भाषा

ENहिગુ
ग्रंथ पाठ

दिव्यावदान · अध्याय 14

14.1

118.020. भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी।
118.021. सो ऽपरेण समयेन सुहृत्सम्बन्धिबान्धवपरिवृतो ऽन्तर्जनपरिवृतश्चोद्यानभूमिं निर्गतः।
118.022. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य।
118.023. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः।
118.024. सो ऽध्वपरिश्रमाद्धातुवैषम्याश्च ग्लानः पिण्डार्थी तदुद्यानं प्रविष्टः।
118.025. स गृहपतिस्तं दृष्ट्वा पर्यवस्थितः।
118.025. तेन पौरुषेयाणामाज्ञा दत्ता--भवन्तः, निष्कासयतैनं प्रव्रजितमिति।
118.026. तेषां न कश्चिदुत्सहते निष्कासयितुम्।
118.027. तेन गृहपतिना भूयसा पर्यवस्थितेन स महात्माअ स्वयमेव ग्रीवायां गृहीत्वा निष्कासितः, उक्तश्च--क्रोडमल्लकानां मध्ये प्रतिवसेति।
118.028. स दुर्बलप्राणो भूमौ निपतितः।
118.028. स संलक्षयति--हतो ऽयं तपस्वी गृहपतिरुपहतश्च।
118.029. अभ्युद्धारो ऽस्य कर्तव्यः।
118.029. इति विदित्वा उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
118.030. आशु पृथग्जनस्य रिद्धिरावर्जनकरी।
118.031. स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कथयति--अवतरावतर महादक्षिणीय, मम दुश्चरितपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति।
118.032. स तस्यानुग्रहार्थमवतीर्णः।
118.032. तेन तस्य <119>पूजासत्कारं कृत्वा प्रणिधानं कृतम्--यन्मया एवंविधे सद्भूतदक्षिणीये ऽपकारः कृतः, मा अस्य कर्मणो भागी स्याम्।
119.002. यत्तूपकारः कृतः, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥
119.005. भगवानाह--किं किं मन्यध्वे भिक्षवो यो ऽसौ गृहपतिरेव, असौ स्वागतो भिक्षुस्तेन कालेन तेन समयेन।
119.006. यदनेन प्रत्येकबुद्धे काराः कृताः, तेनाढ्ये महाधने महाभोगे कुले जातः।
119.007. यदपकारः कृतः, तेन पञ्चजन्मशतानि क्रोडमल्लको जातः।
119.007. यावदेतर्ह्यपि चरमभविको ऽपि तत्क्रोडमल्लक एव जातः।
119.008. यत्प्रणिधानं कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
119.009. अहमनेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः।
119.010. भूयो ऽपि काश्यपे भगवति सम्यक्सम्बुद्धे प्रव्रजितो बभूव।
119.011. यस्य भिक्षोरन्तिके प्रव्रजितः, स भगवता काश्यपेन सम्यक्सम्बुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः।
119.012. तत्रानेन यावदायुर्ब्रह्मचर्यं चारितम्, न च कश्चिद्गुणगणो ऽधिगतः।
119.013. स मरणसमये प्रणिधानं कर्तुमारब्धह्--यन्मया भगवति काश्यपे सम्यक्सम्बुद्धे ऽनुत्तरे दक्षिणीये यादवायुर्ब्रह्मचर्यं चरितम्, न च कश्चिद्गुणगुणो ऽधिगतः, अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्सम्बुद्धेनोत्तरो माणवो व्याकृतह्--भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति, तस्याहं शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्याम्।
119.017. यथा माम् उपाध्यायो भगवता काश्यपेन सम्यक्सम्बुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः, एवं मामपि स भगवाञ् शाक्यमुनिः शाक्याधिराजो ऽभीक्ष्णं तेजोधातुं समापद्यमानानामग्रं निर्दिशेदिति।
119.019. तत्प्रणिधानवशादेतर्हि तथागतेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः।
119.020. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः।
119.022. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्मण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः।
119.023. इत्येवं भो भिक्षवः शिक्षितव्यम्॥
119.024. इत्यवोचद्भगवान्।
119.024. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
119.025. इति श्रीदिव्यावदाने स्वागावदानं नाम त्रयोदशमम्॥
********** अवदान 14 **********
120.001. दिव्14 सूकरिकावदानम्।
120.002. धर्मता खलु च्यवनधर्मणो देवपुत्रय्स पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति--अक्लिष्टानि वासांसि क्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ति, दौर्गन्धं कायेन निष्क्रामति, उभाभ्यां कक्षाभ्यां स्वेदः प्रादुर्भवन्ति, च्यवनधर्मा देवपुत्रः स्व आसने धृतिं न लभते।
120.003. अथान्यतमश्च्यवनधर्मा देवपुत्रः पृथिव्यामावर्तते, संपरिवर्त्यैवं चाह--हा मन्दाकिनी, हा पुष्करिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पुण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन, इति करुणकरुणं परिदेवते स्म।
120.007. अद्राक्षीच्छक्रो देवानामिन्द्रस्तं देवपुत्रमत्यर्थं पृथिव्यामावर्तन्तं परिवर्तन्तम्।
120.008. दृष्ट्वा पुनर्येन स देवपुत्रस्तेनोपसंक्रान्तः।
120.009. उपसंक्रम्य तं देवपुत्रमिदमवोचत्--हा कस्मात् त्वं मार्ष अत्यर्थं पृथिव्यामावर्तसे, संपरिवर्तसे, करुणकरुणं परिदेवसे--हा मन्दाकिनी, हा पुष्किरिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन इति करुणकरुणं परिदेवसे? एवमुक्ते देवपुत्रः शक्रं देवानामिन्द्रमिदमवोचत्--एषो ऽहं कौशिक दिव्यं सुखमनुभूय इतः सप्तमे दिवसे राजगृहे नगरे सूकर्याः कुक्षौ उपपत्स्यामि।
120.014. तत्र मया बहूनि वर्षाण्युच्चारप्रस्रावः परिभोक्तव्य इति।
120.014. अथ शक्रो देवानामिन्द्रः कारुण्यतया तं देवपुत्रमिदमवोचत्--एहि त्वं मार्ष, बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति।
120.016. अथ स देवपुत्रस्तिर्यग्योन्युपपत्तिभयभीतो मरणभयभीतश्च शक्रं देवानामिन्द्रमिदमवोचत्--एषो ऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्।
120.019. अथ स देवपुत्रस्त्रिशरणपरिगृहीतो भूत्वा च्युतः कालगतस्तुषिते देवनिकाये उपपन्नः॥
120.021. धर्मता खलु अधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नोर्ध्वम्।
120.021. अथ शक्रो देवानामिन्द्रस्तं देवपुत्रमवलोकयति--किमसौ देवपुत्रः सूकरिकायाः कुक्षौ उपपन्नो न वेति।
120.022. यावत् पश्यति--नोपपन्नस्तिर्यक्प्रेतेषु।
120.023. नरकेषूपपन्न इति पश्यति।
120.023. नोपपन्नः।
120.023. मनुष्याणां सभागतायामुपपन्न इति पश्यति।
120.024. नोपपन्नः।

120.024. चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशांश्चावलोकयितुमारब्धः।
120.025. तत्रापि नाद्राक्षीत्।
120.025. अथ शक्रो देवानामिन्द्रः कुतूहलजातो येन भगवांस्तेनोपसंक्रान्तः।
120.026. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
120.026. एकान्तनिषण्णः शक्रो देवानामिन्द्रो भगवन्तमिदमवोचत्--इहाहं भदन्त अद्राक्षमन्यतमं देवपुत्रं च्यवनधर्माणं पृथिव्यामावर्तमानं करुणकरुणं च परिदेवमानम्--हा मन्दाकिनि, हा पुष्किरिणि, हा वापि, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलाशिला, हा देवसभा, हा सुदर्शन इति।
120.029. तमेनमेवं वदामि--कस्मात् त्वं मार्ष अत्यर्थं शोचसि परिदेवसे क्रन्दसि उरसि ताडयसि संमोहापद्यस इति? स एवमाह--एषो ऽहं कौशिक दिव्यं सुखमपहाय इतः सप्तमे दिवसे राजगृहे नगरे सूकरिकायाः कुक्षौ उपपत्स्यामि।
120.031. तत्र मया <121>बहूनि वर्षाणि उच्चारप्रस्रावः परिभोक्तव्यं भविष्यति।
121.001. तमेनमेवं वदामि--एहि त्वं मार्ष बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति।
121.003. स एवमाह--एषो ऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्।
121.004. इत्युक्त्वा स देवपुत्रः कालगतः।
121.005. कुत्रासौ भदन्त देवपुत्र उपपन्नह्? भगवानाह--तुषिता नाम कौशिक देवाः सर्वकामसमृद्धयः।
121.006. तत्रासौ मोदते देवो गत्वेह शरणत्रयम्।
121.006. अथ शक्रो देवानामिन्द्र आत्तमानास्तस्यां वेलायामिमां गाथां गाथां भाषते--
121.008. ये बुद्धं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्।
121.009. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते

14.2

121.010. ये धर्मं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्।
121.011. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते

14.3

121.012. ये संघं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्।
121.013. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते

14.4

121.014. अथ भगवाञ् शक्रस्य देवानामिन्द्रस्य भाषितमनुसंवर्णयन्नेवमाह--एवमेतत् कौशिक, एवमेतत्।
121.016. ये बुद्धं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्।
121.017. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते

14.5

121.018. ये धर्मं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्।
121.019. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते

14.6

121.020. ये संघं शरणम् यान्ति न ते गच्छन्ति दुर्गतिम्।
121.021. प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते

मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc