दिव्यावदान · अध्याय 1
॥ दिव्यावदानम्॥
नमः श्रीसर्वबुध्हबोधिसत्त्वेभ्यः।
********** अवदान 1 **********
001.000. दिव्1 कोटिकर्णावदानम्।
001.001. बुद्धो भगवाञ् श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे।
001.001. अस्मात् परान्तके वासवग्रामे बलसेनो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी।
001.003. तेन सदृशात् कुलात् कलत्रमानीतम्।
001.003. स तया सार्धं क्रीडति रमते परिचारयति।
001.004. सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनायाचते आरामेदवतां वनदेवतां शृङ्गाटकदेवतां बलिप्रतिग्राहिकां देवताम्।
001.005. सहजां सहधर्मिकां नित्यानुबद्धामपि देवतामायाचते।
001.006. अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते।
001.007. दुहितरश्चेति।
001.007. तच्च नैवम्।
001.007. यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत् तद्यथा राज्ञश्चक्रवर्तिनः।
001.008. अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्राअ जायन्ते दुहितरश्च।
001.009. कतमेषां त्रयाणाम्? मातापितरौ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धरव्ः प्रत्युपस्थितो भवति।
001.010. एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश्च।
001.011. स चैवमायाचनपरस्तिष्ठति॥
001.012. अन्यतमश्च सत्त्वश्चरमभविकश्च हितैषी गृहीतमोक्षमार्गान्तोन्मुखो न निर्वाणे बहिर्मुखः संसारादनर्थिकः सर्वभवगतिव्युपपत्तिपरान्मुखो ऽन्तिमदेहधारी अन्यतमात् सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रान्तः।
001.014. पञ्चावेणिका धर्मा एकत्ये पिण्डतजातीये मातृग्रामे।
001.014. कतमे पञ्च? रक्तं पुरुषं जानाति, विरक्तं जानाति।
001.015. कालं जानाति, ऋतुं जानाति।
001.015. गर्भमवक्रान्तं जानाति।
001.016. यस्य सकाशाद् गर्भमवक्रामति तं जानाति।
001.016. दारकं जानाति दारिकां जानाति।
001.017. सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति।
001.017. सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति।
001.018. सा आत्तमनात्तमनाः स्वामिन आरोचयति--दिष्ट्या आर्यपुत्र वर्धस्व।
001.018. आपन्नसत्त्वास्मि संवृत्ता।
001.019. यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति।
001.019. सो ऽपि आत्तमनात्तमना उदानम् उदानयति--अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्।
001.020. जातो मे स्यान्नावजातः।
001.021. कृत्यानि मे कुर्वीत्।
001.021. भृतः प्रतिबिभृयात्।
001.021. दायाद्यं प्रतिपद्येत।
001.021. कुलवंशो मे चिरस्थितिको भविष्यति।
001.022. अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा दक्षिणामादेशयिष्यति--इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति।
001.024. आपन्नसत्त्वां च तां विदित्वा उपरिप्रसादतलगतामयन्त्रितां धारयति शीते शीतोपकरणैरुष्ण उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस्तिक्ताम्ललवणमधुरकटुकषायविवर्जितैराहारैः, हारार्धहारविभूषितगात्रीम् अप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठम्{न}वतरन्तीमुप{मध?}रिमां भूमिम्।
001.027. न <2>चास्य अमनोज्ञशब्दश्रवणम् यावदेव गर्भस्य परिपाकाय।
002.001. सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता।
002.002. दारको जातः।
002.002. अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णविशालललाटः संगतभ्रूरुत्तुङ्गनासो रत्नप्रत्युप्तिकया कर्णिकया आमुक्तयालंकृतः।
002.004. बलसेनेन गृहपतिना रत्नपरीक्षका आहूयोक्ताः।
002.004. भवन्तः, रत्नानां मूल्यं कुरुत इति।
002.005. न शक्यते रत्नानां मूल्यं कर्तुमिति।
002.005. धर्मता यस्य न शक्यते मूल्यं कर्तुं तस्य कोटिमूल्यं क्रियते।
002.006. ते कथयन्ति--गृहपते, अस्य रत्नस्य कोटिर्मूल्यमिति।
002.007. तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नामेति।
002.009. अयं दारकः कोटिमूल्यया रत्नप्रत्युप्तिकया आमुक्तया जातः, श्रवणेषु च नक्षत्रेषु।
002.009. भवतु दारकस्य श्रोणः कोटिकर्ण इति नाम।
002.010. यस्मिन्नेव दिवसे श्रोणः कोटिकर्णो जातः, तस्मिन्नेव दिवसे बलसेनस्य गृहपतेर्द्वौ प्रेष्यदारकौ जातौ।
002.011. तेनैकस्य दारक इति नामधेयं व्यवस्थापितम्, अपरस्य पालक इति।
002.012. श्रोणः कोटिकर्णो ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्याम्।
002.013. सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
002.015. आशु वर्धते ह्रदस्थमिव पङ्कजम्॥
002.016. स यदा महान् संवृत्तस्तदा लिप्याम् उपन्यस्तः, संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायाम्।
002.017. सो ऽष्टासु परीक्षासूद्घटको वाचकः पिण्डतः पटुप्रचारः संवृत्तः।
002.018. तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्।
002.018. त्रीणि उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्।
002.019. त्रीणि अन्तःपुराणि प्रत्युपस्थापितानि ज्येष्ठकं मध्यमं कनीयसम्।
002.020. स उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति।
002.021. बलसेनो गृहपतिर् नित्यमेव कृषिकर्मान्ते उद्युक्तः।
002.021. स कोटिकर्णस्तं पितरं पश्यति नित्यं कृषिकर्मान्ते--उद्युक्तम्।
002.022. स कथयति--तात, कस्यार्थे त्वं नित्यमेव कृषिकर्मान्ते उद्युक्तह्? स कथयति--पुत्र, यथा त्वमुपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडसि रमसि परिचारयसि, यद्यहमपि एवमेव क्रीडेयं रमेयं परिचारयेयम्, नचिरादेवास्माकं भोगास्तनुत्वं परिक्षयं पर्यादायं गच्छेयुः।
002.025. स संलक्षयति--ममैवार्थं चोदना क्रियते।
002.026. स कथयति--तात यद्येवम्, गच्छामि, महासमुद्रमवतरामि।
002.026. पिता कथयति--पुत्र तावन्तं मे रत्नजातमस्ति।
002.027. यदि त्वं तिलतण्डुलकोलकुलत्थन्यायेन रत्नानि परिमोक्ष्यसे, तथापि मे रत्नानां परिक्षयो न स्यात्।
002.028. स कथयति--तात अनुजानीहि माम, पण्यमादाय महासमुद्रमवतरामीति।
002.029. बलसेनेन तस्यावश्यं निर्बन्धं ज्ञात्वानुज्ञातः।
002.029. बलसेनेन गृहपतिना वासवग्रामके घण्टावघोषणं कृतम्--यो युष्माकमुत्सहते श्रोणेन कोटिकर्णेन सार्थवाहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु।
002.031. पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्।
002.032. बलसेनो नाम गृहपतिः संलक्षयति--<3>कीदृशेन यानेन श्रोणः कोटिकर्णो यास्यति? स संलक्षयति--सचेद् हस्तिभिः, हस्तिनः सुकुमारा दुर्भराश्च, अश्वा अपि सुकुमारा दुभराश्च, गर्दभाः स्मृतिमन्तः सुकुमाराश्च।
003.003. गर्दभयानेन गच्छत्विति।
003.003. स पित्रा आहूयोक्तह्--पुत्र न त्वया सार्थस्य पुरस्ताद् गन्तव्यम्, नापि पृष्ठतः।
003.004. यदि बलवांश्चौरो भवति, सार्थस्य पुरस्तान्निपतति।
003.004. दुर्बलो भवति, पृष्ठतो निपतति।
003.005. त्वया सार्थस्य मध्ये गन्तव्यम्।
003.005. न च ते सार्थवाहे हते सार्थो वक्तव्यः।
003.006. दासकपालकावपि उक्तौ--पुत्रौ, युवाभ्यां न केनचित् प्रकारेण श्रोणः कोटिकर्णो मोक्तव्य इति॥
003.008. अथापरेण समयेन श्रोणः कोटिकर्णः कृतकौतुकमङ्गलस्वस्त्ययनो मातुः सकाशमुपसंक्रम्य पादयोर् निपत्य कथयति--अम्ब गच्छामि, अवलोकिता भव, महासमुद्रमवतरामि।
003.010. सा रुदितुमारब्धा।
003.010. स कथयति--अम्ब कस्माद् रोदसि।
003.010. माता साश्रुदुर्दिनवदना कथयति--पुत्र, कदाचिदहं पुत्रकं पुनरपि जीवन्तं द्रक्ष्यामीति।
003.011. स संलक्षयति--अहं मङ्गलैः संप्रस्थितः।
003.012. इयमीदृशममङ्गलमभिधत्ते।
003.012. स रुषितः कथयति--अम्ब, अहं कृतकौतूहलमङ्गलस्वस्त्ययनो महासमुद्रं संप्रस्थितः।
003.013. त्वं चेदृशान्यमङ्गलानि करोषि।
003.013. अपायान् किं न पश्यसीति।
003.014. सा कथयति--पुत्र, खरं ते वाक्कर्म निश्चारितम्।
003.013. अत्ययमत्ययतो देशय।
003.015. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्।
003.015. सा तेनात्ययमत्ययतो क्षमापिता।
003.015. अथ श्रोणः कोटिकर्णः कृतकौतूहलमङ्गलस्वस्त्ययनः शकटैर्भारैर्मोटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं समुद्रगमनीयं पण्यमारोप्य महासमुद्रं संप्रस्थितः।
003.017. सो ऽनुपूर्वेण ग्रामनगरनिगमपल्लिपत्तनेषु चञ्चूर्यमाणो महासमुद्रतटमनुप्राप्तः।
003.018. निपुणतः सामुद्रम् यानपात्रं प्रतिपाद्य महासमुद्रमवतीर्णो धनहारकः।
003.019. सो ऽनुगुणेन वायुना रत्नद्वीपमनुप्राप्तः।
003.019. तेन तत्रोपपरीक्ष्योपपरीक्ष्य रत्नानां तद् वहनं पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्।
003.020. सो ऽनुगुणेन श्रोणः संसिद्धयानपात्रो जम्बुद्वीपमनुप्राप्तः।
003.021. स सार्थस्तस्मिन्नेव समुद्रतीरे आवासितः।
003.021. सौ श्रोणः कोटिकर्णो ऽपि सार्थवाहो दासकपालकावादाय सार्थमध्यादेकान्ते ऽपक्रम्य आयं व्ययं च तुलयितुमारब्धः।
003.023. पश्चात् तेनासौ दासको ऽभिहितह्--दासक, पश्य साथः किं करोतीति।
003.023. स गतः।
003.023. यावत् पश्यति स्थोरां लर्दयन्तं सार्थम्।
003.024. सो ऽपि स्थोरां लर्दयितुमारब्धः।
003.024. दासकः संलक्षयति--पालकः सार्थवाहं शब्दापयिष्यति।
003.025. पालको ऽपि संलक्षयति--दासकः सार्थवाहः शब्दापयिष्यतीति।
003.026. स सार्थः सरात्रिमेव स्थोरां लर्दयित्वा संप्रस्थितः।
003.026. सो ऽपि गाढनिद्रावष्टब्धः शयितः।
003.027. स सार्थस्तावद् गतो यावत्प्रभातम्।
003.027. ते कथयन्ति--भवन्तः, क्व सार्थवाहह्? पुरस्ताद् गच्छति।
003.028. पुरस्ताद् गत्वा पृच्छन्ति--क्व सार्थवाहह्? पृष्ठत आगच्छति।
003.028. पृष्ठतो गत्वा पृच्छन्ति--क्व सार्थवाहह्? मध्ये गच्छति।
003.029. मध्ये गत्वा पृच्छन्ति।
003.029. यावत् तत्रापि नास्ति।
003.029. दासकः कथयति--मम बुद्धिरुत्पन्ना--पालकः सार्थवाहं शब्दापयिष्यति।
003.030. पालको ऽपि कथयति--मम बुद्धिरुत्पन्ना--दासकः सार्थवाहं शब्दापयिष्यति।
003.031. भवन्तः, न शोभनं कृतम् यदस्माभिः सार्थवाहश्छोरितः।
003.032. आगच्छत, निवार्तामः।
003.032. ते कथयन्ति--भवन्तः, यदि वयं निवर्तिष्यामः।
004.001. <4>सर्व एवानयेन व्यसनमापत्स्यामः।
004.001. आगच्छत, क्रियाकारं तावत् कर्मह्--तावन्न केनचिच्छ्रोणस्य कोटिकर्णस्य मातापितृभ्यामारोचयितव्यम् यावद् भाण्डं प्रतिशामितं भवति।
004.002. ते क्रियाकारं कृत्वा गताः।
004.003. श्रोणस्य कोटिकर्णस्य मातापितृभ्यां श्रुतम्--श्रोणः कोटिकर्णो ऽभ्यागत इति।
004.004. ते कथयन्ति--पृष्ठत आगच्छति।
004.005. पृष्ठतो गत्वा पृच्छतह्--क्व सार्थवाहह्? पुरस्ताद् गच्छतीति।
004.006. तैस्तावदाकुलीकृतौ यावद् भाण्डं प्रतिशामितम्।
004.006. पश्चात् ते कथयन्ति--अम्ब विस्मृतो ऽस्माभिः सार्थवाह इति।
004.007. ताभ्यामेक आगत्य कथयति--अयं श्रोणः कोटिकर्णो ऽभ्यागत इति।
004.008. तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः।
004.008. अपर आगत्य कथयति--अम्ब, दिष्ट्या वर्धस्व, अयं श्रोणः कोटिकर्णो ऽभ्यागत इति।
004.009. तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः।
004.010. तौ न कस्यचित् पुनरपि श्रद्दधातुमारब्धौ।
004.010. ताभ्यामुद्यानेषु स्वकसभादेवकुलेषु च्छत्राणि व्यजनानि कलशानि उपानहानि चाक्षराणि अभिलिखितानि दत्तानि स्थापितानि--यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघु आगमय, क्षिप्रमागमय।
004.012. अथ च्युतः कालगतः, तस्यैव गत्युपपत्तिस्थानात् स्थानान्तरविशेषतायै।
004.013. तौ शोकेन रुदन्तावन्धीभूतौ॥
004.014. श्रोणः कोटिकर्णः सार्थवाहो ऽपि सूर्यांशुभिः स्पृष्ट आतापितः प्रतिविबुद्धो यावत् सार्थं न पश्यति नान्यत्र गर्दभयानमेव।
004.015. स तं गर्दभयानमभिरुह्य संप्रस्थितः।
004.016. रात्रौ च वातेन प्रवायता वालुकया मार्गो व्यपोढः पिथितः।
004.016. ते च गर्दभाः स्मृतिमन्तो गन्धमाघ्रायाघ्राय शनैर्मन्दमन्दं संप्रस्थिताः।
004.017. सार्थवाहः संलक्षयति--कस्मादेते शनैर्मन्दमन्दं गच्छन्तीति कृत्वा प्रतोदयष्ट्या ताडिताः।
004.018. ते संभ्रान्ता आकुलीभूताः स्मृतिभ्रष्टा उन्मार्गेण संप्रस्थिताः, यावदन्यतमाशाटवीं प्रविष्टाः।
004.019. ते तृषार्ता विह्वलवदना जिह्वां निर्नामय्य गच्छन्ति।
004.020. तान् दृष्ट्वा तस्य कारुण्यमुत्पन्नम्।
004.020. स संलक्षयति--यदि एतान् नोत्स्रक्ष्यामि, अनयेन व्यसनमापत्स्ये।
004.021. को ऽसौ निर्घृणहृदयस्त्यक्तपरलोकश्च य एषां प्रतोदयष्टिं काये निपातयिष्यति? तेन त उत्सृष्टाह्--अद्याग्रेण अच्छिन्नाग्राणि तृणानि भक्षयत अनवमर्दितानि, पानीयानि पिबत अनाविलानि, चतुर्दिशं च शीतला वायवो वान्त्विति।
004.024. स तानुत्सृज्य पद्भ्यां संप्रस्थितः।
004.024. यावत् पश्यति आयसं नगरमुच्चं च प्रगृहीतं च।
004.025. तत्र द्वारे पुरुषस्तिष्ठति कालो रौद्राश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः।
004.026. स तस्य सकाशमुपसंक्रान्तः।
004.026. उपसंक्रम्य तं पुरुषं पृच्छति--अस्ति अत्र भोः पुरुष पानीयमिति।
004.027. स तूष्णीं व्यवस्थितः।
004.027. भूतस्तेन पृष्टह्--अस्त्यत्र नगरे पानीयमिति।
004.028. भूयो ऽपि स तूष्णीं व्यवस्थितः।
004.028. तेन सार्थवाहेन तत्र प्रविश्य पानीयं पानीयम् इति शब्दो निश्चारितः।
004.029. यावत् पञ्चमात्रैः प्रेतसहस्रैर्दग्धस्थूणासदृशैरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः श्रोणः कोटिकर्णः।
004.031. ते कथयन्ति--सार्थवाह कारुणिकस्त्वम्।
004.031. अस्माकं तृषार्तानां पानीयमनुप्रयच्छ।
004.031. स कथयति--भवन्तः, अहमपि पानीयमेव मृगयामि।
004.032. कुतो ऽहम् युष्माकं पानीयमनुप्रयच्छामीति? <5>ते कथयन्ति--सार्थवाह, प्रेतनगरमिदम्, कुतो ऽत्र पानीयम्? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः।
005.002. स कथयति--के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाह्? श्रोण दुष्कुहका जाम्बूद्वीपका मनुष्याः।
005.003. नाभिश्रद्दधास्यसि।
005.003. अहं भवन्तः प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते गाथां भाषन्ते--
005.005. आक्रोशका रोषका वयं मत्सरिणः कुटुकुञ्चका वयम्।
005.006. दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः
005.007. श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्।
005.007. अस्ति कश्चित् त्वया दृष्टः प्रेतनगरं प्रविष्टः स्वस्तिक्षेमाभ्यां निर्गच्छन्? स संप्रस्थितो यावत् तेनासौ पुरुषो दृष्टः।
005.008. तेनोक्तह्--भद्रमुख, अहो बत त्वया ममारोचितं स्यात् यथेदं प्रेतनगरमिति, नाहमत्र प्रविष्टः स्याम्।
005.009. स तेनोक्तह्--श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्, येन त्वं प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां निर्गतः।
005.011. स संप्रस्थितः।
005.011. यावदपरं पश्यति आयसं नगरमुच्चं च प्रगृहीतं च।
005.011. तत्रापि द्वारे पुरुषस्तिष्ठति कालश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः।
005.012. स तस्य सकाशमुपसंक्रान्तः।
005.013. उपसंक्रम्यैवमाह--भोः पुरुष, अस्ति अत्र नगरे पानीयम्? स तूष्णीं व्यवस्थितः।
005.014. भूयस्तेन पृष्टह्--भोः पुरुष, अस्ति अत्र नगरे पानीयम्? स तूष्णीं व्यवस्थितः।
005.015. तेन तत्र प्रविश्य पानीयं पानीयम् इति शब्दः कृतः।
005.015. अनेकैः प्रेतसहस्रैर्दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः।
005.017. श्रोण कारुणिकस्त्वम्।
005.017. अस्माकं तृषार्तानां पानीयमनुप्रयच्छ।
005.017. स कथयति--अहमपि भवन्तः पानीयमेव मृगयामि।
005.018. कुतो ऽहम् युष्माकं पानीयं ददामीति? ते कथयन्ति--श्रोण, प्रेतनगरमिदम्।
005.019. कुतो ऽत्र पानीयम्? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात् पानीयं पानीयमिति शब्दः श्रुतः।
005.020. स चाह--के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाह्? त ऊचुह्--श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्याः।
005.021. नाभिश्रद्दधास्यसि।
005.021. स चाह--अहं भवन्तः प्रत्यक्षदर्शी।
005.022. कस्मान्नाभिश्रद्दधास्ये? ते गाथां भाषन्ते--
005.023. आरोग्यमदेन मत्तका ये धनमोगमदेन मत्तकाः।
005.024. दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः
005.025. श्रोण गच्छ, पुण्यकर्मा त्वम्।
005.025. अस्ति कश्चित् त्वया दृष्टः श्रुतः स प्रेतनगरं प्रविश्य क्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन्? स संप्रस्थितः।
005.026. यावत् तेनासौ पुरुषो दृष्टः।
005.026. स तेनोक्तह्--भद्रमुख, अहो बत यदि त्वया ममारोचितं स्याद् यथेदं प्रेतनगरमिति, नैवाहमत्र प्रविष्टः स्याम्।
005.028. स कथयति--श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्।
005.028. अस्ति कश्चित् त्वया दृष्टः श्रुतो वा प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन् निर्गच्छन्? स संप्रस्थितः।
005.029. यावत् पश्यति सूर्यस्यास्तगमनकाले विमान, चतस्रो ऽप्सरसह् अभिरूपाः प्रासादिका दर्शनीयाः।
005.030. एकः पुरुषो ऽभिरूपो दर्शनीयः प्रासादिकह् अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्ताभिः सार्धं क्रीडति रमते परिचारयति।
005.032. स तैर्दूरत एव दृष्टः।
005.032. ते तं प्रत्यवभाषितुमारब्धाः।
005.032. स्वागतम् <6>श्रोण, मासि तृषितो बुभुक्षितो वा? स संलक्षयति--नूनं देवो ऽयं वा नागो वा यक्षो वा भविष्यति।
006.002. आह च--आर्य तृषितो ऽस्मि, बुभुक्षितो ऽस्मि।
006.002. स तैः स्नापितो भोजितः।
006.002. स तस्मिन् विमाने तावत् स्थितो यावत् सूर्यस्याभ्युद्गमनकालसमयः।
006.003. स तेनोक्तह्--श्रोण अवतरस्व, आदीनवो ऽत्र भविष्यति।
006.004. सो ऽवतीर्य एकान्ते व्यवस्थितः।
006.004. ततः पश्चात् सूर्यस्याभ्युद्गमनकालसमये तद्विमानमन्तर्हितम्।
006.005. ता अपि अप्सरसो ऽन्तर्हिताश्च।
006.005. चत्वारः श्यामशबलाः कुर्कुराः प्रादुर्भूताः।
006.006. तैस्तं पुरुषमवमूर्धकं पातयित्वा तावत् पृष्टवंशानुत्पाट्योत्पाट्य भिक्षितो यावत् सूर्यस्यास्तगमनकालसमयः।
006.007. ततः पश्चात् पुनरपि तद्विमानं प्रादुर्भूतम्, ता अप्सरसः प्रादुर्भूताः।
006.008. स च पुरुषस्ताभिः सार्धं क्रीडति रमते परिचारयति।
006.008. स तेषां सकाशमुपसंक्रम्य कथयति--के यूयम्, केन च कर्मणा इहोपपन्नाह्? ते प्रोचुह्--श्रोण दुष्कुहका जाम्बुद्वीपका मनुष्याः।
006.010. नाभिश्रद्दधास्यसि।
006.010. स चाह--अहं प्रत्यक्षदर्शी, कथं नाभिश्रद्दधास्ये? श्रोण, अहं वासवग्रामके औरभ्रक आसीत्।
006.011. उरभ्रान् प्रघात्य प्रघात्य मांसं विक्रीय जीविकां कल्पयामि।
006.012. आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति--भद्रमुख, अनिष्टो ऽस्य कर्मणः फलविपाकः।
006.013. विरम त्वमस्मात् पापकादसद्धर्मात्।
006.013. नाहं तस्य वचनेन विरमामि।
006.014. भूयो भूयः स मां विच्छन्दयति--भद्रमुख, अनिष्टो ऽस्य कर्मणो फलविपाकः।
006.015. विरम त्वमस्मात् पापकादसद्धर्मात्।
006.015. तथापि अहं न प्रतिविरमामि।
006.015. स मां पृच्छति--भद्रमुख, किं त्वमेतानुरभ्रान् दिवा प्रघातयसि आहोस्विदू रात्रौ? मयोक्तह्--आर्य दिवा, प्रघातयामीति।
006.017. स कथयति--भद्रमुख, रात्रौ शीलसमादानं किं न गृह्णासि।
006.017. मया तस्यान्तिकाद् रात्रौ शीलसमादानं गृहीतम्।
006.018. यत्तद् रात्रौ शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दिव्यं सुखं प्रत्यनुभवामि।
006.019. यन्मया दिवा उरभ्राः प्रघातिताः, तस्य कर्मणो विपाकेन दिवा एवंविधं दुःखं प्रत्यनुभवामि।
006.020. गाथां च भाषते--
006.021. दिवसं परप्राणपीडको रात्रौ शीलगुणैः समन्वितः।
006.022. तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्
006.023. श्रोण, गमिष्यसि त्वं वासवग्रामकम्? गमिष्यामि।
006.023. तत्र मम पुत्रः प्रतिवसति।
006.023. स उरभ्रान् प्रघात्य प्रघात्य जीविकां कल्पयति।
006.024. स त्वया वक्तव्यह्--दृष्टस्ते मया पिताअ।
006.025. कथयति--अनिष्टो ऽस्य कर्मणः फलविपाकः।
006.025. विरमास्मात् पापकादसद्धर्मात्।
006.025. भोः पुरुष, त्वमेवं कथयसि--दुष्कुहका जाम्बुद्वीपका मनुष्या इति।
006.026. नाभिश्रद्दधास्यति।
006.026. श्रोण, यदि न श्रद्दधास्यति, वक्तव्यस्तव पिता कथयति--अस्ति सूनाधस्तात् सुवर्णस्य कलशः पूरयित्वा स्थापितः।
006.028. तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय।
006.028. आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नांना दक्षिणामादेशय।
006.029. अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्।
006.030. स संप्रस्थितः।
006.030. यावत् सूर्यस्याभ्युद्गमनकालसमये पश्यति अपरं विमानम्।
006.031. तत्र एका अप्सरा अभिरूपा दर्शनीया प्रासादिका, एकश्च पुरुष अभिरूपो दर्शनीयः प्रासादिकह् अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्तया सार्धं क्रीडति रमते <7>परिचारयति।
007.001. स तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धः।
007.001. स्वागतं श्रोण, मा तृषितो ऽसि, मा बुभुक्षितो ऽसि वा? स संलक्षयति--नूनमयं देवो वा नागो वा यक्षो वा भविष्यति।
007.003. स कथयति--तृषितो ऽस्मि बुभुक्षितश्च।
007.003. स तेन स्नापितो भोजितः।
007.003. स तस्मिन् विमाने तावत् स्थितो यावत् सूर्यस्यास्तंगमनकालसमयः।
007.004. स तेनोक्तह्--अवतरस्व, आदीनवो ऽत्र भविष्यति।
007.005. स दृष्टादीनवो ऽवतीर्य एकान्ते ऽवस्थितः।
007.005. ततः पश्चात् सूर्यस्यास्तगमनकालसमये तद्विमानमन्तर्हितम्।
007.006. सापि अप्सरा अन्तर्हिता।
007.006. महती शतपदी प्रादुर्भूता।
007.006. तया तस्य पुरुषस्य कायेन कायं सप्तकृत्वो वेष्टयित्वा तावदुपरिमस्तिष्कं भक्षयन्ती स्थिता, यावत् स एव सूर्यस्याभ्युद्गमनकालसमयः।
007.008. ततः पश्चात् पुनरपि तद्विमानं प्रादुर्भूतम्।
007.009. सापि अप्सराः प्रादुर्भूता।
007.009. स च पुरुषो ऽभिरूपो दर्शनीयः प्रासादिकस्तया सार्धं क्रीडति रमते परिचारयति।
007.010. स तमुपसंक्रम्य पृच्छति--को भवान्, केन कर्मणा इहोपपन्नह्? स एवमाह--श्रोण, दुष्कुहका जाम्बूद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि।
007.011. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? स कथयति--यदि एवम्, अहं वासवग्रामके ब्राह्मण आसीत् पारदारिकः।
007.013. आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति--भद्रमुख, अनिष्टो ऽस्य कर्मणः फलविपाकः।
007.014. विरम त्वमस्मात् पापकादसद्धर्मात्।
007.014. तस्य वचनादहं न प्रतिविरमामि।
007.015. भूयो भूयः स माम विच्छन्दयति।
007.015. तथैवाहं तस्मात् पापकादसद्धर्मान्न प्रतिविरमामि।
007.016. स मां पृच्छति--भद्रमुख, परदारान् किं त्वं दिवा गच्छसि, आहोस्विद् रात्रौ? स मयाभिहितह्--आर्य रात्रौ।
007.017. स कथयति--भद्रमुख, दिवा किं न शीलसमादानं गृह्णासि? मया तस्यान्तिके दिवा शीलसमादानं गृहीतम्।
007.018. यत्तन्मया आर्यस्य कात्यायनस्यान्तिकाद् दिवा शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन दिवा एवंविधं दिव्यसुखं प्रत्यनुभवामि।
007.020. यत्तद्रात्रौ परदाराभिगमनं कृतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दुःखं प्रत्यनुभवामि।
007.021. गाथां च भाषते--
007.022. रात्रौ परदारमूर्च्छितो, दिवसं शीलगुणैः समन्वितः।
007.023. तस्यैतत् कर्मणः फलं ह्यनुभवामि कल्याणपापकम्
मूल पाठ: Divyāvadāna · Edition: L. Vaidya, Mithila 1959 (Buddhist Sanskrit Texts ; 20) · Data entry Kensuke Okamoto · GRETIL (Göttingen) · CC BY-NC-SA 4.0