भाषा

ENहिગુ
ग्रंथ पाठ

देवीगीता · अध्याय 6

6.1

इति देवीगीतायां पञ्चमो ऽध्यायः -
इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां पञ्चत्रिंशो ऽध्यायः
अथ षष्ठो ऽध्यायः -
सप्तमः स्कन्धः
अथ षट्त्रिंशो ऽध्यायः
देव्युवाच
इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् ।
भक्त्या निर्व्याजया राजन्नासने समुपस्थितः

6.2

आविः सन्निहितं गुहाचरं नाम महत्पदम् ।
अत्रैतत् सर्वम् अर्पितम् एजत् प्राणन्निमिषच्च यत्

6.3

एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ।
यदर्चिमद्यदणुभ्यो ऽणु च यस्मिंल्लोका निहिता लोकिनश्च

6.4

तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत् सत्यम् अमृतं तद्वेद्धव्यं सौम्य विद्धि

6.5

धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि

6.6

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यम् उच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्

6.7

यस्मिन् द्यौश्च पृथिवी चान्तरिक्षम् ओतं मनः सह प्राणैश्च सर्वैः ।
तम् एवैकं जानथात्मानम् अन्या वाचो विमुञ्चथामृतस्यैष सेतुः

6.8

अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषो ऽन्तश्चरते बहुधा जायमानः

6.9

ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् ।
दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः

6.10

मनोमयः प्राणशरीरनेता प्रतिष्ठितो ऽन्ने हृदयं सन्निधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपम् अमृतं यद्विभाति

6.11

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे

6.12

हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस् तद्यदात्मविदो विदुः

6.13

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः ।
तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति

6.14

ब्रह्मैवेदम् अमृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम्

6.15

एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति

6.16

द्वितीयाद्वै भयं राजंस्तदभावाद्बिभेति न ।
न तद्वियोगो मे ऽप्यस्ति मद्वियोगो ऽपि तस्य न

6.17

अहम् एव स सो ऽहं वै निश्चितं विद्धि पर्वत ।
मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम

6.18

नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् ।
वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे

6.19

मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनो ऽर्चनम् ।
कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका

6.20

विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः ।
ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वत सत्तम

6.21

कथितं तन्मया सर्वं नातो वक्तव्यम् अस्ति हि ।
इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने

6.22

शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ

6.23

तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
येनोपदिष्टाविद्येयं स एव परमेश्वरः

6.24

यस्यायं सुकृतं कर्तुम् असमर्थस्ततो ऋणी ।
पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः

6.25

पितृजातं जन्म नष्टं नेत्थं जातं कदाचन ।
तस्मै न द्रुह्येदित्यादि निगमो ऽप्यवदन्नग

6.26

तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः

6.27

तस्मात् सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग ।
कायेन मनसा वाचा सर्वदा तत्परो भवेत्

6.28

अन्यथा तु कृतघ्नः स्यात् कृतघ्ने नास्ति निष्कृतिः ।
इन्द्रेणाथर्वणायोक्ता शिरश्छेद प्रतिज्ञया

6.29

अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा ।
अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ

6.30

पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा ।
इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप

मूल पाठ: Devīgītā (= Devībhāgavata-Purāṇa 7,31-40) · Data entry Ursula Honegger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc