भाषा

ENहिગુ
ग्रंथ पाठ

धर्मसूत्र · अध्याय 10

10.1

द्विजातीनाम् अध्ययनम् इज्या दानम् ।

10.2

ब्राह्मनस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ।

10.3

पूर्वेषु नियमस् तु ।

10.4

आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणःसंप्रदानम् अन्यत्र यथोक्तात् ।

10.5

कृषिवाणिज्ये वास्वयंकृते ।

10.6

कुसीदं च ।

10.7

राज्ञो ऽधिकं रक्षणं सर्वभूतानाम् ।

10.8

न्याय्यदण्डत्वम् ।

10.9

बिभृयाद् ब्राह्मणाञ् श्रोत्रियान् ।

10.10

निरुत्साहांश् च ब्राह्मणान् ।

10.11

अकरांश् च ।

10.12

उपकुर्वाणांश् च ।

10.13

योगश् च विजये ।

10.14

भये विशेषेण ।

10.15

चर्या च रथधनुर्भ्याम् ।

10.16

सङ्ग्रामे संस्थानम् अनिवृत्तिश् च ।

10.17

न दोषो हिंसायाम् आहवे ।

10.18

अन्यत्रव्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः ।

10.19

क्षत्रियश् चेद् अन्यस् तम् उपजीवेत् तद्वृत्त्या ।

10.20

जेता लभेत सांग्रामिकं वित्तम् ।

10.21

वाहनं तु राज्ञः ।

10.22

उद्धारश् चापृथग्जये ।

10.23

अन्यत् तु यथार्हं भाजयेद् राजा ।

10.24

राज्ञो बलिदानं कर्षकैर्दशमम् अष्टमं षष्ठं वा ।

10.25

पशुहिरण्ययोर् अप्य् एके पञ्चाशद्भागः ।

10.26

विंशतिभागः शुल्कः पण्ये ।

10.27

मूलफलपुष्पौषधमधुमांसतृनेन्धनानांषष्ठः ।

10.28

तद्रक्षणधर्मित्वात् ।

10.29

तेषु तु नित्ययुक्तः स्यात् ।

10.30

अधिकेन वृत्तिः ।

10.31

शिल्पिनो मासि मास्य् एकैकं कर्म कुर्युः ।

10.32

एतेनात्मनोपजीविनो व्याख्याताः ।

10.33

नौचक्रीवन्तश् च ।

10.34

भक्तं तेभ्यो दद्यात् ।

10.35

पण्यं वणिग्भिर् अर्थापचयेन देयम् ।

10.36

प्रनष्टम् अस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः ।

10.37

विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ।

10.38

ऊर्ध्वम् अधिगन्तुश् चतुर्थं राज्ञः शेषः ।

10.39

स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ।

10.40

ब्राह्मणस्याधिकं लब्धम् ।

10.41

क्षत्रियस्य विजितम् ।

10.42

निर्विष्टं वैश्यशूद्रयोः ।

10.43

निध्यधिगमो राजधनम् ।

10.44

ब्राह्मणस्याभिरूपस्य ।

10.45

अब्राह्मणो ऽप्य् आख्याता षष्ठं लभेतेत्य् एके ।

10.46

चौरहृतम् अपजित्य यथास्थानम् गमयेत् ।

10.47

कोशाद् वा दद्यात् ।

10.48a

रक्ष्यं बालधनम् आ व्यवहारप्रापणात् ।

10.48b

समावृत्तेर् वा ।

10.49

वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ।

10.50

शूद्रश् चतुर्थो वर्ण एकजातिः ।

10.51

तस्यापि सत्यम् अक्रोधः शौचम् ।

10.52

आचमनार्थे पाणिपादप्रक्षालनम् एवैके ।

10.53

श्राद्धकर्म ।

10.54

भृत्यभरणम् ।

10.55

स्वदारवृत्तिः ।

10.56

परिचर्या चोत्तरेषाम् ।

10.57

तेभ्यो वृत्तिं लिप्सेत ।

10.58

जीर्णान्य् उपानच्छत्रवासःकूर्चादीनि ।

10.59

उच्छिष्टाशनम् ।

10.60

शिल्पवृत्तिश् च ।

10.61

यं चार्यम् आश्रयेद् भर्तव्यस् तेन क्षीणो ऽपि ।

10.62

तेन चोत्तरः ।

10.63

तदर्थो ऽस्य निचयः स्यात् ।

10.64

अनुज्ञातो ऽस्य नमस्कारो मन्त्रः ।

10.65

पाकयज्ञैः स्वयं यजेतेत्य् एके ।

10.66

सर्वे चोत्तरोत्तरं परिचरेयुः ।

10.67

आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यं ।

मूल पाठ: Dharmasūtra · Edition: Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. · Data entry Nobuyuki Watase · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc