देवी भागवत पुराण · अध्याय 7.10
सत्यव्रताख्यानवर्णनम्
व्यास उवाच ॥
बभूव चक्रवर्ती स नृपतिः सत्यसंगरः ॥
मांधाता पृथिवीं सर्वामजयन्नृपतीश्वरः
दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च ॥
इंद्रेणास्य कृतं नाम त्रसदस्युरिति स्फुटम्
तस्य बिंदुमती भार्या शशबिंदोः सुताऽभवत् ॥
पतिव्रता सुरूपा च सर्वलक्षणसंयुता
तस्यामुत्पादयामास मांधाता द्वौ सुतौ नृप ॥
पुरुकुत्सं सुविख्यातं मुचुकुंदं तथाऽपरम्
पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः ॥
पितृभक्तिरतश्चाभूद् बृहदश्वस्तदात्मजः
हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित् ॥
तस्याऽऽत्मजस्त्रिधन्वा भूदरुणस्तस्य चात्मजः
अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः ॥
सोऽभूदिच्छाचरः कामी मंदात्मा ह्यतिलोलुपः
स पापात्मा विप्रभार्यां हृतवान्काममोहितः ॥
विवाहे तस्य विघ्नं स चकार नृपतेः सुतः
मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप ॥
ऊचुर्भृशं सुदुःखार्ता हा हताः स्मेति चासकृत्
पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः ॥
किं कृतं मम पुत्रेण भवतामशुभं द्विजाः
तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् ॥
तदोचुस्त्वरुणं विप्राः कृताशीर्वचना भृशम्
ब्राह्मणा ऊचुः ॥
राजंस्तव सुतेनाद्य विवाहे प्रहृता किल ॥
विवाहिता विप्रकन्या बलेन बलिनां वर
व्यास उवाच ॥
श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः ॥
पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा
गच्छ दूरं सुमंदात्मन्दुराचार गृहान्मम ॥
न स्थातव्यं त्वया पाप विषये मम सर्वथा
कुपितं पितरं प्राह क्व गच्छामिति वै मुहुः ॥
अरुणास्तमथोवाच श्वपाकैः सह वर्तय
श्वपचस्य कृतं कर्म द्विजदारापहारणम्॥
तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम्
नहि पुत्रेण पुत्रार्थी त्वया च कुलपांसना ॥
यथेष्टं व्रज दुष्टात्मन्कीतनाशः कृतस्त्वया
स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः ॥
निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ
सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते ॥
धनुर्बाणधरः श्रीमान्कवची करुणालयः
यदा निष्कासितः पित्रा कुपितेन महात्मना ॥
गुरुणाऽथ वसिष्ठेन प्रेरितोऽसौ महीपतिः
तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः ॥
वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे
केनचित्कारणेनाथ पिता तस्य महीपतिः ॥
पुत्रर्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गत
न ववर्ष तदा तस्मिन्विषये पाकशासनः ॥
समा द्वादश राजेंद्र तेनाऽधर्मेण सर्वथा
विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप ॥
संन्यस्य कौशिकीतीरे चचार विपुलं तपः
कातरा तत्र संजाता भार्या कौशिकस्य ह ॥
कुटुंबभरणार्थाय दुःखिता वरवर्णिनी
बालकान्क्षुधयाऽऽक्रांतान्रुदतः पश्यती भृशम् ॥
याचामानांश्च नीवारान्कष्टमाप पति व्रता
चिंतयामास दुःखार्ता तोकान्वीक्ष्य क्षुधाऽऽतुरान् ॥
नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम्
न मे त्राताऽस्ति पुत्राणां पतिर्मे नास्ति सन्निधौ ॥
रुदंति बालकाः कामं धिङ्मे जीवनमद्य वै
धनहीना च मां त्यक्त्वा तपस्तप्तं गतः पतिः ॥
न जानाति समर्थोऽपि दुःखितां धनवर्जिताम्
बालानां भरणं केन करोमि पतिना विना ॥
मरिष्यंति सुताः सर्वे क्षुधया पीडिता भृशम्
एकं सुतं तु विक्रीय द्रव्येण कियता पुनः॥
पालयामि सुतानन्यानेष मे विहितो विधिः
सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये ॥
कालस्य कलनायाहं विक्रीणामि तथाऽऽत्मजम्
हृदयं कठिनं कृत्वा संचिंत्य मनसा सती ॥
सा दर्भरज्ज्वा बद्धाथ गले पुत्रं विनिर्गता
मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ॥
शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात्
दृष्टा सत्यव्रतेनाऽऽर्ता तापसी शोकसंयुता ॥
पप्रच्छ नृपतिस्तां तु किं चिकीर्षसि शोभने
रुदंतं बालकं कंठे बद्ध्वा नयसि काऽधुना ॥
किमर्थं चारुसर्वांगि सत्यं ब्रूहि ममाऽग्रतः ॥
ऋषिपत्न्युवाच ॥
विश्वामित्रस्य भार्याऽहं पुत्रोऽयं मे नृपात्मज ॥
विक्रेतुमौरसं कामं गमिष्ये विषमेऽ सुतम्
अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तं नृप क्वचित् ॥
विक्रीणामि क्षुधार्तेन शेषस्य भरणाय वै
राजोवाच ॥
पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव ॥
तावदेव पतिस्तेऽत्र वनाच्चैवाऽऽगमिष्यति
वृक्षे तवाऽऽश्रमाभ्याशे भक्ष्यं किंचिन्निरंतरम् ॥
वंधयित्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम्
इत्युक्ता सा तदा तेन राज्ञा कौशिककामिनी ॥
विबंधं तययं कृत्वा जगामाऽऽश्रममंडलम्
सोऽभवद्गालवो नाम गलबंधान्महातपाः ॥
सा तु स्वस्याऽऽश्रमे गत्वा मुमोद बालकैर्वृता
सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः ॥
विश्वामित्रस्य च मुनेः कलत्रं तद्बभार ह
वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा ॥
विश्वामित्रवनाभ्याशे मांसं वृक्षे बबंध ह
ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदा त्ततः ॥
निर्वृतिं परमां प्राप प्राप्य भक्ष्यमनुत्तमम्
अयोध्यां चैव राज्यं च तथैवांतः पुरं मुनिः ॥
गते तप्तुं नृपे तस्मिन्व सिष्ठः पर्यरक्षत
सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद्बहिः ॥
पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने
सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः ॥
वसिष्ठे चाऽधिकं मन्युं धारयामास नित्यदा
त्याज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम् ॥
न वारयामास मुनिर्वसिष्ठः कारणेन ह
पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे ॥
जानन्नपि स धर्मात्मा विप्रदारपरिग्रहे
कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावं महीपतिः ॥
वसिष्ठस्य च गां दोग्ध्रीमपश्यद्वनमध्यगाम्
तां जघान क्षुधार्तस्य क्रोधान्मोहाच्च दस्युवत् ॥
वृक्षे बबंध तन्मांसं नीत्वा स्वयम भक्षयत्
ऋषिषत्नी सुतान्सर्वान्भोजयामास तत्तदा ॥
शंकमाना मृगस्येति न गोरिति च सुव्रता
वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा कुद्धस्तमब्रवीत् ॥
दुरात्मन्किं कृतं पापं धेनुघातात्पिशाचवत्
एवं ते शंकवः क्रूरा पतंतु त्वरितास्त्रयः ॥
गोवधाहारहरणात्पितुः क्रोधात्तथा भृशम्
त्रिशंकुरिति नाम्ना वै भुवि ख्यातो भविष्यसि ॥
पिशाचरूपमात्मानं दर्शयन्सर्व देहिनाम्
व्यास उवाच ॥
एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः॥
चचार च तपस्तीव्रं तस्मिन्नेवाऽऽश्रमे थितः
कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मंत्रमनुत्तमम् ॥
ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम्
इति श्रीदेवीभागवते महापुराणे सप्तमस्कंधे दशमोऽध्यायः
मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0