देवीगीता · अध्याय 4
इति देवीगीतायां तृतीयो ऽध्यायः -
इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां त्रयस्त्रिंशो ऽध्यायः
अथ चतुर्थो ऽध्यायः -
सप्तमः स्कन्धः
अथ चतुस्त्रिंशो ऽध्यायः
श्री देव्युवाच
क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् ।
तथापि भक्तवात्सल्यादीदृशं दर्शितं मया
न वेदाध्ययनैर्योगैर् न दानैस्तपसेज्यया ।
रूपं द्रष्टुम् इदं शक्यं केवलं मत्कृपां विना
प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् ।
उपाधियोगात् सम्प्राप्तः कर्तृत्वादिकम् अप्युत
क्रियाः करोति विविधा धर्माधर्मैक हेतवः ।
नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते
पुनस्तत्संस्कृतिवशान्नाना कर्मरतः सदा ।
नाना देहान् समाप्नोति सुखदुःखैश्च युज्यते
घटीयन्त्रवदेतस्य न विरामः कदापि हि ।
अज्ञानम् एव मूलं स्यात् ततः कामः क्रियास्ततः
तस्माद् अज्ञाननाशाय यतेत नियतं नरः ।
एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम्
पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च ।
अज्ञाननाशने शक्ता विद्यैव तु पटीयसी
न कर्म तज्जन्नोपास्तिर्विरोधाभावतो गिरे ।
प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम्
अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि ।
ततो रागस्ततो दोषस्ततो ऽनर्थो महान्भवेत्
तस्मात् सर्व प्रयत्नेन ज्ञानं सम्पादयेन्नरः ।
कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम्
ज्ञानादेव हि कैवल्यम् अतः स्यात् तत्समुच्चयः ।
सहायतां व्रजेत् कर्म ज्ञानस्य हितकारि च
इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् ।
ज्ञानाधृद्ग्रन्थिभेदः स्याधृद्ग्रन्थौ कर्मसम्भवः
यौगपद्यं न सम्भाव्यं विरोधात् तु ततस्तयोः ।
तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि
तस्मात् सर्वाणि कर्माणि वैदिकानि महामते ।
चित्तशुद्ध्यन्तम् एव स्युस्तानि कुर्यात् प्रयत्नतः
शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः ।
तावत् पर्यन्तम् एव स्युः कर्माणि न ततः परम्
तदन्ते चैव संन्यस्य संश्रयेद्गुरुम् आत्मवान् ।
श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः
वेदान्तश्रवणं कुर्यान्नित्यम् एवम् अतन्द्रितः ।
तत् त्वम् अस्यादि वाक्यस्य नित्यम् अर्थं विचारयेत्
तत् त्वम् अस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् ।
ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते
पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः ।
तत् पदस्य च वाक्यार्थो गिरे ऽहं परिकीर्तितः
त्वं पदस्य च वाक्यार्थो जीव एव न संशयः ।
उभयोर् ऐक्यम् असिना पदेन प्रोच्यते बुधैः
वाच्यार्थयोर्विरुद्धत्वात् ऐक्यं नैव घटेत ह ।
लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः
चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः ।
तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत्
देवदत्तः स एवायम् इति वल्लक्षणा स्मृता ।
स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः
पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः ।
भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम्
मिथ्या भूतो ऽयम् आभाति स्फुटं मायामयत्वतः ।
सो ऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर
ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् ।
मनोबुद्धियुतं चैतत् सूक्ष्मं तत्कवयो विदुः
अपञ्चीकृतभूतोत्थं सूक्ष्मदेहो ऽयम् आत्मनः ।
द्वितीयो ऽयम् उपाधिः स्यात् सुखादेरवबोधकः
अनाद्यनिर्वाच्यम् इदम् अज्ञानं तु तृतीयकः ।
देहो ऽयम् आत्मनो भाति कारणात्मा नगेश्वर
उपाधिविलये जाते केवलात्मावशिष्यते ।
देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा
पञ्चकोशपरित्यागे ब्रह्म पुच्छं हि लभ्यते ।
नेति नेति इति आदिवाक्यैर् मम रूपं यदुच्यते
न जायते म्रियते तत् कदाचिन्नायं भूत्वा न बभूव कश्चित् ।
अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे
हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतौ नायं हन्ति न हन्यते
अणोरणीयान् महतो महीयान् आत्मास्य जन्तोर्निहितो गुहायाम् ।
तम् अक्रतुः पश्यति वीतशोको धातुः प्रसादान् महिमानम् अस्य
आत्मानं रथिनं विद्धि शरीरं रथम् एव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च
इन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः
यस्त्वविद्वान् भवति चामनस्कश्च सदाशुचिः ।
न तत्पदम् अवाप्नोति संसारं चाधिगच्छति
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः ।
स तु तत्पदम् आप्नोति यस्माद् भूयो न जायते
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान् नरः ।
सो ऽध्वनः पारम् आप्नोति मदीयं यत्परं पदम्
इत्थं श्रुत्या च मत्या च निश्चित्यात्मानम् आत्मना ।
भावयेन्माम् आत्मरूपां निदिध्यासनतो ऽपि
योगवृत्तेः पुरा स्वस्मिन् भावयेदक्षरत्रयम् ।
देवीप्रणवसञ्ज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः
हकारः स्थूलदेहः स्याद् रकारः सूक्ष्मदेहकः ।
ईकारः कारणात्मासौ ह्रीङ्कारो ऽहं तुरीयकम्
एवं समष्टिदेहे ऽपि ज्ञात्वा बीजत्रयम् क्रमात् ।
समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान् नरः
समाधिकालात्पूर्वं तु भावयित्वैवम् आदृतः ।
ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम्
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ।
निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः
भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले ।
हकारम् विश्वम् आत्मानं रकारे प्रविलापयेत्
रकारं तैजसं देवम् ईकारे प्रविलापयेत् ।
ईकारं प्राज्ञम् आत्मानं ह्रीङ्कारे प्रविलापयेत्
वाच्यवाचकताहीनं द्वैतभावविवर्जितम् ।
अखण्डं सच्चिदानन्दं भावयेत् तच्छिखान्तरे
इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः ।
मद्रूप एव भवति द्वयोरप्येकता यतः
योगयुक्त्यानया दृष्ट्वा माम् आत्मानं परात्परम् ।
अज्ञानस्य सकार्यस्य तत् क्षणो नाशको भवेत्
मूल पाठ: Devīgītā (= Devībhāgavata-Purāṇa 7,31-40) · Data entry Ursula Honegger · GRETIL (Göttingen) · CC BY-NC-SA 4.0