धर्मसूत्र · अध्याय 6
पादोपसम्ग्रहणं समवाये ऽन्वहम् ।
अभिगम्य तु विप्रोष्य ।
मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणांतद्गुरूणां च ।
संनिपाते परस्य ।
स्वनाम प्रोच्याहमयम् इत्य् अभिवादोज्ञसमवाये ।
स्त्रीपुंयोगे ऽभिवादतो ऽनियमम् एके ।
नाविप्रोष्य स्त्रीणाम् अमातृपितृव्यभार्याभगिनीनाम् ।
नोपसंग्रहणं भ्रातृभार्याणां स्वसृऋणाम् ।
ऋत्विक्छ्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थानम् अभिवाद्याः ।
तथान्यः पूर्वः पौरो ऽशीतिकावरःशूद्रो ऽप्य् अपत्यसमेन ।
अवरो ऽप्य् आर्यः शूद्रेण ।
नाम वास्य वर्जयेत् ।
राज्ञश् चाजपः प्रेष्यः ।
भो भवन्न् इति वयस्यः समाने ऽहनि जातः ।
दशवर्शवृद्धः पौरः ।
पञ्चभिःकलाभरः ।
श्रोत्रियश् चारणस् त्रिभिः ।
राजन्यवैश्यकर्मा विद्याहीनाः ।
दीक्षितश् च प्राक् क्रयात् ।
वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानिपरबलीयांसि ।
श्रुतं तु सर्वेभ्यो गरीयः ।
तन्मूलत्वाद् धर्मस्य
श्रुतेश् च ।
चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः पथोदानम् ।
राज्ञा तु श्रोत्रियाय श्रोत्रियाय ।
मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0