।
426.028. उपेक्षाश्रितं दानं ददाति अरतिप्रहाणविपाकप्रतिलाभसंवर्तनीयम्।
426.028. विचित्रोपचित्रं दानं ददाति नानाबहुविधविचित्रोपभोगविपाकप्रतिलाभसंवर्तनीयम्।
426.029. सर्वार्थपरित्यागं दानं ददाति अनुत्तरसम्यक्सम्बोधिविपाकप्रतिलाभसंवर्तनीयम्।
426.030. एभिर्भिक्षवः सप्तत्रिंशत्प्रकारैः पण्डितो दानं ददाति॥
426.031. इदमवोचद्भगवान्।
426.031. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
426.032. इति श्रीदिव्यावदाने दानाधिकरणमहायानसूत्रं समाप्तम्॥
********** अवदान 35 **********
427.001. दिव्35 चूडापक्षावदानम् ।
427.002. बुद्धो भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे।
427.002. श्रावस्त्यामन्यतमो ब्राह्मणः प्रतिवसति।
427.003. तेन सदृशात् कुलात् कलत्रमानीतम्।
427.003. स तया सार्धं क्रीडति तमते परिचारयति।
427.004. तस्यापत्यं जातं जातं कालं करोति।
427.004. अथापरेण समयेन तस्य पत्नी आपन्नसत्त्वा।
427.005. स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः।
427.005. तस्य नातिदूरे वृद्धयुवतिः प्रतिवसति।
427.006. तया दृष्टः।
427.006. सा कथयति--कस्मात्त्वं ब्राह्मण करे कपोलं दत्वा चिन्तापरो व्यवस्थितह्? स कथयति--ममापत्यं जातं जातं कालं करोति।
427.007. मम चेदानीं पत्नी आपन्नसत्त्वा संवृत्ता।
427.008. यदप्यन्यदपत्यं जनयिष्यति, तदपि कालं करिष्यति।
427.008. स कथयति--यदा तव पत्व्याः प्रसवकालः स्यात्, तदा मां शब्दापयेथा इति।
427.009. अथापरेण समयेन तस्य पत्न्याः प्रसवकाले जातः।
427.010. तेन सा वृद्धयुवतिः शब्दापिता।
427.010. तया सा प्रसवापिता।
427.010. पुत्रो जातः।
427.011. तया स दारकः स्नापयित्वा शुक्लेन वेष्टयित्वा नवनीतेनास्यं पूरयित्वा दारिकाया हस्ते ऽनुप्रदत्तः।
427.012. सा दारिकोक्ता--इमं दारकं चतुर्महापथे धारय।
427.012. यं कंचित् पश्यसि ब्राह्मणं वा, स वक्तव्यह्--अयं दारकः पादाभिवन्दनं करोतीति।
427.013. अस्तं गते आदित्ये यदि जीवति, गृहीत्वा आगच्छ।
427.014. अथ कालं करोति, तत्रैवारोपयितव्यः।
427.014. सा तमादाय चतुर्महापथे गत्वा स्थिता।
427.015. आचरितं तीर्थ्यानां कल्यमेवोत्थाय तीर्थोपस्पर्शनाय गच्छन्ति।
427.016. सा दारिका सगौरवा सप्रतीशा पादभिवन्दनं कृत्वा कथयति--अयं दारक आर्याणां पादाभिवन्दनं करोति।
427.017. ते कथयन्ति--चिरं जीव, दीर्घमायुः पालयतु, मातापित्रोर्मनोरथं पूरयतु।

427.018. स्थविरस्थ्विरा भिक्षवः पूर्वाह्णकालसमये निवास्य पात्रचीवरमादाय श्रावस्त्यां पिण्डाय प्रविशन्ति।
427.019. सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति--अयं दारक आर्याणां पादाभिवन्दनं करोतीति।
427.020. स्थविराः कथयन्ति--सुचिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु।
427.021. भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्रविशति स्म।
427.022. सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति--भगवान्, अयं दारको भगवतः पादाभिवन्दनं करोतीति।
427.023. भगवानाह--चिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु।
427.024. विकालीभूते पश्यति--यावज्जीवति।
427.025. सा तं गृहीत्वा गृहमागता।
427.025. सा तैः पृष्टा--जीवति दारकह्? सा कथयति--जीवति।
427.026. ते कथयन्ति--कुत्र धारितह्? अस्मिन् महापथे।
427.026. ते कथयन्ति--किं भवतु दारकस्य नाम? अयं दारको महापथे धारितः।
427.027. भवतु दारक्स्य महापन्थक इति नाम।
427.027. महापन्थको दारक उन्नीतो वर्धितो महान् संवृत्तः।
427.028. स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः, संख्यायां गणनायां मुद्रायां ब्राह्मणिकायामीर्यायां शौचे समुदाचारे भस्मग्रहे औत्करे भोस्कारे ऋग्वेदे यजुर्वेदे सामवेदे ऽथर्ववेदे यजने याजने ऽध्ययने ऽध्यापने दाने प्रतिग्रहे।
427.030. षट्कर्मनिरतो ब्राह्मणः संवृत्तः।
427.031. स पञ्चशतगणं ब्राह्मणकर्म ओं वाचयितुमारब्धः।
427.031. तस्य भूयः क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता।
427.032. तस्याः प्रसवकालो जातः।
427.032. तेन सा वृद्धयुवतिह्<428> शब्दापिता।
428.001. तया प्रसविता।
428.001. तस्याः पुत्रो जातः।
428.001. तया स दारकः स्नापयित्वा शुक्लेन वस्त्रेण वेष्टयित्वा नवनीतेनास्यं पूरयित्वा दारिकाया हस्ते दत्तः।
428.002. सा दारिकोक्ता--इमं त्वं दारकं चतुर्महापथे धारय।
428.003. यदि कंचित्पश्यसि श्रमणं ब्राह्मणं वा, स वक्तव्यह्--अयं दारक आर्यस्य पादाभिवन्दनं करोति।
428.004. अस्तं गत आदित्ये यदि जीवति, गृहीत्वा आगच्छ।
428.005. अथ कालं करोति, तत्रैवारोपयित्वा आगच्छ।
428.005. सा दारिका अलसजातीया तं दारकमादाय पन्थलिकायां स्थिता।
428.006. आचरितं तीर्थ्यानां कल्यमेवोत्थाय तीर्थोपस्पर्शका गच्छन्ति।
428.006. सा दारिका सगौरवा सप्रतीशा पादभिवन्दनं कृत्वा कथयति--आर्य, अयं दरक आर्याणां पादाभिवन्दनं करोति।
428.008. ते कथयन्ति--चिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु।
428.009. सा तं विकालीभूते पश्यति--यावज्जीवति।
428.009. सा तं गृहीत्वा गृहमागता।
428.009. सा तैः पृष्टा--जीवति दारकह्? सा कथयति--जीवतीति।
428.010. ते कथयन्ति--कुत्र त्वयैष धारितह्? सा कथयति--अमुष्यां पन्थलिकायाम्।
428.011. ते कथयन्ति--किं भवतु दारकस्य नाम? अयं दारकः पन्थलिकायां धारितः।
428.012. भवतु दारकस्य नामधेयं पन्थक इति।
428.012. पन्थको दारक उन्नीतो वर्धितो महान् संवृत्तिः।
428.013. स यदा महान् संवृत्तस्तदा लिप्यमुपन्यस्तः।
428.013. तस्य सीत्युक्ते धमिति विस्मरति।
428.014. अथ तस्याचार्यः कथयति--ब्राह्मण, मया प्रभूतदारकाः पाठयितव्याः।
428.015. न शक्ष्याम्यहं पन्थकं पाठयितुम्।
428.015. महापन्थकस्याल्पमुच्यते प्रभूतं गृह्णाति, अस्य तु पन्थकस्य सीत्युक्ते धमिति विस्मरति।
428.016. ब्राह्मणः संलक्षयति--सर्वे ब्राह्मणा लिप्यक्षरकुशला भवन्ति, वेदब्राह्मण एष भविष्यति।
428.017. स तेनाध्यापकस्य वेदं पाठयितुं समर्पितः।
428.017. तस्य ओमित्युक्ते भूरिति विस्मरति, भूरित्युक्त ओमिति विस्मरति।
428.018. अध्यापकः कथयति--प्रभूता माणवकाः पाठयितव्या मया।
428.019. न शक्याम्यहं पन्थकं पाठयितुम्।
428.019. अस्य ओमित्युक्ते भूरिति विस्मरति, भूरित्युक्त ओमिति विस्मरति।
428.020. ब्राह्मणः संलक्षयति--न सर्वे ब्राह्मणा वेदपारगा भवन्ति।
428.021. जातिब्राह्मण एवायं भविष्यतीति।
428.021. स यत्र क्वचिन्निमन्त्रितको गच्छति, तमेव पन्थकमादाय गच्छति।
428.022. अथ तेन समयेन स ब्राह्मणो ग्लानीभूतः।
428.022. स मूलगण्डपत्रफलभैषज्यैरुपस्थीयमानो हीयत एव।
428.023. स तेन महापन्थक उक्तह्--पुत्र, त्वं ममात्ययादशोच्यो ऽसि।
428.024. अपि तु त्वया पन्थकस्य योगोद्वहनं कर्तव्यमिति।
428.024. इत्युक्त्वा--
428.025. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
428.026. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्

मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc