भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 8.10

8.10.1

भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम्
श्रीनारायण उवाच
हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् ।
आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते

8.10.2

अर्यमोवाच
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण-
विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूमे नमोऽवस्थानाय नमस्ते ।
यद्‌रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम् ।
संख्या न यस्यास्त्ययथोपलम्भना-
त्तस्मै नमस्तेऽव्यपदेशरूपिणे

8.10.3

जरायुजं स्वेदजमण्डजोद्‌‍भिदं
चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौः खं क्षितिः शैलसरित्समुद्रं
द्वीपग्रहर्क्षेत्यभिधेय एकः

8.10.4

यस्मिनसंख्येयविशेषनाम-
रूपाकृतौ कविभिः कल्पितेयम् ।
संख्या यया तत्त्वदृशापनीयते
तस्मै नमः सांख्यनिदर्शनाय ते

8.10.5

एवं स्तुवति देवेशमर्यमा सह वर्षपैः ।
गीयते चापि भजते सर्वभूतभवं प्रभुम्

8.10.6

तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः ।
आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा

8.10.7

सम्पूज्य विधिवद्देवं तद्‍भक्त्यार्द्रार्द्रहृत्कजा ।
भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम्

8.10.8

भूरुवाच
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे
महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय
त्रियुगाय नमस्ते

8.10.9

यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मज्जन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थेर्नम ईरितात्मने

8.10.10

द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुभिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
निंरस्तमायाकृतये नमोऽस्तु ते

8.10.11

करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेष्मितुमीक्षितुर्गुणैः ।
माया यथाऽयो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे

8.10.12

प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रं निरगादुदन्वतः
क्रीडन्निवेभः प्रणतास्मि तं विभुम्

8.10.13

किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् ।
सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति

8.10.14

ॐ नमो भगवते उत्तमश्लोकाय नम इति ।
आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने
उपासितलोकाय नमः । साधुवादनिकषणाय नमो
ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति ।
यत्तद्विशुद्धानुभवात्ममेकं
स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक् प्रशान्तं सुधियोपलम्भनं
ह्यनामरूपं निरहं प्रपद्ये

8.10.15

मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभो ।
कुतोऽन्यथा स्याद्ऽऽरमतः स्व आत्मनः
सीताकृतानि व्यसनानीश्वरस्य

8.10.16

न वै स आत्मात्मवतां सुहृत्तमः
सक्तस्विलोक्यां भगवान्वासुदेवः ।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्षणं चापि विहातुमर्हति

8.10.17

न जन्म नूनं महतो न सौभगं
न वाङ् न चुद्धिर्नाकृतिस्तोषहेतुः ।
तैर्यद्विसृष्टानपि नो वनौकस-
श्चकार सख्ये बत लक्ष्मणाग्रजः

8.10.18

सुरोऽसुरो वाप्यथवा नरोऽनरः
सर्वात्मना यः सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान् दिवम्

8.10.19

श्रीनारायण उवाच
एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् ।
रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः

8.10.20

स्तौति गायति भक्त्या च संपूजयति सर्वशः ।
य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् ।
सर्वपापविशुद्धात्मा याति रामसलोकताम्

8.10.10

-
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे
भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनं नाम दशमोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc