धर्मसूत्र · अध्याय 8
द्वौ लोके धृतव्रतौ राजा ब्राह्मणश् च बहुश्रुतः ।
तयोश् चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानाम्चलनपतनसर्पणानाम् आयत्तं जीवनम् ।
प्रसूतिरक्षणम् असंकरो धर्मः ।
स एव बहुश्रुतो भवति ।
लोकवेदवेदाङ्गवित् ।
वाकोवाक्येतिहासपुराणकुशलः ।
तदपेक्षस् तद्वृत्तिः ।
चत्वारिंशत् संस्कारैः संस्कृतः ।
त्रिषु कर्मस्व् अभिरतः ।
षट्सु वा ।
सामयाचारिकेष्व् अभिविनीतः ।
षड्भिः परिहार्यो राज्ञा ।
अवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश्चापरिवाद्यश् चापरिहार्यश् चेति ।
गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् ।
चत्वारि वेदव्रतानि ।
स्नानं सहधर्मचारिणीसंयोगः ।
पञ्चानां यज्ञानाम् अनुष्ठानंदेवपितृमनुष्यभूतब्राह्मणाम् ।
एतेषां च ।
अष्टका पार्वणः श्राद्धम् श्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञसम्स्थाः ।
अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्तहविर्यज्ञसम्स्थाः ।
अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशीवाजपेयो ऽतिरात्रो ऽप्तोर्याम इति सप्त सोमसंस्थाः ।
इत्य् एते चत्वारिंशत्संस्काराः ।
अथाष्टाव् आत्मगुणाः ।
दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासोमङ्गलम् अकार्पण्यम् अस्पृहेति ।
यस्यैते चत्वारिंशत्संस्कारा न चाष्टाव् आत्मगुणान स ब्रह्मणः सायुज्यं सालोक्यं गच्छति ।
यस्य तु खलु संस्काराणाम् एकदेशो ऽप्य् अष्टाव् आत्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं चगच्छति ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0