भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 7

7.1

आपत्कल्पो ब्राह्मनस्याब्राह्मणाद् विद्योपयोगः ।

7.2

अनुगमनं शुश्रूषा ।

7.3

समाप्ते ब्राह्मणो गुरुः ।

7.4

याजनाध्यापनप्रतिग्रहाः सर्वेषाम् ।

7.5

पूर्वः पूर्वो गुरुः ।

7.6

तदलाभे क्षत्रवृत्तिः ।

7.7

तदलाभे वैश्यवृत्तिः ।

7.8

तस्यापण्यम् ।

7.9

गन्धरसकृतान्नतिलशानक्षौमाजिनानि ।

7.11

क्षीरं सविकारम् ।

7.12

मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि ।

7.13

पशवश् च हिंसासंयोगे ।

7.14

पुरुशवशाकुमारीवेहतश् च नित्यम् ।

7.15

भूमिव्रीहियवाजाव्यश्वऋषभधेन्वनडुहश् चैके ।

7.16

नियमस् तु ।

7.17

रसानां रसैः ।

7.18

पशूनां च ।

7.19

न लवणकृतान्नयोः ।

7.20

तिलानां च ।

7.21

समेनामेन तु पक्वस्य संप्रत्यर्थे ।

7.22

सर्वथा वृत्तिर् अशक्ताव् अशौद्रेण ।

7.23

तद् अप्य् एके प्राणसंशये ।

7.24

तद्वर्णसंकराभक्ष्यनियमस् तु ।

7.25

प्राणसंशये ब्राह्मणो ऽपि शस्त्रम् आददीत ।

7.26

राजन्यो वैश्यकर्म ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc