धर्मसूत्र · अध्याय 9
स विधिपूर्वकं स्नात्वा भार्याम् अधिगम्ययथोक्तान् गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्य् अनुकर्षेत् ।
नित्यं शुचिः सुगन्धिः स्नानशीलः ।
सति विभवे न जीर्णमलवद्वासाः स्यात् ।
न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात् ।
न स्रगुपानहौ ।
निर्णिक्तम् अशक्तौ ।
न रूढश्मश्रुर् अकस्मात् ।
नाग्निम् अपश् च युगपद् धारयेत् ।
नाञ्जलिना पिबेत् ।
न तिष्ठन्न् उद्धृतोदकेनाचमेत् ।
न शूद्राशुच्येकपाण्यावर्जितेन ।
न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान् व्युदस्येत् ।
नैता देवताः प्रति पादौ प्रसारयेत् ।
न पर्णलोष्टाश्मभिर् मूत्रपुरीषापकर्षणं कुर्यात् ।
न भस्मकेशनखतुषकपालमेध्यान्य् अधितिष्ठेत् ।
न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत ।
संभाष्य पुण्यकृतो मनसा ध्यायेत् ।
ब्राह्मणेन वा सह संभाषेत ।
अधेनुं धेनुभव्येति ब्रूयात् ।
अभद्रं भद्रम् इति ।
कपालं भगालम् इति ।
मणिधनुर् इतीन्द्रधनुः ।
गां धयन्तीं परस्मै नाचक्षीत ।
न चैनाम् वारयेत् ।
न मिथुनी भूत्वा शौचं प्रति विलम्बेत ।
न च तस्मिन् शयने स्वाध्यायम् अधीयीत ।
न चापररात्रम् अधीत्य पुनः प्रतिसंविशेत् ।
नाकल्पां नारीम् अभिरमयेत् ।
न रजस्वलाम् ।
न चैनां श्लिष्येन् ।
न कन्याम् ।
अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेशनपादपादधावनासन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्यायच्छनानि वर्जयेत् ।
न सन्दिग्धां नावम् अधिरोहेत् ।
सर्वत एवात्मानं गोपायेत् ।
न प्रावृत्य शिरो ऽहनि पर्यटेत् ।
प्रावृत्य रात्रौ ।
मूत्रोच्चारे च ।
न भूमाव् अनन्तर्धाय ।
नाराच् चावसथात् ।
न भस्मकरीषकृष्टच्छायापथिकाम्येषु ।
उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः ।
संध्ययोश् च ।
रात्रौ दक्षिणामुखः ।
पालाशम् आसनं पादुके दन्तधावनम् इति च वर्जयेत् ।
सोपानत्करश्चासनाभिवादननमस्कारान् वर्जयेत् ।
न पूर्वाह्णमध्यंदिनापराह्णान् अफलान् कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः ।
तेषु तु धर्मोत्तरह् स्यात् ।
न नग्नां परयोषितम् ईक्षेत ।
न पदासनम् आकर्षेत् ।
न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ।
छेदनभेदनविलेखनविमर्दनावस्फोटनानिनाकस्मात् कुर्यात् ।
नोपरि वत्सतन्तीं गच्छेत् ।
न कुलंकुलः स्यात् ।
न यज्ञम् अवृतो गच्छेत् ।
दर्शनाय तु कामम् ।
न भक्षान् उत्सङ्गे भक्षयेत् ।
न रात्रौ प्रेष्याहृतम् ।
उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनिचात्तवीर्याणि नाश्नीयात् ।
सायंप्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत ।
न कदाचिद् रात्रौ नग्नः स्वपेत् ।
स्नायाद् वा ।
यच् चात्मवन्तो वृद्धाः सम्यग्विनीतादम्भलोभमोहवियुक्ता वेदविद आचक्षते तत् समाचरेत् ।
योगक्षेमार्थम् ईश्वरम् अधिगच्छेत् ।
नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः ।
प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजन भूयिष्ठम् अनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ।
प्रशस्तमङ्गल्यदेवतायतनचतुष्पदम् प्रदक्षिणम् आवर्तेत ।
मनसा वा तत्समग्रम् आचारम् अनुपालयेद् आपत्कल्पः ।
सत्यधर्मा ।
आर्यवृत्तिः ।
शिष्टाध्यापकः ।
शौचशिष्टः ।
श्रुतिनिरतः स्यात् ।
नित्यम् अहिंस्रो मृदुर् दृढकारी दमदानशीलः ।
एवम् आचारो मातापितरौ पूर्वापरांश् च सम्बन्धान्दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद्ब्रह्मलोकान् न च्यवते न च्यवते ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0