भाषा

ENहिગુ
ग्रंथ पाठ

दिव्यावदान · अध्याय 16

16.1

140.027. तस्यैव कर्मणो विपाकतो मे नगरमपि सौवर्णकाञ्चनं बभूव महासुदर्शनस्य रमणीया कुशावती नाम पुरी बभूव॥
140.029. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कीदृशं भदन्त राज्ञा मूर्धातेन कर्म कृतम् यस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्, देवांस्त्रायस्त्रिंशानधिरूढह्? भगवानाह--
141.001. <141>भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि विपश्यी नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो लोके उत्पन्नः।
141.002. अथ स विपश्यी सम्यक्सबुद्धो जनपदेषु चर्यां चरमाणो ऽनुपूर्वेण बन्धुमतीं राजधानीमनुप्राप्तः।
141.003. अथ विपश्यी सम्यक्सम्बुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय बन्धुमतीं पिण्डाय प्राविशात्।
141.004. तत्रान्यतरश्चौत्करिको नाम वणिक्।
141.004. भगवन्तं विपश्यिनमसेचनकदर्शनरूपं दृष्ट्वा अधिकः प्रसाद उत्पन्नः।
141.005. प्रसादजातेन तस्य मुद्गानां मुष्टिं गृहीत्वा पात्रे प्रक्षिप्ता।
141.006. ततो मुद्गाश्चत्वारः पात्रे पतिताः, एकः कण्टकमाहत्य भूमौ पतितः।
141.006. अवशिष्टं नैवं संप्राप्तं पात्रम्, असम्प्राप्ता एव भूमौ पतिताः।
141.007. ततो वणिक् प्रसादजातः प्रणिधिं करोति--
141.009. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः।
141.011. तीर्णश्च तारयेयं महाजनौघान् न तारिता ये पूर्वकैर्जिनेन्द्रैः॥11।
141.013. भगवानाह--यो ऽसौ ओत्करिको वणिक्, अहमेव तेन कालेन तेन समयेन।
141.013. यन्मया विपश्यिनः सम्यक्सम्बुद्धस्य प्रसादजातेन मुद्गानां मुष्टिः पात्रे पक्षिप्ता, तस्माच्चत्वारो मुद्गाः पात्रे पतिता अवशिष्टा भूमौ पतिताः, तस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्।
141.016. यश्चासौ मुद्गः पात्रकण्टकमाहत्य भूमौ पतितः, तस्य कर्मणो विपाकेन त्रायस्त्रिंशान् देवानधिरूडः।
141.017. सचेद्भिक्षवः स मुद्गः पात्रे पतितो ऽभविष्यन्न भूमौ, स्थाअनमेतद्विद्यते यद्देवेषु च मनुष्येषु च राज्यैश्वर्याधिपत्यं कारितमभविष्यत्।
141.018. यो ऽसौ ओत्करिको वणिक् तेन कालेन तेन समयेन, स एष राजा मूर्धातः।
141.019. यो मूर्धातो राजा, अहमेव स तेन कालेन तेन समयेन।
141.020. यस्मादेवं बुद्धे भगवति महाकारुणिके काराः कृता अत्यर्थं महाफला भवन्ति महानुशंशा महाद्युतयो महावैस्तारिका इति, तस्माद्भवबोधिः।
141.021. किं करणीयम्? बुद्धे धर्मे संघे काराः करणीयाः सम्यक्प्रणिधानानि च करणीयानीति॥
141.023. इदमवोचद्भगवान्।
141.023. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
141.024. इति श्रीदिव्यावदाने मान्धातावदानं सप्तदशमम्॥
********** अवदान 18 **********
142.001. दिव्18 धर्मरुच्यवदानम्।
142.003. एवं मया श्रुतम्।
142.003. एकस्मिन् समये भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे।
142.004. तेन खलु समयेन पञ्चमात्राणि वणिक्शतानि भाण्डं समुदानीय अनुपूर्वेण ग्रामनिगमपल्लीपत्तनराजधानीषु चञ्चूर्यमाणानि महासमुद्रतटमनुप्राप्तानि।
142.005. तैर् निपुणतः सामुद्रम् यानपात्रं प्रतिपादितम्।
142.006. यतो वणिजस्तं महासमुद्रं दृष्ट्वा संभिन्नमनसो न प्रसहन्ते समवतरितुम्।
142.007. पश्चात्तेर्वणिग्भिः कर्णधार उक्तह्--उद्धोषय नः पुरुषो महासमुद्रस्य भूतं वर्णम्।
142.008. यतो वर्णधार उद्धोषयितुं प्रवृत्तह्--शृण्वन्तु भवन्तो जम्बुद्वीपका मनुष्याः, सन्त्यस्मिन् महासमुद्रे एवंविधानि रत्नानि, तद्यथा--मणयो मुक्ता वैडूर्यशङ्खशिला प्रवालो रजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः।
142.010. य इच्छति एवम्रूपै रत्नैरात्मानं सम्यक्सुखेन प्रीणयितुं मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितम्, कालेन च कालं दक्षिणीयेभ्यः श्रमणब्राह्मणेभ्यो दक्षिणां प्रतिष्ठापयितुमूर्ध्वगामिनीं सौभाग्यकरीं सुखविपाकामायत्यां स्वर्गसंवर्तनीम्, सो ऽस्मिन् महासमुद्रे अवतरतु धनहेतोः।
142.014. एवमुक्ते च पुनः सर्व एव सत्त्वाः संपत्तिकामा विपत्तिप्रतिकूलास्तं श्रुत्वा तस्मिन् महासमुद्रे व्यवसिताः समवतरितुम्।
142.015. यतस्तद्वहनमतिप्रभूतैर्मनुष्यैरतिभारेण च आक्रान्तत्वात् तत्रैवावसीदति।
142.016. ततः कर्णधारेणोक्तम्--असह्यं वहनम्।
142.016. यतो वणिजः कथयन्ति--कस्येदानीं वक्ष्यामो वहनात् प्रत्यवतरस्वेति।
142.017. तैर्वणिग्भिः कर्णधारस्योक्तम्--महासमुद्रस्य भूतं वर्णमुद्घोषयत।
142.018. ततः स उद्घोषयितुं प्रवृत्तह्--शृण्वन्तु भवन्तो जम्बुद्वीपका मनुष्याः, सन्त्यस्मिन् महासमुद्रे इमानि एवम्रूपाणि महान्ति महाभयानि, तद्यथा तिमिभयं तिमिंगिलभयमूर्मिभयं कूर्मभयं स्थले उत्सीदनभयं जले संसीदनभयमन्तर्जलगतानां पर्वतानामाघट्टनभयं कालिकावातभयम्।
142.021. चौरा अपि आगच्छन्ति नीलवाससो धनहारिणः।
142.021. येन चात्मनो जीवितपरित्यागो व्यवास्थितो मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितं चित्रं च जम्बुद्वीपं परित्यक्तुम्, स महासमुद्रमवतरतु।
142.023. अल्पाः शूरा बहवः कातराः।
142.023. तं श्रुत्वा तथोद्घुष्य तु तस्माद्यानपात्रादवतीर्णा बहवः, केचिदवशिष्टाः।
142.024. ततस्तैर्वणिग्भिर्वहनस्यैकं वरत्रं छिन्नम्।
142.025. पश्चाद् द्वौ त्रयो यावदनुपूर्वेण सर्वे वरत्राश्छिन्नाः।
142.025. तासु च्छिन्नासु तद्वहनं महाकर्णधारसम्प्रेरितं गगने महावातसम्प्रेरितो मेघ इव बलवद्वायुसम्प्रेरितं क्षिप्रमेव संप्रस्थितम्।
142.027. यावद्रत्नद्वीपमनुप्राप्तः।
142.027. स तं प्रदेशमनुप्राप्तानां कर्णधारः कथयति--सन्त्यस्मिन् रत्नद्वीपे काचमणयो रत्नसदृशाः, ते भवद्भिरुपपरीक्ष्योपपरीक्ष्य गृहीतव्याः।
142.028. मा वः पश्चाज्जम्बुद्वीपगतानां ताप्यं भविष्यति।
142.029. तत्रैव च क्रोञ्चकुमारिका नाम स्त्रियो भवन्ति।
142.029. ताः पुरुषं लब्ध्वा तथोपलांस्ताडयन्ति, यथा अत्रैवानयेन व्यसनमापद्यते।
142.030. अत्रैव च मदनीयानि फलानि भवन्ति।
142.031. तानि यो भक्षयति, स सप्त रात्रिंदिवसान् सुप्तस्तिष्ठति।
142.031. अस्मिन्नेव च रत्नद्वीपे सप्ताहात् परेण अमनुष्या न सहन्ते, तावद्विधान् विपरीतान् वायूनुत्पादयन्ति यैर्वहनमपह्रियते यथापि तदकृतकार्याणाम्।
142.033. तानि भवद्भिर्लब्धानि न भक्षयितव्यानि।
143.001. <143>तच्छ्रुत्वा वणिजो ऽवहितमनसो ऽप्रमादेनावस्थिताः।
143.001. प्राप्य च तं रत्नद्वीपं प्रयत्नमास्थाय रत्नान्वेषणं कृत्वा अनुपूर्वेणोपपरीक्ष्य रत्नानां तद्वहनं पूरितं तद्यथा यवानां वा यवसस्यानां वा मुद्गानां वा भाषाणां वा।
143.003. वहनं पूर्यित्वा ते ऽनुकूलं जम्बुद्वीपाभिमुखेन वायुना संप्रस्थिताः।

143.004. महासमुद्रे च त्रिभिः स्कन्धैः प्राणिनः संमिश्रिताः।
143.004. प्रथमे योजनशतिका आत्मभावाः, द्विस्त्रियोजनशतिका आत्मभावः।
143.005. द्वितीये स्कन्धे ऽष्टयोजनशतिका आत्मभावा नवदशयावच्चतुर्दशयोजनशतिका आत्मभावाः।
143.006. तृतीये स्कन्धे पञ्चदशयोजनशतिका आत्मभावाः, षोडशयोजनशतिका यावदेकविंशतिका आत्मभावाः।
143.007. तत्र च महासमुद्रे ता मत्स्यजातयः परस्परान्योन्यभक्षणपराः।
143.008. ये प्रथमायां भूमौ अवस्थिताः, ते द्वितीयभूमिस्थैर्भक्ष्यन्ते।
143.008. ये द्वितीयभूमिस्थाः, ते तृतीयभूमिस्थैर्भक्ष्यन्ते।
143.009. तत्र तिमिंगिलो नाम मत्स्यास्तृतीयादुदकस्कन्दधादभ्युद्गम्य उपरिमन्दकस्कन्धमादाय चरति।
143.010. स यस्यां वेलायां मुखमावृणोति, तस्यां वेलायां महासमुद्रात् पानीयं महता वेगेनाक्षिप्तं मुखद्वारम् यतो धावति।
143.011. तेनैवोदकस्कन्धेनाक्षिप्ता मत्स्यकच्छपवल्लभकशुशुमारमकराद्या मत्स्यजातयो मुखद्वारेणोदरे पतन्ति।
143.012. तस्यैवं चरत आत्मभावाच्छिर एवं लक्ष्यते दूरत एव, तद्यथा--पर्वतो नभःप्रमाणः।
143.013. अक्षीणि चास्य दुरत एव संलक्ष्यन्ते नभसीवादित्यौ।
143.014. यतस्तैर्वणिग्भिर्दूरत एवोपधारितम्।
143.014. तन्महार्णवरूपमुपधार्य चिन्तयितुं प्रवृत्ताह्--किमेतद्भवन्त आदित्यद्वयस्योदयनम्? तेषामेवं चिन्तयतां तद्वहनं तस्य मुखद्वारम् यतो वेगेनोपहर्तुमारब्धम्।
143.016. तेषां वहनं वेगेनापह्रियमाणं दृष्ट्वा आदोतुअद्वयोत्पादनं च संलक्ष्य संवेग उत्पन्नह्--किं भवन्तो यत् तच्छ्रूयते सप्तादित्याः कल्पसंवर्तन्यां समुदागमिष्यन्तीति, तदेवेदानीं प्रोदिताः स्युः।
143.018. यतः कर्णधारेण तेषां विमर्शजातानामुक्तम्--यत् तद्भवन्तः श्रूयते तिमितिमिंगिल इति, तिमितिमिंगिलभयमिदम्।
143.019. तत् पश्यन्तु भवन्तः।
143.020. पानीयादभ्युद्गतपर्वतवदालोक्यते एतत्तस्य शिरः।
143.020. पश्यथ चैषा तस्य परा दन्तमाला।
143.022. पश्यथ एतौ दूरत एव सूर्यवदवलोक्येते एतौ अक्षितारकौ।
143.022. पुनससौ कर्णधारो वणिजां कथयति--शृण्वन्तु भवन्तः, नास्माकमिदानीं जीवितोपायः कश्चिद्येन वयमस्माद्भयात् मुच्येम।
143.024. सर्वोषामेवास्माकं मरणं प्रत्युपस्थितम्।
143.024. तदिदानीं भवद्भिः किं करणीयम्? यस्य वो यस्मिन् देवे भक्तिः स तमायाचतु।
143.025. यदि तेनापि तावदायाचनेन काचिद्देवता अस्माकमस्मान्महाभयाद्विमोष्कणं कुर्यात्।
143.026. न चान्यो ऽस्ति कश्चिदुपायो जीवितस्य।
143.027. यतस्तैर्वणिग्भिर्मरणभयभीतैः शिववरुणकुबेरमहेन्द्रोपेन्द्रादयो देवा जीवितपरित्राणार्थमायाचितुमारब्धाः।
143.028. नैव च तेषामायाचतां तस्मान्मरणभयात् जीवितपरित्राणविशेषः कश्चित्।
143.029. तथैव तद्वहनं सलिलवेगात् भिक्षिप्तं तिमिंगिलमुखद्वारम् यतो ऽपह्रियते।
143.029. तत्र चोपासको ऽभिरूढः।
143.030. तेनोक्तम्--भवन्तः, नास्माकमस्मान्मरणभयान्मोक्षः कश्चित्।
143.030. सर्वैरेवास्माभिर्मर्तव्यम्।
143.031. किं तु सर्व एवैकरवेण नमो बुद्धायेति वदामः।
143.031. सति मरणे बुद्धावलम्बनया स्मृत्या कालं करिष्यामः।
143.032. सुगतिगमनं भविष्यति।
143.032. यतस्तैर्वणिग्भिरेकरवेण नमो बुद्धायेति <144>प्रणामः कृतः सर्वैरेव।
144.001. भगवता च जेतवनस्थेन स वादः श्रुतो दिव्येन श्रोत्रेण विशुद्धेन अतिक्रान्तमानुषेण।
144.002. श्रुत्वा च पुनर्भगवता स नादस्तथा अधिष्ठितो यथा तेन तिमिंगिलेन श्रुतम्।
144.003. तस्य तं नमो बुद्धायेति रावं श्रुत्वा मनसो ऽमर्ष उत्पन्नो विक्लवीभूतश्च--बुद्धो बत लोक उत्पन्नः।
144.004. न मम प्रतिरूपं स्यात् यदहं बुद्धस्य भगवतो नामोद्घोषं श्रुत्वा आहारमाहरेयम्।
144.005. स चिन्तयितुं प्रवृत्तह्--यद्यहमिदनीं सहसैव मुखद्वारं पिधास्यामि, सलिलवेगप्रत्याहतस्य वहनस्य विनाशो भविष्यति, एतेषां चानेकानां जीवितविनाशः।
144.006. यन्न्वहं मृदुनोपक्रमेण स्वैरं स्वैरं मुखद्वारं संपिदध्याम्।
144.007. ततस्तेन तिमिंगिलेनात्मीयं मुखद्वारं मृदुनोपक्रमेण स्वैरं स्वैरं पिहितम्।
144.008. पश्चात् तद्वहनं तस्मान्महाग्राहमुखाद्विनिर्मुक्तमनुगुणं वायुमासाद्य तीरमनुप्राप्तम्।
144.009. अथ ते वणिजस्तीरमासाद्य तद्भाण्डं शकटोष्ट्रगोगर्दभादिभिः पुरयित्वा अनुपूर्वेण ग्रामनिगमपल्लीपत्तनादिषु चञ्चूर्यमाणाः श्रावस्तीमनुप्राप्ताः।
144.010. ते तत्र गत्वा संलक्षयन्ति--धर्मतैषा यस्य नांना वहनं संसिद्धयानपात्रमागच्छति, तस्यैव तानि रत्नानि गम्यानि भवन्ति।
144.012. यन्नु वयमेतानि रत्नानि बुद्धस्य भगवतो दद्यामः।
144.012. ते तानि रत्नानि संगृह्य भगवतः सकाशमुपगताः।
144.013. अनुपूर्वेण भगवतः पादौ शिरसा वन्दित्वा भगवतः कथयन्ति--भगवन्, अस्माकं समुद्रे यानपात्रेणावतीर्णानां तिमिंगिलग्राहेण तस्मिन् यानपारे ऽपह्रियमाणे जीवितविनाशे प्रत्युपस्थिते भगवतः स्मरणपरायणानां नामग्रहणं तस्मात् महाग्राहमुखाद्विनिर्मुक्तम्, ततो वयं भगवन् संसिद्धयानपाराः क्षेमस्वस्तिना इहागताः।
144.016. धर्मता चैषा यस्य नांना वहनं संसिद्धयानपात्रा आगच्छन्ति, तस्य तद्गम्यं भवति।
144.017. तद्वयं भगवतो नामग्रहणेन मरणभयादूत्तीर्णाः।
144.018. तदस्माकमेतानि रत्नानि भगवान् गृह्णातु।
144.018. भगवानाह--येन मयेन्द्राय(?) बलबोध्यङ्गरत्नान्यधिगतानि, किं तथागतस्य भूयः प्राकृतरत्नैः करणीयम्? यदि चेच्छत अस्मच्छासने वत्साः प्रव्रजितुम्, आगच्छथ।
144.020. यतस्ते संलक्षयन्ति वणिजह्--यदस्माकं किंचित् जीवितम्, तत्सर्वं बुद्धस्य भगवतस्तेजसा।
144.021. यद्वयमेतानि रत्नानि त्यक्त्वा भगवतो ऽन्तिके प्रव्रजेम इति।
144.022. पश्चात् ते तानि रत्नानि मातापितृभ्यः पुत्रदारदासीदासकर्मकरमित्रामात्यज्ञातिसालोहितेभ्यो यथान्यायतः संविभज्य प्रव्रजिताः।
144.023. प्रव्रज्य तैर्युज्यद्भिर्घटद्भिर्व्यायच्छद्भिर्यावदर्हत्त्वं साक्षात्कृतम्॥
144.024. यतो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कीदृशानि कर्माणि भगवन्, एभिर्वणिग्भिः कृतान्युपचितानि, येषां कर्मणां विपाकेन भगवानारागितो न विरागितह्? भगवानाह--
144.027. भूतपूर्वं भिक्षवः काश्यपः सम्यक्सम्बुद्धो लोक उत्पन्नो ऽभूत्।
144.027. तस्य च शासने एत एव च प्रव्रजिता अभूवन्।
144.028. तत्र प्रव्रज्य च न कश्चित् तद्रूपो गुणगणो ऽधिगतो नान्यत्र सब्रह्मचारिणामुद्दिष्टमधीतं स्वाध्यायितं च।

144.029. मरणकालसमये प्रणिधानं कृतवन्तह्--यदस्माभिः काश्यपं सम्यक्सम्बुद्धमासाद्योद्दिष्टमधीतं स्वाध्यायितं च, न कश्चित् गुणगणो ऽधिगतो ऽस्ति, अस्य कर्मणो विपाकेन वयम् यो ऽसौ अनागतो ऽध्वनि काश्यपेन सम्यक्सम्बुद्धेन शाक्यमुनिनर्मा सम्यक्सम्बुद्धो व्याकृतः, तं वयमारागयेमो न विरागयेमः॥
145.001. <145>भगवानाह--किं मन्यध्वे भिक्षवो यानि तानि पञ्चभिक्षुशतान्यतीते ऽध्वन्यासन् काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितानि, एतावन्त्येतानि पञ्चभिक्षुशतानि।
145.002. तदा चैषामिन्द्रियाणि परिपाचितानि, एतर्हि अर्हत्त्वं साक्षात्कृतम्।
145.003. यश्चासौ महासमुद्रे तिमिस्तिमिंगिलो नाम मत्स्यो बुद्धशब्दं श्रुत्वा अनाहारतायां व्यवस्थितः, स स्वभावेनैव तीक्ष्णाग्नितया क्षुद्दुःखस्यासहत्वाच्च्युतः कालगतः।
145.005. तेन श्रावस्त्यां षट्कर्मनिरते ब्राह्मणकुले प्रतिसंघिर्गृहीतः।
145.006. तस्य तच्छरीरं कलेवरं महासमुद्रे उत्प्लुतम्।
145.006. नागैश्च तस्य स्वभवनसमीपस्थस्य गन्धमसहद्भिरन्यतो विक्षिप्तम्।
145.007. यत्र च विक्षिप्तं तत्रापि समीपे नागस्यैव भवनम्।
145.008. तेनापि गन्धमसहता अन्यतः क्षिप्तम्।
145.008. एवं क्षिप्तेन पारम्पर्येण तत् कलेवरं महासमुद्रतटं समुदानीतम्।
145.009. यतो ऽनन्तरं स्मुद्रवेलयोत्सार्य स्थले प्रक्षिप्तम्।
145.009. तच्चानेकैः काकगृध्रश्वशृगालश्वापदाद्यैः पक्षिभिस्तत्समुच्छ्रितैश्च कृमिभिर्भक्ष्यमाणमस्थिकरङ्कजीर्णमासं श्वेतं श्वेतं व्यवस्थितम्।
145.011. अस्यां च श्रावस्त्यां तस्य ब्राह्मणस्य यदा पत्नी अन्तर्वर्तिनी संवृत्ता, तदेव तस्या गर्भोत्पादादतीव क्षुद्दुःखेन पीड्यमानया गृहस्वाम्यभिहितह्--आर्यपुत्र, क्षुद्दुखेनातीव बाध्ये।
145.013. तस्या एवं वदन्त्या गृहस्वामिनोक्तम्--भद्रे, यदस्मद्गृहे ऽन्नपानं तत्सर्वमभ्यवहरस्व।
145.014. तया अभ्यवहर्तुमारब्धम्।
145.014. सा च तदन्नपानं सर्वमभ्यवहृत्य नैव तृप्तिमुपयाति।
145.015. पुनरपि गृहस्वामिन् विज्ञापयति--आर्यपुत्र, नैव तृप्तिमुपगच्छामि।
145.015. यतस्तेन तिरःप्रातिवेश्यसुहृत्स्वजनादिभ्यो ऽन्तिकदन्नपानमन्विष्य तस्या अनुप्रदत्तम्।
145.016. सा तमप्यवहृत्य नैव तृप्तिं गच्छति।
145.017. भूयो गृहस्वामिनः कथयति--आर्यपुत्र, नैव तृप्तिमुपगच्छामि।
145.017. यतो ऽसौ ब्राह्मणः संविग्नमनाः खेदमापन्नः।
145.018. किमेतद्भवन्तः स्यात्--अस्याः सत्त्वमुदरे उत्पन्नम् यस्योत्पादान्नैव तृप्तिमुपयाति? यतः स ब्राह्मणो नैमित्तकानां दर्शयित्वा संशयनिर्णयनार्थं वैद्यादीन् भूततन्त्रविदश्च--पश्यन्तु भवन्तः, इयं ब्राह्मणी किं महता रोगेणाभिभूता स्यादथ भूतग्रहाविष्टा स्यादन्यद्वा स्याद्रूपं मरणलिङ्गमनेनोपसंक्रमेण प्रत्युपस्थिता स्यात्।
145.021. तैः श्रुत्वा तथाविध उपक्रमः कृतः।
145.022. तस्या ब्राह्मण्यास्ते इन्द्रियाणामन्यथात्वमुपलक्षयन्ति।
145.022. यदा अस्या इन्द्रियाणामन्यथात्वं नोपलक्षयन्ति, तदा तैर्वैद्यनैमित्तकभूततन्त्रविद्भिश्चिकित्सकैः सा ब्राह्मणीपर्यनुयुक्ता--कस्मात् कालादारभ्य तवैवंविधा दीप्ताग्निता समुत्पन्ना? तया अभिहितम्--गर्भलम्भसमकालमेव स एवंविध उपक्रमः कृतः।
145.025. यतो नैमित्तकवैद्यचिकित्सकैरभिहितम्--नास्याः कश्चिदन्यस्तद्रूपो रोगो नापि भूतग्रहावेशो बाधाकर उत्पन्नः।
145.027. अस्यैवैषा गर्भस्यानुभावेनैवंविधा दीप्ताग्निता।
145.027. यतो ऽसौ ब्राह्मण उपलब्धवृत्तान्तः स्वस्थीभूतः।
145.028. सापि ब्राह्मणी नैव कदाचिदन्नपानस्य तृप्ता।
145.028. अनुपूर्वेण समकालमेव पुत्रो जातः।
145.029. तस्य दारकस्य जातमात्रस्य सा ब्राह्मणी विनीतक्षुद्दुःखा संवृत्ता।
145.029. स दारको जातमात्र एव अत्यर्थं बुभुक्षयोपपीड्यते।
145.030. तस्य बुभुक्षया पीड्यमानस्य माता स्तनं दातुं प्रवृत्ता।
145.031. स च दारकः स्तनं पीत्वापि सर्वं नैव तृप्तिमुपयाति।
145.031. पश्चात् तेन ब्राह्मणेन तया च ब्राह्मण्या तिरस्कृतप्रातिवेश्यस्वजनयुवत्यश्चाभ्यर्थ्य स्तनं तस्य दारकस्य दापयितुं प्रवृत्ताः।
146.001. <146>स च दारकः सर्वासामपि स्तनं पीत्वा नैव तृप्तिमभ्युपगच्छते।
146.001. पश्चात् तेन ब्राह्मणेन तयार्थे छगलिका कृत्वा।
146.002. स दारकस्तस्या अपि च्छगलिकायाः क्षीरं पीत्वा जनिकायाश्च स्तनं नैव तृप्यते।
146.003. तत्र कालेन कालं भिक्षवो भिक्षुण्यश्च पिण्डपातं प्रविष्य परिकथां कुर्वन्ति।
146.004. स दारकस्तां परिकथां श्रुत्वा तस्यां वेलायां न रोदिति, अवहितश्रोत्रस्तूष्णीभूत्वा तां धर्मश्रवणकथां शृणोति।
146.005. प्रत्यवासृतेषु भिक्षुभिक्षुणीषु च पुनः पिपासादुःखं प्रतिसंवेदयमानो रोहितुं प्रवृत्तः।
146.006. तैः संलक्षितम्--धर्मे वत्साय रुचिरिति।
146.006. तस्य धर्मरुचीति नाम प्रतिष्ठापितम्।
146.007. स च दारको ऽनुपूर्वेण मासार्धर्मासादीनामत्ययाद्भुञ्जानो नैव कदाचिदन्नपानस्य तृप्यति।
146.008. यदा च विशिष्टे वससि स्थितः, तदा तस्य मातापितृभ्यां भक्षभाजनं दत्तम्।
146.009. गच्छ वत्स, इदं ते भैक्षभाजनम्।
146.009. गृहीत्वा श्रावस्त्यां भिक्षां पर्यटित्वा आहारकृत्यं कुरु।
146.010. यतः स दारको भैक्षभाजनं गृहीत्वा श्रावस्त्यां भैक्षं पर्यटति।
146.010. पर्यटन्नेव च भुक्त्वा भुक्त्वा अतृप्यमान एव गृहमागच्छति।
146.011. यतो ऽसौ संलक्षयति--किं मया कर्म कृतम् यस्य कर्मणो विपाकेन न कदाचित् वितृप्यमान आहारमारागयामि? स विषण्णचेताश्चिन्तयितुं प्रवृत्तह्--किं तावदग्निप्रवेशं करोमि, उत जलप्रवेशमथ तटप्रपातं करोमि? स एवं चिन्तया स्थितः।
146.014. उपासकेनोपलक्षितः।
146.014. तस्य तेनोक्तम्--किं चिन्तापर एवं तिष्ठसि? गच्छ त्वम्।
146.015. महान्तं बुद्धशासनं महर्द्धिकं महानुभावम्।
146.015. तत्र प्रव्रज।
146.015. तत्र च त्वं प्रव्रजितः कुशलानां धर्माणां संचयं करिष्यसि।
146.016. अकुशलाश्च ते धर्मा ये ऽस्मिन्नपि जन्मनि संचिता भविष्यन्ति, ते तन्वीभविष्यन्ति।
146.017. यदि तावद्गुणगणानधिगमिष्यसि, पर्यतीकृतस्ते संसारो भविष्यति।
146.018. अथ स महात्मा उपासकेन चोदितो जेतवनं गतः।
146.018. जेतवनं गत्वा तत्र भिक्षून् पाठस्वाध्यायमनसिकारोद्युक्तान् दृष्ट्वा अतीव प्रसादजातः।
146.019. भिक्षुमुपसंक्रम्यैवं वदति--अर्य, प्रव्रजितुमिच्छामि।
146.020. यतो भिक्षुभिरुक्तह्--मातापितृभ्यामनुज्ञातो ऽसि? स कथयति--नाहं मातापितृभ्यामनुज्ञातः।
146.021. तैरुक्तह्--गच्छ वत्स, मातापितृभ्यामनुज्ञां मार्गस्व।
146.021. यतः स मातापितृभ्यां सकाशादनुज्ञां मार्गितुं प्रवृत्तः।
146.022. स मातापितृभ्यामभिहितह्--गच्छ वत्स, यथाभिप्रेतं कुरु।
146.023. स लब्धानुज्ञो भिक्षुसकाशं गतः।
146.023. पश्चाद्भिक्षुणा प्रव्राजितः।

146.024. तत्र च भिक्षूणां कदाचित् पिण्डपातो भवति, कदाचित् निमन्त्रणं भवति।
146.024. स च यस्मिन् दिवसे पिण्डपातो भवति, तत्रोपाध्यायेनोच्यते--वत्स, किं तृप्तो ऽसि उत न? स उपाध्यायस्य कथयति--नास्ति तृप्तिः।
146.026. यत उपाध्यायेनास्य संलक्षितह्--तरुणवयसा प्रव्रजितो दीप्ताग्नितया न तृप्तिमुपयाति।
146.027. स आत्मीयादपि पिण्डपतात् तस्य संविभागं प्रारब्धः कर्तुम्।
146.028. पुनश्च पृच्छति--वत्स, किमिदानीं तृप्तो ऽसि? अथ स तमुपाध्यायं वदति--न तृप्तो ऽस्मि।
146.029. यत उपाध्यायस्तं श्रुत्वा सप्रेमान् भिक्षूनन्यांश्च सार्धविहारिणः प्रारब्धो वक्तुम्।
146.030. यतः समानोपाध्यायैः समानाचार्यैरन्यैश्च सप्रेमकैर्भिक्षुभिरुपसंहार आरब्धः कर्तुम्।
146.031. तेषामन्तिकाल्लभमानो नैव तृप्तिमुपयाति।
146.031. यदा च निमन्त्रणं भवति, तदापि ते तथैव तस्योपसंहारं कुर्वन्ति।
146.032. दानपतिरपि विदित्वा यद्यदधिकं तत्तदस्मै दत्वा आगच्छति।
147.001. <147>अथ पानकं भवति तदपि तथैव यदधिकं भवति तत्तस्यानुप्रदीयते।
147.001. तस्य च यतः प्रव्रजितस्य न कदाचिदन्नपानेन कुक्षिः पूणः।
147.002. तेन खलु समयेन अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रितः।
147.003. भगवान् भिक्षुसंघेन सार्धमन्तर्गृहं प्रविष्टः पूर्वाह्णे निवास्य पात्रचीवरमादाय।
147.004. धर्मरुचिर्विहारे उपधिवारिको व्यवस्थापितः॥
147.005. तत्र च श्रावस्त्यामन्यतमो गृहपतिः प्रतिवसति।
147.005. तेन चैवमुपलब्धम् यो ऽसंविदितमेव बुद्धप्रमुखं भिक्षुसंघं भोजयति स सहसैव भोगैरभ्युद्गच्छति।
147.006. यतस्तेन पञ्चमात्राणां भिक्षुशतानामाहारः समुदानीतः।
147.007. स तस्याहारस्य शकटं पूरयित्वा प्रणीतप्रणीतस्य शुचिनः सार्धं सर्वरूपैर्मित्रस्वजनसहायो बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति विहारं निर्गतः।
147.009. स पश्यति तस्मिञ् जेतवने भिक्षव एव न सन्ति।
147.009. तेन तत्रान्वाहिण्डता उपधिवारिको धर्मरुषिर्दृष्टः।
147.010. तस्य तेन गृहपतिनोक्तम्--आर्य, क्व गता भिक्षवह्? स कथयति--अन्तर्गृहे उपनिमन्त्रिताः प्रविष्टाः।
147.011. स गृहपतिस्तच्छुत्वा दुर्मना व्यवस्थितह्--कष्टम्, एवमस्माकं विफलः परिश्रमो जातः।
147.012. संचिन्त्य च तस्य धर्मरुचेः कथयति--आर्य, भक्ष त्वमपि तावत्।
147.012. स कथयति--यदि ते महात्मन् परित्यक्तं भवति।
147.013. ततस्तेन गृहपतिना संलक्षयित्वा येनाहारेणैकस्य भिक्षोः पर्याप्तं भवति, तावदन्नपानं शकटं गृहीत्वा तं धर्मरुचिं परिवेषयितुं प्रवृत्तः।
147.014. तेन धर्मरुचिना भोक्तुमारब्धं तन्निरवशिष्टम्।
147.015. नैव तृप्तः।
147.015. गृहपतिः संलक्सयति--नायं तृप्तः।
147.016. तेन उच्यते--आर्य, पुनर्भोक्ष्यसे? स कथयति--महात्मन्, यदि ते परित्यक्तम्।
147.016. ततस्तेन गृहपतिना भूयस्तस्मात् शकटाद्येन भिक्षुद्वयस्याहारेण पर्याप्तं स्यात्, तावदन्नपानं शकटं गृहीत्वा भोजयितुं प्रवृत्तः।
147.018. यतो धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः।
147.018. गृहप्तिना भूयः संलक्षितम्--नायं तृप्तः।
147.019. तेनोक्तम्--आर्य, पुनर्भोक्ष्यसे? स कथयति--महात्मन्, यदि ते परित्यक्तम्।
147.020. यतस्तस्माच्छकटादन्नपानं गृहीत्वा त्रयाणां भिक्षूणां पर्याप्तं स्यादिति पुनर्भोजयितुं प्रवृत्तः।
147.021. स धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः।
147.021. पृष्टह्--आर्य, पुनर्भोक्ष्यसे? स कथयति--यदि ते परित्यक्तम्।
147.022. यतः स गृहपतिस्तस्मादन्नपानं गृहीत्वा येन चतुर्णां भिक्षूणां पर्याप्तं स्यादिति पुनर्भोजयितुं प्रवृत्तः।
147.023. स धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः।
147.023. पृष्टह्--आर्य, पुनर्भोक्ष्यसे? भूयः स कथयति--यदि ते परित्यक्तम्।
147.024. यतः पुनस्तस्माच्छकटाद्येन पञ्चभिक्षूणामन्नपानैस्तृप्तिः स्यात्, तावद्गृहीत्वा पुनर्भोजयितुं प्रवृत्तः।
147.025. तदपि चाभ्यवहृतम्।
147.025. नैव तृप्तः।
147.026. विस्तरेण यावद्दशानां भिक्षूणामन्नपानेन पर्याप्तं स्यात्, तावद् भुक्त्वा नैव तृप्यते।
147.026. यतस्तेन संलक्षितम्--नायं मनुष्यो मनुष्यविकारः।
147.027. यतः श्रूयते पञ्चभिर् नीलवाससो यक्षशतैर्जेतवनमशून्यमिति तेषां भविष्यत्येव अन्यतमः।
147.028. इति संचिन्त्य गर्भरूपाणि गृहे ऽनुप्रवेशयितुं प्रवृत्तह्--गच्छथ यूयं शीघ्रं गृहमेव, अहमेवैको यदि जीवामि म्रिये वेति।
147.029. स गृहजनं विसर्ज्य मरणभयभीतस्तस्मात् शकटादन्नपानं गृहीत्वा परिवेषयितुमारब्धः।
147.030. स च स्वैरं भुञ्जति।
147.031. गृहपतिना उक्तम्--आर्य, त्वरितत्वरितं प्रतीच्छस्व।
147.031. यतस्तेन धर्मरुचिना क्षिप्रं प्रतिगृहीत्वा भिक्तुमारब्धम्।
147.032. स गृहपतिस्त्वरितत्वरितं परिवेषयित्वा निरवशेषतस्तदन्नपानं शकटं दत्त्वा <148>दक्षिणादेशनामपि भयगृहीतो ऽश्रुत्वा त्वरितत्वरितं वन्दाम्यार्येति पृष्ठमनवलोकयमानो नगरं प्रस्थितः।
148.002. तस्मान्नगरात् पिण्डपातनिर्हारको भिक्षु तस्यैव पिण्डपातं गृहीत्वा गतः।
148.003. तेन तदपि भुक्तम्।
148.003. तस्य धर्मरुचेर् न कदाचिद्यतो जातस्य कुष्किं पूर्णः।
148.003. तद्दिवसं चास्य तेनाहारेण तृप्तिर्जाता।
148.004. तस्य च गृहपतेर् नगरं प्रविशतो ऽभिमुखं भगवान् भिक्षुसंघपरिवृतः संप्राप्तः।
148.005. स गृहपतिर्भगवतः कथयति--भगवन्, अहं बुद्धप्रमुखं भिक्षुसंघमुद्दिश्य पञ्चानां भिक्षुशतानां तृप्तितः शकटमन्नपानस्य पूरयित्वा जेतवनं गतो बुद्धप्रम्युखं भिक्षुसंघं भोजयिष्यामीति।
148.007. न च मे तत्र भिक्षवो लब्धाः।
148.007. एको मे भिक्षुर्दृष्टः।
148.007. तेन समाख्यातं बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहम् उपनिमन्त्रणं प्रविष्टम्।
148.008. तस्य ममैवं चित्तमुत्पन्नम्--एषो ऽपि तावदेको भुङ्क्तामिति।
148.009. यतस्तस्य ममानुपूर्वेण सर्वं तदन्नपानं शकटं दत्तम्।
148.009. तेन सर्वं निपुणतो ऽभ्यवहृतम्।
148.010. किं भगवन् मनुष्यो ऽथ वा अमनुष्यह्? भगवताभिहितम्--गृहपते, भिक्षुः स धर्मरुचिर् नांना।
148.011. प्रामोद्यमुत्पादय, अद्य स त्वदीयेनान्नपान्नेन तृप्तो ऽर्हत्त्वं साक्षात्करिष्यति॥
148.012. अथ भगवाञ् जेतवनमभ्यागतः।
148.012. भगवान् संलक्षयति--को ऽसौ दानपतिर्भविष्यति यो ऽसौ धर्मरुचेरेतावता आहारेण प्रतिदिवसम् योगोद्वहनं करिष्यति? यतो ऽस्य भगवता अभिहितम्--दृष्टस्त्वया धर्मरुचे महासमुद्रः।
148.014. स कथयति--नो भगवन्।
148.014. यतो भगवानाह--गृहाण मदीयं चीवरकर्णिकम्, पश्चात् ते ऽहं महासमुद्रं दर्शयामि।

148.015. यतो धर्मरुचिना भगवतश्चीवरकर्णिको ऽवलम्बितः, पश्चाद्भगवान् विततपक्ष इव हंसराजः सहचित्तोत्पादात् ऋद्ध्या धर्मरुचिं गृहीत्वा समुद्रतटमनुप्राप्तः।
148.017. यस्मिंश्चास्य स्थाने तिमितिमिंगिलभूतस्यास्थशकला तिष्ठति, तत्र नीत्वा स्थापितः।
148.018. उक्तं चास्य--गच्छ वत्स, मनसिकारं चिन्तय।
148.018. यतो ऽसौ ध्रमरुचिस्तां समीक्षितुमारब्धः।
148.019. किमेतत् काष्ठं स्यादथास्थिशकला, अथ फलकिनी स्यात्।
148.020. स तस्माद् व्यक्तिमलभमानः पर्यन्तमन्वेषितुं प्रवृत्तः।
148.020. व्यक्तिं चोपलब्धम्।
148.020. स इतश्चामुतश्च तस्या अनुपार्श्वनं तां पर्येषमाणः श्रममुपगतः।
148.021. न चास्य पर्यन्तमासादयति।
148.022. तस्यैतदभवत्--नाहमस्य व्यक्तिं ज्ञास्यामि किमेतदिति, न च पर्यन्तमासादयिष्ये।
148.022. गच्छामि, अस्मिन्नर्थे भगवन्तमेव पृच्छामि।
148.023. यतो ऽसौ भगवतो ऽन्तिकं गत्वा भगवन्तं पृच्छति--किं तद्भगवन्? नाहं तस्य व्यक्तिमुपलभामि।
148.024. यतो ऽस्य भगवानाह--वत्स, अस्थिशकलैषा।
148.025. स कथयति--भगवन्, एवंविधो ऽसौ सत्त्वो यस्येदृशी अस्थिशकला? भगवतोक्तम्--तृप्यस्व धर्मरुचे भवेभ्यः, तृप्यस्व भवोपकरणेभ्यः।
148.026. तवैषा अस्थिशकला।
148.026. धर्मरुचिस्तं श्रुत्वा भगवद्वचो व्याकुलितचेताः कथयति--ममैषेदृशी अस्थिशकला? तस्योक्तम्--एषा धर्मरुचे तवास्थिशकला।
148.028. तथाविधमुपश्रुत्य अतीव संविग्नः।
148.028. यतो ऽस्य भगवता अववादो दत्तह्--धर्मरुचे, इदं चेदं मनसिकुरु।
148.029. इत्युक्त्वा भगवान् विततपक्ष इव राजहंस ऋद्ध्या जेतवनमनुप्राप्तः।
148.030. अथ धर्मरुचिना चिन्तयता मनसिकारमनुतिष्ठता उष्मगतान्युत्पादितानि मुर्धानः क्षान्तयो लौकिका अग्रधर्मा दर्शनमार्गो भावनामार्गः।
148.031. स्रोतापत्तिफलं प्राप्तम्।
148.032. सकृदागमिफलमनागमिफलमर्हत्त्वं प्राप्तम्।
148.032. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन <149>आकाशपाणितलसमचित्तो ऽनुनयप्रतिघप्रहीणो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखो वासीचन्दनकल्पः।
149.002. सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।
149.003. समन्वाहर्तुमात्मनः पूर्वजातिं प्रवृत्तह्--कुतो ह्यहं च्युतः, कुत्रोपपन्न इति।
149.014. यतः पश्यति अनेकानि जातिशतानि नरकतिर्यक्प्रेतच्युतश्चोपपन्नश्च।
149.014. तस्यैतदभवत्--यदहं भगवता न समन्वाहृतो ऽभविष्यम्, अनागतास्वपि जातिषु उपसृतो ऽभविष्यम्।
149.005. यतः संलक्षयति--अनागताप्यात्मनो जातिसंततिर् निरन्तरमनुपरतप्रबन्धेन नरकप्रेतोपपत्तिः।
149.006. स एवं संलक्ष्य दुष्करकारको बत मे भगवान्।
149.007. यदि च भगवता ममैवैकस्यार्थे ऽनुत्तरा सम्यक्सम्बोधिरधिगता स्यात्, तन्महद्धि उपकृतं स्यात्, प्रागेवानेकेषां सत्त्वसहस्राणामपायगतिगमनमपनयति।
149.009. ततो ऽसौ धर्मरुचिरृद्ध्या जेतवनमनुप्राप्तो भगवन्तं दर्शनाय।
149.009. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो ऽभूत्।
149.010. धर्मं देशयति।
149.010. अथासौ धर्मरुचिर्येन भगवांस्तेनोपसंक्रान्तः।
149.011. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्।
149.012. एकान्तनिषण्णो भगवता अभिहितह्--चिरस्य धर्मरुचे? धर्मरिचिराह--चिरस्य भगवन्।
149.013. भगवानाह--सुचिरस्य धर्मरुचे? धर्मरुचिराह--सुचिरस्य भगवन्।
149.013. भगवानाह--सुचिरचिरस्य ध्रमरुचे? धर्मरुचिरस्य भगवन्॥
149.015. यतो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--भगवन् धर्मरुचिरिहैव श्रावस्त्यां जातो ऽस्मिन्नेव जेतवने प्रव्रजितो न कुतश्चिदागतो न कुत्रचिद्गतः।
149.017. इहैव तिष्ठन् भगवता धर्मरुचिरेवमुच्यते--चिरस्य धर्मरुचे, सुचिरस्य धर्मरुचे, सुचिरचिरस्य धर्मरुचे।
149.018. किं संधाय भगवान् कथयति? एवमुक्ते भगवान् भिक्षूनामन्त्रयते स्म--न भिक्षवः प्रत्युत्पन्नं संधाय कथयामि।
149.019. अतीतं संधाय कथयामि।
149.019. अतीतं संधाय मयैवमुक्तम्।
149.019. इच्छथ भिक्षवो ऽस्य धर्मरुचेः पूर्विकां कर्मप्लोतिमारभ्य धार्मिकथां श्रोतुम्? एतस्य भगवन् कालः, एतस्य सुगत समयो यद्भगवान् धर्मरुचिमारभ्य भिक्षूणां धार्मिकथां कुर्यात्।
149.021. भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति॥
149.023. भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि प्रथमे ऽसंख्येये क्षेमंकरो नाम तथागतो लोक उत्पन्नो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्।
149.025. स च क्षेमावतीं राजधानीमुपनिश्रित्य विहरति।
149.025. तस्यां च क्षेमावत्यां क्षेमो नाम राजा राज्यं कारयति।
149.026. तस्यां च क्षेमावत्यां राजधान्यामन्यतमो वणिक्श्रेष्ठी प्रतिवसति।
149.027. तेनासौ क्षेमंकरः सम्यक्सम्बुद्धः षष्टिं त्रैमासान् सार्धं भिक्षुसंघेन सर्वोपकरणैरुपस्थितः।
149.028. यतो ऽसौ श्रेष्ठी संलक्षयति--गच्छामि महासमुद्रम्।
149.028. भाण्डं समुदानीय तस्माच्च रत्नान्यानीय संघे पञ्चवार्षिकं करिष्यामीति।
149.029. एवं संचिन्त्य भाण्डं समुदानीय ग्रामनिगमपल्लीपत्तनराजधानीष्वनुपूर्वेण चञ्चूर्यमाणः समुद्रमनुप्राप्तः।
149.030. घण्टावघोषणं कृत्वा सामुद्रेण यानपात्रेण महासमुद्रमवतीर्णः।
149.031. अस्य तस्मिन् महासमुद्रे ऽवतीर्णस्य क्षेमंकरः सम्यक्सम्बुद्धः सकलम्बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः।
149.032. तस्य परिनिर्वृतस्य वशिनो भिक्षवह् <150>परिनिर्वृताः।
150.001. सप्ताहपरिनिर्वृतस्य शासनमन्तर्हितम्।
150.001. स च श्रेष्ठी संसिद्धयानपात्रेण देवतामानुष्यपरिगृहीतेन तस्मान्महासमुद्रात् तीर्णः।
150.002. उत्तीर्य च तं भाण्डं शकटैरुष्ट्रैर्गोभिर्गर्दभैश्च चोत्क्षिप्य अनुपूर्वेण संप्रस्थितः।
150.003. स च पन्थानं गच्छन् प्रातिपथिकान् पृच्छति--किं भवन्तो जानीध्वं क्षेमावत्यां राजधान्यां प्रवृत्तिह्? तैरुक्तम्--जानीमः।
150.004. स कथयति--अस्ति कश्चित् क्षेमावत्यां राजधान्यां क्षेमंकरो नाम सम्यक्सम्बुद्धह्? ते कथयन्ति--परिनिर्वृतः स भगवान् क्षेमंकरः सम्यक्सम्बुद्धः।
150.006. स च तच्छ्रुत्वा परं खेदमुपगतः।
150.006. संमूर्छितश्च भूमौ पतितः।
150.007. तस्माच्च जलाभिषेकेण प्रत्यागतप्राणो जीवित उत्थाय भूयः पृच्छति--किं भवन्तो जानीध्वं श्रावका अपि तावत्तस्य भगवतस्तिष्ठन्ति? तैरुक्तह्--ते ऽपि वशिनो भिक्षवः परिनिर्वृताः।

150.009. सप्ताहपरिनिर्वृतस्य च बुद्धस्य भगवतः क्षेमंकरस्य सम्यक्सम्बुद्धस्य क्षेमेण राज्ञा चैत्यमल्पेशाख्यं प्रतिष्ठापितम्।
150.010. तेन च गत्वा श्रेष्ठिना जनपदाः पृष्टाः।
150.010. अस्ति भवन्तस्तस्य भगवतो बुद्धस्य किंचित् स्तूपं प्रतिष्ठापितम्।
150.011. तैरुक्तम्--अस्ति, क्षेमेण राज्ञा अल्पेशाख्यं चैत्यं प्रतिष्ठपितम्।
150.012. तस्य एतदभवत्--एतं मया सुवर्णं क्षेमंकरं सम्यक्सम्बुद्धम् उद्दिश्यानीतम्।
150.013. स च परिनिर्वृतः।
150.013. यन्न्वहमेतेनैव सुवर्णेन तस्यैव भगवतश्चैत्यं महेशाख्यतरं कारयेयम्।
150.014. एवं विचिन्त्य क्षेमं राजानं विज्ञापयति--महाराज, इदं मया सुवर्णं क्षेमंकरं सम्यक्सम्बुद्धमुद्दिश्यानीतम्।
150.015. स च भगवान् परिनिर्वृतः।
150.015. इदानीं महाराज यदि त्वमनुजानीयात्, अहमेतेनैव सुवर्णेनैतत् तस्य भगवतश्चैत्यं महेशाख्यतरं कारयेयम्।
150.016. स राज्ञा अभिहितह्--यथाभिप्रेतं कुरु।
150.017. ततो ब्राह्मणा नगरं प्रति निवासिनः संभूय सर्वे तस्य महाश्रेष्ठिनः सकाशं गत्वा कथयन्ति--भो महाश्रेष्ठिन्, यदा क्षेमंकरो बुद्धो लोके ऽनुत्पन्न आसीत्, तदा वयं लोकस्य दक्षिणीया आसन्।
150.019. यदा तूत्पन्नः, तदा दक्षिणीयो जातः।
150.019. इदानीं तु तस्य परिनिर्वृतस्य वयमेव दक्षिणीयाः।
150.020. एतत् सुवर्णमस्माकं गम्यम्।
150.020. स तेषां कथयति--नाहम् युष्माकमेतत् सुवर्णं दास्यामि।
150.021. ते कथयन्ति--यद्यस्माकं न दास्यसि, न वयं तव कामकारं दास्यामः।
150.022. ते ब्राह्मणा बहवः, श्रेष्ठी चाल्पपरिवारः।
150.022. तेषां तथा व्युत्पद्यतां न लेभे तच्चैत्यम् यथेप्सितं तेन सुवर्णेन कारयितुम्।
150.023. अथ स श्रेष्ठी राज्ञः सकाशं गत्वा कथयति--महाराज, तच्चैत्यं न लभे ब्राह्मणानां सकाशाद्यथाभिप्रेतं कारयितुम्।
150.024. यतो ऽस्य राज्ञा स्वपुरुषो दत्तः सहस्रयोधी।
150.025. एवं च राज्ञा स्वपुरुष आज्ञप्तह्--यद्यस्य महाश्रेष्ठिनः स्तूपमभिसंस्कुर्वतः कश्चिदपनयं करोति, स त्वया महता दण्डेन शासयितव्यः।
150.026. एवं देवेति सहस्रयोधी पुरुषो राज्ञः प्रतिश्रुत्य निर्गतः।
150.027. निर्गम्य च तान् ब्राह्मणानेवं वदति--शृण्वन्तु भवन्तः, अहं राज्ञास्य महाश्रेष्ठिनः स्वपुरुषो दत्तह्--यद्यस्य स्तूपमभिसंस्कुर्वतः कश्चिद्विघातं कुर्यात्, स त्वया महता दण्डेन शासयितव्य इति।
150.029. यदि यूयमत्र किंचिद् विघ्नं करिष्यथ, अहं वो महता दण्डेनानुशासयिष्यामि।
150.030. ते ब्राह्मणाः सहस्रयोधिनः पुरुषस्यैवं श्रुत्वा भीताः।
150.030. यतस्तेन महाश्रेष्ठिना संचिन्त्य यथैतत् सुवर्णं तत्रैव गर्भसंस्थं स्यात् तथा कर्तव्यमिति तस्य स्तूपस्य सर्वैरेव चतुर्भिः पार्श्वैः प्रतिकण्ठुकया चत्वारि सोपानानि आरब्धानि कारयितुम्।
150.032. यावदनुपूर्वेण<151> प्रथमा मेढी ततो ऽनुपूर्वेण द्वितीया ततस्तृतीया मेढी यावदनुपूर्वेणाण्डम्।
151.001. तथाविधं च स्तूपस्याण्डं कृतम् यत्र सा यूपयष्टिरभ्यन्तरे प्रतिपादिता।
151.002. पश्चात् तस्यातिनवाण्डस्योपरि हर्मिका कृता।
151.003. अनुपूर्वेण यष्ट्यारोपणं कृतम्।
151.003. वर्षस्थाले महामणिरत्नानि तान्यारोपितानि।
151.004. तत्र च क्रियमाणे सहस्रयोधिनः पुरुषस्यैवमुत्पन्नम्--नात्र कश्चिदिदानीं प्रहरिष्यति।
151.005. विश्वस्तमनाः केनचित्कार्येण जनपदेषु गतः।
151.005. तेन च महाश्रेष्ठिना तस्य स्तूपस्य चतुर्भिः पार्श्वैश्चत्वारो द्वारकोष्ठका मापिताः, चतुर्भिः पार्श्वैश्चत्वारि महाचैत्यानि कारितानि, तद्यथा जातिरभिसम्बोधिर्धर्मचक्रप्रवर्तनं परिनिर्वाणम्।
151.007. तच्च स्तूपाङ्गणं रत्नशिलाभिश्चितम्।
151.008. चत्वारश्चोपाङ्गाश्चतुर्दिशं मापिताः।
151.008. पुष्करिण्यश्चतुर्दिशमनुपार्श्वेन मापिताः।
151.008. तत्र च विविधानि जलजानि माल्यानि रोपितानि तद्यथा उत्पलं पद्मं कुमुदं पुण्डरीकं सुगन्धिकं मृदुगन्धिकम्।
151.010. विविधानि च पुष्करिणीतीरेषु स्थलजानि माल्यानि रोपितानि, तद्यथा अतिमुक्तकं चम्पकपाटलावार्षिकामल्लिकासुमनायूथिका धातुष्कारी।
151.012. सर्वर्तुकालिकाः पुष्पफलाः स्तूपपूजार्थम्।
151.012. स्थावरा वृत्तिः प्रज्ञप्ताः।
151.012. स्तूपदासा दत्ताः।
151.013. शङ्खपटहवाद्यानि तूर्याणि दत्तानि।
151.013. ये तस्मिंश्चैत्ये गन्धैर्धूपैर्माल्यैश्च चूर्णैः काराः कुर्वन्ति।
151.014. तस्माच्चाधिष्ठानाद्विषयाच्चागम्य जनपदा गन्धैर्माल्यैर्धूपैश्चूर्णैस्तस्मिंश्चैत्ये कारं कुर्वन्ति।
151.014. यदि च दक्षिणो वायुर्वाति, दक्षिणेन वायुना सर्वपुष्पजातीनां गन्धेन तच्चैत्यमङ्गणं चास्य स्फुटं भवत्यनुभावितम्।
151.016. एवं पश्चिमेन वायुना, अनुपूर्वेणापि च वायुना।
151.016. वायता वायता तच्चैत्याङ्गणं च तेन विविधेन गन्धमाल्येन स्फुटं भवत्यनुभावितम्।
151.017. तस्मिंश्च स्तूपे सर्वजातकृतनिष्टिते सहस्रयोधी अभ्यागतः।
151.018. स तं स्तूपं दृष्ट्वा सर्वजातकृतनिष्ठितं कथयति--अस्मिंश्चैत्ये कारां कृत्वा किमवाप्यते? यतो ऽसौ श्रेष्ठी बुद्धोदाहरणं प्रवृत्तः कर्तुम्--एवं त्रिभिरसंख्येयैर्वीर्येण व्यायमता अनुत्तरा बोधिरवाप्यते।
151.020. स तं श्रुत्वा विषादमापन्नो हीनोत्साहतया कथयति--नाहं शक्ष्यामि अनुत्तरां सम्यक्सम्बोधिं समुदानयितुम्।
151.021. ततो ऽसौ श्रेष्ठी प्रत्येकबुद्धोदाहरणं प्रवृत्तः कर्तुम्--एवं सहस्रयोधी तस्यापि वर्णोदाहरणं श्रुत्वा विषण्णचेताः कथयति--एतामप्यहं प्रत्येकबोधिं न शक्तः समुदानयितुम्।
151.023. ततः स महाश्रेष्ठी श्रावकवर्णोदाहरणं कृत्वा कथयति--अस्मिन्नपि तावत् प्रणिधत्स्व चित्तम्।
151.024. यतः सहस्रयोध्याह--त्वया पुनर्महाश्रेष्ठिन् कतमस्यां बोधौ प्रणिधानं कृतम्? तेन महाश्रेष्ठिनोक्तम्--अनुत्तरस्यां बोधौ चित्तमुत्पादितम्।
151.026. सहस्रयोध्याह--यदि त्वया अनुत्तरस्यां बोधौ चित्तमुत्पादितम्, अहं तवैव श्रावकः स्याम्।
151.027. त्वयाहं समन्वाहर्तव्यः।
151.027. यतो ऽस्य श्रेष्ठी आहबहुकिल्बिषकारी बत भवान्।
151.028. किं तु लोके यदा त्वं बुद्धोत्पादशब्दं श्रुत्वा स्मृतिं प्रतिलभेथाः।
151.029. स च श्रेष्ठी तं चैत्यं कृत्वा निरीक्ष्य पादयोर् निपत्य प्रणिधानं करोति--
151.030. अनेन दानेन महद्गतेन बुद्धो भवेयं सुगतः स्वयम्भूः।
151.032. तीर्णो ऽहं तारयेयं जनौघानतारिता ये पौर्वकैर्जिनेन्द्रैः

16.2

152.001. <152>भगवानाह--यो ऽसौ अतीते ऽध्वनि श्रेष्ठी अभूत्, अहमेव स तस्मिन् समये बोधिसत्त्वचर्यां वर्तामि।
152.002. यो ऽसौ सहस्रयोधी, एष एव धर्मरुचिस्तेन कालेन तेन समयेन।
152.003. इदं मम प्रथमे ऽसंख्येये एतस्य धर्मरुचेर्दर्शनम्।
152.003. तत्संधाय कथयामि--चिरस्य धर्मरुचे।
152.004. यतो धर्मरुचिराज्ञायाह--चिरस्य भगवन्॥
152.005. द्वितीये दीपंकरो नाम सम्यक्सम्बुद्धो लोक उत्पन्नो विद्याचरणसम्यक्सम्बुद्धः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्।
152.006. अथ दीपमकरः सम्यक्सम्बुद्धो जनपदेषु चारिकां चरन् द्वीपावतीं राजधानीमनुप्राप्तः।
152.007. द्वीपावत्यां राजधान्यां द्वीपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च।
152.009. तत्र दीपेन राज्ञा दीपंकरः सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः।
152.010. तस्य च दीपस्य राज्ञो वासवो नाम सामन्तराजो ऽभूत्।
152.010. तेन तस्य दूतो ऽनुप्रेषितह्--आगच्छ, इह मया दीपंकरः सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः।
152.011. तस्य पूजां करिष्याम इति।
152.012. तदा च वासवेन राज्ञा द्वादशवर्षाणि यज्ञमिष्ट्वा यज्ञावसाने राज्ञा पञ्च महाप्रदानानि व्यवस्थापितानि, तद्यथा--सौवर्णकं दण्डकमण्डलु, सौवर्णा सपात्री, चतूरत्नमयी शय्या, पञ्च कार्षापणशतानि, कन्या च सर्वालंकारविभूषिता।
152.014. तेन खलु समयेन अन्येषु जनपदेषु द्वौ माणवकौ प्रतिवसतः।
152.015. ताभ्यां चोपध्यायसकाशाद्वेदाध्ययनं कृतम्।
152.016. धर्मता आचार्यस्याचार्यधनमुपाध्यायस्योपाध्यायधनं प्रदेयमिति ज्ञात्वा चिन्तयतः।
152.017. ताभ्यां च श्रुतं वासवेन राज्ञा पञ्च महाप्रदानानि यज्ञावसाने समुदानीतानि, यो ब्राह्मणः स्वाध्यायसम्पन्नो भविष्यति स लप्स्यतीति।
152.018. तयोरेतदभवत्--गच्छवस्तत्र, तं प्रदानं प्रतिगृह्णीवः।
152.019. को ऽस्माकं तत्र बहुश्रुततमो वा स्वाध्यायतमो भविष्यतीति संचिन्त्य येन वासवस्य राज्ञो महानगरं तेन संप्रस्थितौ।
152.020. तस्य च राज्ञो देवतया आरोचितम्।
152.020. यौ एतौ द्वौ माणवकौ आगच्छतः सुमतिश्च मतिश्च, अनयोर्द्वयोः सुमतेरेतत्प्रदानं दद।
152.021. यदेवं द्वौ माणककौ आगच्छतः सुमितश्च मतिश्च, अनयोर्द्वयोः सुमतेरेतत्प्रदानं दद।
152.021.यदेवं महाराज त्वया द्वादश वर्षाणि यज्ञ इष्टः, अस्मात् पुण्यफलान्महत्तमपदस्य सुमतेर्माणवकस्य महाप्रदानं दास्यसि।
152.023. स राजा संलक्षयति--नूनमेतौ महात्मानौ येषामामर्थाय देवता अप्यारोचयन्ति।
152.024. यतो ऽसौ राजा पश्यति माणवकौ दूरत एवागच्छन्तौ अग्रसनमीभिरुह्यवस्थितौ।
152.025. यतो राजा वासवस्त्यौ सुमतिं माणवं पृच्छति--भवान् सुमति? तेनोक्तम्--अहम्।
152.028. यतो राजा वासवः सुमतिं माणवमग्रासने भोजयित्वा पञ्च प्रदानानि प्रयच्छति।
152.029. सुमतिर्माणवश्चत्वारि महाप्रदानानि गृह्णाति दण्डकमण्डलुप्रभृतीनि, एकं कन्याप्रदानं न प्रतिगृह्णाति।
152.030. स कथयति--अहं ब्रह्मचारी।
152.030. यतः सा कन्या सुमतिं माणवं प्रासादिकमभिरूपं दृष्ट्वा लुब्धा स्नेहोत्पन्ना, तं सुमतिं माणवमेवमाह--प्रतिगृह्ण मां ब्राह्मण।
152.032. स कथयति--न शक्यं प्रतिगृहीतुम्।
152.032. यतः सा कन्या राज्ञा प्रदानबुद्ध्या परित्यक्ता <153>न पुनर्गृहीता, सुमतिनापि माणवेनाप्रतिगृह्यमाणा राज्ञो दीपस्य दीपावतीं नगरीं गता।
153.002. सा तत्र गत्वा तदात्मीयमलंकारं शरीरादवतार्य मालाकारायानुप्रयच्छति--अस्यालंकारस्य मूल्यं मे प्रतिदिवसं देवस्यार्थे नीलोत्पलानि ददस्व।
153.003. सा तेनोपक्रमेण तदलंकारिकं सुवर्णं दत्वा देवशुश्रऊषिका संवृत्ता।
153.004. स च माणवकः सुमतिस्तानि चत्वारि महाप्रदानानि गृह्य उपाध्यायसकाशं गतः।
153.005. गत्वा चोपाध्यायाय तानि चत्वारि महाप्रदानान्यनुप्रयच्छति।
153.006. तेभ्यश्चोपाध्यायस्त्रीणि प्रतिगृह्णाति, कार्षापणानां तु पञ्च शतानि तस्यैव सुमतेर्ददाति।
153.006. स च सुमतिस्तस्यामेव रात्रौ दश स्वप्नानद्राक्षीत्--महासमुद्रं पिबामि, वैहायसेन गच्छामि, इमौ चन्द्रादित्यौ एवंमहर्द्धिकौ एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि, राज्ञो रथे योजयामि ऋषीन्, श्वेतान् हस्तिनः, हंसान्, सिंहान्, महाशैलं पर्वतानिति।
153.009. स तान् दृष्ट्वा प्रतिबुद्धः।
153.010. प्रतिबुद्धस्यैतदभवत्--क एषां स्वप्नानां मम व्याकरणं करिष्यति? तत्र पञ्चाभिज्ञ ऋषिर् नातिदूरे प्रतिवसति।
153.011. अथ सुमतिर्माणवः संशयनिर्णयनार्थम् ऋषेः सकाशं गतः।
153.012. सुमतिस्तस्य ऋषेः प्रतिसंमोदनं कृत्वा स्वप्नानाख्यायाह--कुरुष्व मे एषां स्वप्नानां निर्णयम्।
153.013. स ऋषिराह--नाहमेषां स्वप्नानां व्याकरणं करिष्यामि।
153.013. गच्छ दीपावतीं राजधानीम्।
153.013. तत्र दीपेन राज्ञा दीपंकरो नाम सम्यक्सम्बुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः।
153.014. स एषां स्वप्नानां व्याकरणं करिष्यति।
153.015. अथ वासवो राजा तस्य दीपस्य राज्ञः प्रतिश्रुत्य अशीत्यमात्यसहस्रपरिवृतो दीपावतीं राजधानीमनुप्राप्तः।
153.016. तेन च दीपेन राज्ञा सप्तमाद्दिवसाद्दीपंकरस्य सम्यक्सम्बुद्धस्य साभिसंस्कारेण नगरप्रवेशं करिष्यामीति सर्वविषयाधिष्ठानाञ्च सर्वपुष्पाणां संग्रहं कर्तुमारब्धः।
153.018. तत्र च यस्मिन् दिवसे राज्ञा दीपेन तस्य दीपंकरस्य सम्यक्सम्बुद्धस्य साभिसंस्कारेण नगरप्रवेश आरब्धः कर्तुम्, तस्मिन्नेव दिवसे सुमतिरपि तत्रैवागतः।
153.020. तत्र राज्ञा सर्वपुष्पाणां संग्रहः कारितः।
153.020. सा च देवोपस्थायिका दारिका मालाकारसकाशं गता--प्रयच्छ मे नीलोत्पलानि, देवार्चनं करिष्यामीति।
153.022. मालाकार आह--अद्य राज्ञा सर्वपुष्पाणि गृहीतानि दीपंकरनगरप्रवेशस्यार्थे।
153.022. सा कथयति--गच्छत, पुनरपि तत्र पुष्किरिण्याम् यदि मत्पुण्यैर् नीलोत्पलपद्ममनुद्धृतमासाद्येत।
153.023. तत्र पुष्किरिण्यां सुमतेः पुण्यानुभावात् सप्त नीलपद्मानि प्रादुर्भूतानि।
153.024. यतः स मालाकारो गतः, स तानि पश्यति।
153.025. दृष्ट्वा च दारिकया मालाकारस्योक्तम्--उद्धरैतानि पद्मानि।
153.025. मालाकारः कथयति--नाहमुद्धरिष्यामि।
153.026. राजकुलान्ममोपालम्भो भविष्यति।
153.026. यतः सा कथयति--न।
153.027. त्वया सर्वपुष्पाण्युद्धृत्य राज्ञः पूर्वं दत्तान्येव।
153.027. मालाकार आह--दतानि।
153.027. यतः सा दारिका कथयति--मदीयैः पुण्यैरेतानि प्रादुर्भूतानि, प्रयच्छोद्धृतानि मम।
153.028. मालाकारः कथयति--कथमेतानि प्रवेशकानि भविष्यन्त्यसंविदितं राजकुलस्य? दारिका आह--उद्धरतु भवान्।

153.030. अहमुदककुम्भे प्रक्षिप्तं प्रवेशयिष्यामि।
153.030. तेन मालाकारेणैवं श्रुत्वा तस्या दारिकयास्तान्युद्धृत्य अनुप्रदत्तानि।
153.031. सा तानि गृहीत्वा उदककुम्भे प्रक्षिप्य तत्कुम्भमुदकस्य पूरयित्वा अधिष्ठानं गता प्रस्थिता।
153.032. स च सुमतिस्तत्स्थानमनुसम्प्राप्तः।
153.032. तस्यैतदभवत्--कथमहं बुद्धं भगवन्तम् <154>दृष्ट्वा न पूजयामि? स मालाकारगृहाण्यन्वाहिण्डति सर्वपुष्पान्वेषणपरः, न च किंचिदेकपुष्पमासादयति।
154.002. पश्चाद्बाह्येनाधिष्ठानान्निर्गम्य आरामेणारामं पुष्पाणि पर्येषमाणः पर्यटति, न चैकपुष्पमासादयति।
154.003. अथ पर्यटमानस्तदुद्यानं संप्राप्तः।
154.003. सा च दारिका तस्मादुद्यानात् तस्य सुमतेर्माणवस्याभिमुखमागता।
154.004. यतः पुण्यानुभावेन तानि नीलपद्मानि तस्मादुदककुम्भादभ्युद्गतानि।
154.005. यतस्तानि सुमतिर्दृष्ट्वा तस्या दारिकायाः कथयति--प्रयच्छ ममैतानि पद्मानि।
154.006. मत्सकाशादेषां निष्क्रयं पञ्चकार्षापणशतं गृहाण।
154.006. सा दारिका तस्य सुमतेः कथयति--तदा नेच्छसि मां प्रतिगृहीतुम्।
154.007. इदानीं मां पद्मानि याचसे।
154.007. नाहं दास्यामि।
154.008. एवमुक्त्वा तं सुमतिं माणवमुवाच--किमेभिः करिष्यसि? सुमतिराह--बुद्धं भगवन्तमर्चयिष्यामि।
154.009. पश्चाद्दारिका कथयति--किं मम कार्षापणैः कृत्यम्? एवमहं बुद्धाय दास्ये, यदि त्वमेषां पद्मानां प्रदानफलेन ममापि जात्यां जात्यां पत्नीमिच्छसि, अस्य दानस्य प्रदानकाले यद्येवं प्रणिधानं करोषि--जात्यां जात्यां मम भार्या स्यादिति।
154.011. सुमतिराह--वयं दानाभिरताः स्वगर्भरूपपरित्यागं स्वमांसपरित्यागं च कुर्मः।
154.012. ततः सा दारिका सुमतेः कथयति--त्वमेवं प्रणिधानं कुरु, पश्चाद्येनाभ्यर्थीयसे, तस्य मामनुप्रयच्छेथाः।
154.013. एवमुक्ते तया दारिकया तस्य सुमतेः पञ्च पद्मान्यनुप्रदत्तानि, आत्मना द्वे गृहीते।
154.014. गाथां च भाषते--
154.015. प्रणिधाम् यत्र कुर्यास्त्वं बुद्धमासाद्य नायकम्।
154.016. तत्र ते ऽहं भवेत् पत्नी नित्यं सहधर्मचारिणी

16.3

154.017. तेन राज्ञा तत्र सर्वमपगतपाषाणशर्करकपालं कारितमुच्छ्रितध्वजपताकातोरणमामुक्तपट्टदामं गन्धोदकचूर्णपरिषिक्तम्।
154.018. नगरद्वारादारभ्य यावच्च विहारो यावच्च नगरमेतदन्तरमपगतपाषाणशर्करकपालं कारितमुच्छ्रितध्वजपताकतोरणमामुक्तपट्टदाम गन्धोदकचूर्णपरिषिक्तम्।
154.020. स च राजा शतशलाकं छत्रं गृहीत्वा दीपंकरस्य सम्यक्सम्बुद्धस्य प्रत्युद्गतः।
154.021. एवमेवामात्याः।
154.021. एवमेव वासवो राजा अमात्यैः सह प्रत्युद्गतः।
154.021. दीपो राजा भगवतो बुद्धस्य पादयोर् निपत्य विज्ञापयति--भगवन्, अधिष्ठानं प्रविश।
154.022. यतः स भगवान् भिक्षुसंघपुरस्कृतो ऽधिष्ठानप्रवेशाभिमुखः संप्रस्थितः।
154.023. स च राजा दीपः शतशलाकं छत्रं दीपंकरस्य सम्यक्सम्बुद्धस्य धारयति।
154.024. तथैवामात्याः, वासवो राजा अमात्यसहायः।
154.024. भगवता ऋद्ध्या तथा अधिष्ठितम् यथा एकैकः संलक्षयति--अहं भगवतश्छत्रं धारयामीति।
154.025. अथ भगवांस्तथाविधया शोभया जनमध्यमनुप्राप्तः।
154.026. तत्र भगवता साभिसंस्कार इन्द्रकीले पादो व्यवस्थापितः।
154.027. यदैव भगवता इन्द्रकीले पादो व्यवथापितः, तदैव समनन्तरकालं पृथिवी षड्विकारं प्रकम्पिता--चलिता प्रचलिता संप्रचलिता, वेधिता प्रवेधिता संप्रवेथिता।
154.028. धर्मता च बुद्धानां भगवताम् यदेन्द्रकीले साभिसंस्कारेण पादौ व्यवस्थापयन्ति, चित्राण्याश्चर्यण्यद्भुतधर्माः प्रादुर्भवन्ति--उन्मत्ताः स्वचित्तं प्रतिलभन्ते, अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोत्रश्रवणसमर्था भवन्ति, मूकाः प्रव्याहरणसमर्था भवन्ति, पङ्गवो गमनसमर्था भवन्ति, मूढा गर्भिणीनां स्त्रीणां गर्भा अनुलोमीभवन्ति, हिडिनिगडबद्धानां च सत्त्वानां बन्धनानि <155>शिथिलीभवन्ति, जन्मजन्मवैरानुबद्धास्तदनन्तरं मैत्रचित्ततां प्रतिलभन्ते, वत्सा दामानि च्छित्त्वा मातृभिः संगच्छन्ति, क्रोशन्ति, अश्वा ह्रेषन्ते, ऋषभा गर्जन्ति, शुकसारिकाकोकिलजीवंजीवका
मधुरं निकूजन्ति, अनेरितानि वादित्रभाण्डानि मधुरशब्दान् निश्चारयन्ति, पेडाकृता अलंकारा मधुरशब्दान्निश्चरन्ति, उन्नताः पृथिवीप्रदेशा अवनमन्ति, अवनताश्चोन्नमन्ति, अपगतपाषाणशर्करकपालास्तिष्ठन्ति, अन्तरिक्षाद्देवता
दिव्यान्युत्पलानि क्षिपन्ति, पद्मानि कुमुदानि पुण्डरीकान्यगुरुचूर्णानि चन्दनचूर्णानि तगरचूर्णानि तमालपत्राणि दिव्यानि मन्दारवाणि पुष्पाणि क्षिपन्ति, पूर्वो दिग्भाग उन्नमति पश्चिमो ऽवनमति, पश्चिम उन्नमति पूर्वो ऽवनमति, दिक्षिण उन्नमत्युत्तरो ऽवनमति, उत्तर उन्नमति दक्षिणो ऽवनमति, मध्य उन्नमत्यन्तो ऽवनमति, अन्त उन्नमति मध्यो ऽवनमति।
155.009. तत्र च दीपावत्यां राजधान्यामनेकानि प्राणिशतसहस्राणि पुष्पैर्धूपैर्गन्धैश्च कारां कुर्वन्ति।
155.010. ते ऽपि च सुमतिश्च दारिका च येन दीपंकरः सम्यक्सम्बुद्धस्तेनानुगच्छन्ति पद्मानि गृह्य।
155.011. ते च तत्र महाजनकायेन पूजार्थं संपरिवृतस्य भगवत उपश्लेषं न लभन्ते।
155.012. भगवान् संलक्षयति--बहुतरं सुमतिर्माणवो ऽस्मान्महाजनकायात् पुण्यप्रसवं करिष्यति इति।
155.013. मत्वा महतीं तुमुलां वातवृष्टिमभिनिर्मिणोति।
155.014. यतस्तेन जनकायेनावकाशो दत्तः।
155.014. लब्धावकाशश्च सुमतिर्माणवो भगवन्तमसेचनकदर्शनं दृष्ट्वा अतीव प्रसादजातः।
155.015. प्रसादजातेन च तानि पञ्च पद्मानि भगवतः क्षिप्तानि।
155.016. तानि च भगवता दीपंकरेण सम्यक्सम्बुद्धेन तथा अधिष्ठितानि, यथा शकटीचक्रमात्राणि वितानं बुद्ध्वा व्यवस्थितानि।
155.017. गच्छतो ऽनुगच्छन्ति, तिष्ठतो ऽनुतिष्ठन्ति।
155.018. तथा दृष्ट्वा तया दारिकया प्रसादजातया द्वौ पद्मौ भगवतः क्षिप्तौ।
155.018. तौ चापि भगवता तथा अधिष्ठितौ यथा शकटीचक्रमात्रौ कर्णसमीपे वितानं बद्ध्वा व्यवस्थितौ।
155.019. तत्र च प्रदेशे तुमुलेन वातवर्षेण कर्दमो जातः।
155.020. पश्चात् सुमतिर्माणवो बुद्धं भगवन्तं सकर्दमं पृथिवीप्रदेशमुपगतः।
155.021. तस्मिन् सकर्दमे पृथिवीप्रदेशे जातं संतीर्य भगवतो भगवतः पुरतो गाथां भाषते--
155.022. यदि बुद्धो भविष्यामि बोधाय बुद्धवोधन।
155.023. आक्रमिष्यसि मे पद्भ्यां जटां जन्मजरान्तकाम्

16.4

155.024. ततस्तेन दीपंकरेण सम्यक्सम्बुद्धेन सम्यक्सम्बुद्धेन तस्य सुमतेर्माणवस्य जटासु पादौ व्यवस्थापितौ।
155.025. तस्य च सुमतेः पृष्ठतो ऽनुबुद्ध एव मतिर्माणवस्तिष्ठति।
155.025. तेन कुपितेनाभिहितं भगवतो दीपंकरस्य--पश्य तावद्भोः, अनेन दीपंकरेण सम्यक्सम्बुद्धेनास्य सुमतेर्माणवस्य तिरश्चाम् यथा पद्भ्यां जटा अवष्टब्धाः।
155.027. पश्चात् दीपंकरेण सम्यक्सम्बुद्धेन सुमतिर्माणवो व्याकृतह्--भविष्यसि त्वं नृभवाद्विमुक्तो मुक्तो विमुर्लोकहिताय शास्ता।
155.030. शाक्यात्मजः शाक्यमुनीति नांना त्रिलोकसारो जगतः प्रदीपः

16.5

156.001. <156>यदा च स सुमतिर्माणवो दीपंकरेण सम्यक्सम्बुद्धेन व्याकृतः, तत्समकालमेव वैहायसं सप्ततालानभ्युद्गतः।
156.002. ताश्चास्य जटाः शीर्णाः, अन्याः प्रविशिष्टतरा जटाः प्रादुर्भूताः।
156.003. स वैहायसस्थो महता जनकायेन दृष्टः।
156.003. दृष्ट्वा च प्रणिधानं कृतम्--यदा अनेनानुत्तरज्ञानमधिगतं तदास्य वयं श्रावका भवेम।
156.004. सापि च दारिका प्रणिधानं करोति--
156.005. प्रणिधानम् यत्र कुर्यास्त्वं बुद्धमासाद्य नायकम्।
156.006. तत्र ते ऽहं भवेत्पत्नी नित्यं सहधर्मचारिणी

16.6

156.007. यदा भवसि संबुद्धो लोके ज्येष्ठविनायकः।
156.008. श्राविका ते भविष्यामि तस्मिन् काल उपस्थिते

16.7

156.009. खगस्थं माणवं दृष्ट्वा सहस्राणि शतानि च।
156.010. श्रावकत्वं प्रार्थयन्ते सर्वे तत्र ह्यनागते

16.8

156.011. यदा भवसि संबुद्धो लोके ज्येष्ठविनायकः।
156.012. श्रावकास्ते भविष्यामस्तस्मिन् काले ह्युपस्थिते

मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc