भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 9.12

9.12.1

गङ्‌गोपाख्यानवर्णनम्
श्रीनारायण उवाच ॥
ध्यानं च कण्व शाखोक्तं सर्वं पापप्रणाशनम् ॥
श्वेतपंकजवर्णाभां गंगां पापप्रणाशिनीम्

9.12.2

कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ॥
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम्

9.12.3

शरत्पूर्णेंदुशतकमृष्टशोभाकरां पराम् ॥
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम्

9.12.4

नारायणप्रियां शांतां तत्सौभाग्यसमन्विताम् ॥
बिभ्रतीं कबरीभारं मालती माल्य संयुतम्

9.12.5

सिंदूरबिंदुललितं सार्धं चन्दनबिंदुभिः ॥
कस्तूरीपत्रकं गंडे नानाचित्रसमन्वितम्

9.12.6

पक्वबिंबविनिंद्याच्छ चार्वोष्ठपुटमुत्तमम्॥
मुक्तापंक्तिप्रभामुष्टदंतपंक्तिमनोरमम्

9.12.7

सुचारुवक्त्रनयनं सकटाक्षं मनोहरम् ॥
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम्

9.12.8

बृहच्छ्रोणिं सुकठिनां रंभास्तंभविनिंदिताम् ॥
स्थलपद्मप्रभामुष्टपदपद्मयुगं वरम्

9.12.9

रत्नपादुक संयुक्तं कुंकुमाक्तं सयावकम् ॥
देवेंद्रमौलिमंदारमकरंदकणारुणम्

9.12.9.12.10

सुरसिद्धमुनींद्रैश्च दत्तार्घसंयुतं सदा ॥
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम्

9.12.11

मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम् ॥
वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम्

9.12.12

श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ॥
इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम्

9.12.13

दत्त्वा संपूजयेद्ब्रह्मन्नुपचाराणि षोडश ॥
आसनं पाद्यमर्घं च स्नानीयं चाऽनुलेपनम्

9.12.14

धूपदीपं च नैवेद्यं तांबूलं शीतलं जलम् ॥
वसनं भूषण माल्यं गंधमाचमनीयकम्

9.12.15

मनोहरं सुतल्पं च देयान्येतानि षोडश ॥
दत्त्वा भक्त्या च प्रणमेत्संस्तूय संपुटांजलिः

9.12.16

संपूज्यैवं प्रकारेण सोऽश्वमेधफलं लभेत् ॥
नारद उवाच ॥
श्रोतुमिच्छामि देवेश लक्ष्मीकांत जगत्पते

9.12.17

विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् ॥
श्रीनारायण उवाच ॥
शृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम्

9.12.18

शिवसंगीतसंमुग्ध श्रीकृष्णांगसमुद्भवाम् ॥
राधांगद्रवसंयुक्तां तां गंगां प्रणमाम्यहम्

9.12.19

यज्जन्म सृष्टेरादौ च गोलोके रासमंडले ॥
सन्निधाने शंकरस्य तां गङ्गां प्रणमाम्यहम्

9.12.9.12.20

गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ॥
कार्त्तिकी पूर्णिमायां च तां गंगां प्रणमाम्यहम्

9.12.21

कोटियोजन विस्तीर्णा दैर्घ्ये लक्षगुणा ततः ॥
समावृता या गोलोके तां गंगां प्रणमाम्यहम्

9.12.22

षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा ॥
समावृता या वैकुण्ठे तां गंगां प्रणमाम्यहम्

9.12.23

त्रिंशल्लक्षयोजना या दैर्घ्ये पंचगुणा ततः ॥
आवृता ब्रह्मलोके या तां गंगां प्रणमाम्यहम्

9.12.24

त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः ॥
आवृता शिवलोके या तां गंगां प्रणमाम्यहम्

9.12.25

लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ॥
आवृता ध्रुवलोके या तां गंगां प्रणमाम्यहम्

9.12.26

लक्षयोजनविस्तीर्णा दैर्घ्ये पंचगुणा ततः ॥
आवृता चंद्रलोके या तां गंगां प्रणमाम्यहम्

9.12.27

षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः ॥
आवृता सूर्यलोके या तां गंगां प्रणमाम्यहम्

9.12.28

लक्षयोजनविस्तीर्णा दैर्घ्ये पंचगुणा ततः ॥
आवृता या तपोलोके तां गंगां प्रणमाम्यहम्

9.12.29

सहस्र योजनायामा दैर्घ्ये दशगुणा ततः ॥
आवृता जनलोके या तां गंगां प्रणमाम्यहम्

9.12.9.12.30

दशलक्षयोजना या दैर्घ्ये पंचगुणा ततः ॥
आवृता या महर्लोके तां गंगां प्रणमाम्यहम्

9.12.31

सहस्रयोजनायामा दैर्घ्ये शतगुणा ततः ॥
आवृता या च कैलासे तां गंगां प्रणमाम्यहम्

9.12.32

शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः ॥
मंदाकिनी येंद्रलोके तां गंगां प्रणमाम्यहम्

9.12.33

पाताले भोगवती चैव विस्तीर्णा दशयोजना ॥
ततो दशगुणा दैर्घ्ये तां गंगां प्रणमाम्यहम्

9.12.34

क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् ॥
क्षितौ चालकनन्दा या तां गंगां प्रणमाम्यहम्

9.12.35

सत्ये या क्षीरवर्णा च त्रेतायामिंदुसन्निभा ॥
द्वापरे चन्दनाभा या तां गंगां प्रणमाम्यहम्

9.12.36

जलप्रभा कलौ या च नाऽन्यत्र पृथिवीतले ॥
स्वर्गे च नित्यं क्षीराभा तां गंगां प्रणमाम्यहम्

9.12.37

यत्तोयकणिकास्पर्शे पापिनां ज्ञानसंभवः ॥
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत्

9.12.38

इत्येवं कथिता ब्रह्मन्गंगापद्यैकविशतिः ॥
स्तोत्ररूपं च परमं पापघ्नं पुण्यजीवनम्

9.12.39

नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम् ॥
सोऽश्वमेधफलं नित्यं लभते नात्र संशयः

9.12.9.12.40

अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्त्रियम् ॥
रोगात्प्रमुच्यते रोगी बंधान्मुक्तो भवेद् ध्रुवम्

9.12.41

अस्पष्टकीर्तिः सुयशा मूर्खो भवति पंडितः ॥
यः पठेत्प्रातरुत्थाय गंगास्तोत्रमिदं शुभम्

9.12.42

शुभं भवेच्च दुःस्वप्ने गगास्नानफलं लभेत् ॥
श्रीनारायण उवाच ॥
स्तोत्रेणानेन गंगां च स्तुत्वा चैव भगीरथ

9.12.43

जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः ॥
वैकुण्ठं ते ययुस्तूर्णं गंगाया स्पर्शवायुना

9.12.44

भगीरथेन सा नीता तेन भागीरथी स्मृता ॥
इत्येवं कथितं सर्वं गंगोपाख्यानमुत्तमम्

9.12.45

पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥
नारद उवाच ॥
कथं गंगा त्रिपथगा जाता भुवनपावनी

9.12.46

कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो ॥
तत्रस्थाश्च जना ये ये ते च किं चक्रुरुत्तमम्

9.12.47

एतत्सर्वं तु विस्तीर्णं कृत्वा वक्तुमिहार्हसि ॥
नारायण उवाच ॥
कार्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः

9.12.48

कृष्णः संपूज्य तां राधामुवास रासमण्डले ॥
कृष्णेन पूजितां सा तु संपूज्य दृष्टमानसाः

9.12.49

ऊषुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः ॥
एतस्मिन्नंतरे कृष्णसंगीता च सरस्वती

9.12.9.12.50

जगौ सुन्दरतालेन वीणया च मनोहरम् ॥
तुष्टो ब्रह्मा ददौ तस्यै रत्नेंद्रसारहारकम्

9.12.51

शिवो मणींद्रसारं तु सर्वब्रह्माण्ड दुर्लभम् ॥
कृष्णः कौस्तुभरत्नं च सर्वरत्नात्परं वरम्

9.12.52

अमूल्यरत्ननिर्माणं हारसारं च राधिका ॥
नारायणश्च भगवान्ददौ मालां मनोहराम्

9.12.53

अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुंडलम् ॥
विष्णुमाया भगवती मूलप्रकृतिरीश्वरी

9.12.54

दुर्गा नारायणीशाना ब्रह्मभक्तिं सुदुर्लभाम् ॥
धर्मबुद्धिं च धर्मश्च यशश्च विपुलं भवे

9.12.55

वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरान् ॥
एतस्मिन्नंतरे शंभुर्ब्रह्मणा प्रेरितो मुहुः

9.12.56

जगौ श्रीकृष्णसंगीतं ससोल्लाससमन्वितम् ॥
मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा

9.12.57

कष्टेन चेतनां प्राप्य ददृशू रासमंडले ॥
स्थलं सर्वं जलाकीर्णं राधाकृष्णविहीनकम्

9.12.58

अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः ॥
ध्यानेन ब्रह्मा बुबुधे सर्वं तीर्थमभीप्सितम्

9.12.59

गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति ॥
ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरात्

9.12.9.12.60

स्वमूर्तिं दर्शय विभो वांछितं वरमेव नः ॥
एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी

9.12.61

तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम् ॥
सर्वात्माऽहमियं शक्तिर्भक्तानुग्रह विग्रहा

9.12.62

ममाप्यस्याश्च देहेन कर्त्तव्यं च किमावयोः ॥
मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः

9.12.63

मन्मन्त्रपूता मां द्रष्टुमागमिष्यंति मत्पदम् ॥
मूर्तिं द्रष्टुं च सुव्यक्तां यदीच्छत सुरेश्वराः

9.12.64

करोतु शंभुस्तत्रैवं मदीयं वाक्यपालनम् ॥
स्वयं विधातस्त्वं बह्मन्नाज्ञां कुरु जगद्गुरुम्

9.12.65

कर्तुं शास्त्रविशेषं च वेदांगं सुमनोहरम् ॥
अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः

9.12.66

स्तोत्रैश्च च निकरैर्ध्यानैर्युतं पूजाविधिक्रमैः ॥
मन्मन्त्रकवचस्तोत्रं कृत्वा यत्नेन गोपनम्

9.12.67

भवंति विमुखा येन जना मां तत्करिष्यति ॥
सहस्रेषु शतेष्वेको मन्मंत्रोपासको भवेत्

9.12.68

जना मन्मंत्रपूताश्च गमिष्यंति च मत्पदम् ॥
अन्यथा न भविष्यंति सर्वे गोलोकवासिनः

9.12.69

निष्फलं भविता सर्वं ब्रह्मांडं चैव ब्रह्मणः ॥
जनाः पंच प्रकाराश्च युक्ताः स्रष्टुं भवे भवे

9.12.9.12.70

पृथिवीवासिनः कचित्केचित्स्वर्गनिवासिनः ॥
इदं कर्तुं महादेवः करोति देवसंसदि

9.12.71

प्रतिज्ञां सुदृढां सद्य स्ततो मूर्तिं च द्रक्ष्यति ॥
इत्येवमुक्त्वा गगने विरराम सनातनः

9.12.72

तच्छुत्वा जगतां धाता तमुवाच शिवं मुदा ॥
ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनः वरः

9.12.73

गंगातोयं करे कृत्वा स्वीकारं च चकार सः ॥
संयुक्तं विष्णुमायाया मंत्रौघैः शास्त्रमुत्तमम्

9.12.74

वेदसारं करिष्यामि प्रतिज्ञापालनाय च ॥
गंगातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः

9.12.75

स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः ॥
इत्युक्ते शंकरे ब्रह्मन्गोलोके सुरसंसदि

9.12.76

आविर्बभूव श्रीकृष्णो राधया सहितस्ततः ॥
तं सुदृष्ट्वा च संहृष्टास्तुष्टुवुः पुरुषोत्तमम्

9.12.77

परमानन्दपूर्णाश्च चक्रुश्च पुनरुत्सवम् ॥
कालेन शंभुर्भगवान्मुक्तिदीपं चकार सः

9.12.78

इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् ॥
स एव द्रवरूपा सा गंगा गोलोकसंभवा

9.12.79

राधाकृष्णांगसंभूता भुक्तिमुक्तिफलप्रदा ॥
स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना

9.12.12

कृष्णस्वरूपा परमा सर्वब्रह्मांडपूजिता ॥
इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे द्वादशोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc