भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 6.20

6.20.1

एकवीराख्यानवर्णनम्
जनमेजय उवाच
संशयोऽयं महानत्र जातमात्रः शिशुस्तथा ।
मुक्तः केन गृहीतोऽसावेकाकी विजने वने

6.20.2

का गतिस्तस्य बालस्य जाता सत्यवतीसुत ।
व्याघ्रसिंहादिभिर्हिंस्रैर्गृहीतो नातिबालकः

6.20.3

व्यास उवाच
लक्ष्मीनारायणौ तस्मात्स्थानाच्च चलितौ यदा ।
तदैव तत्र चम्पाख्यः प्राप्तो विद्याधरः किल

6.20.4

विमानवरमारूढः कामिन्या सहितो नृप ।
मदनालसया कामं क्रीडमानो यदृच्छया

6.20.5

विलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम् ।
देवपुत्रप्रतीकाशं रममाणं यथासुखम्

6.20.6

विमानात्तरसोत्तीर्य चम्पकस्तं शिशु जवात् ।
जग्राह च मुदं प्राप निधिं प्राप्य यथाधनः

6.20.7

गृहीत्वा चम्पकः प्रादाद्देव्यै तं मदनोपमम् ।
मदनालसायै तं बालं जातमात्रं मनोहरम्

6.20.8

सा गृहीत्वा शिशुं प्रेम्णा सरोमाञ्चा सविस्मया ।
मुखं चुचुम्ब बालस्य कृत्वा तु हृदये भृशम्

6.20.9

आलिङ्‌गितश्चुम्बितश्च तयासौ प्रीतिपूर्वकम् ।
उत्सङ्गे च कृतस्तन्व्या पुत्रभावेन भारत

6.20.10

कृत्वाङ्के तौ समारूढौ विमानं दम्पती मुदा ।
पतिं पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा

6.20.11

कस्यायं बालकः कान्त त्यक्तः केन च कानने ।
पुत्रोऽयं मम देवेन दत्तस्त्र्यम्बकपाणिना

6.20.12

चम्पक उवाच
प्रिये गत्वाद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै ।
देवो वा दानवो वापि गन्धर्वो वा शिशुः किल

6.20.13

तेनाज्ञप्तः करिष्यामि पुत्रं प्राप्तं वनादमुम् ।
अपृष्ट्वा नैव कर्तव्यं कार्यं किञ्चिन्मया ध्रुवम्

6.20.14

इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चम्पकः ।
ययौ शक्रपुरं तूर्णं हर्षेणोत्फुल्ललोचनः

6.20.15

प्रणम्य पादयोः प्रीत्या चम्पकस्तु शचीपतिम् ।
निवेद्य बालकं प्राह कृताञ्जलिपुटः स्थितः

6.20.16

देवदेव मया लब्धस्तीर्थे परमपावने ।
कालिन्दीतमसासङ्गे बालकोऽयं स्मरप्रभः

6.20.17

कस्यायं बालकः कान्तः कथं त्यक्तः शचीपते ।
आज्ञा चेत्तव देवेश कुर्वेऽहं बालकं सुतम्

6.20.18

अतीव सुन्दरो बालः प्रियाया वल्लभः सुतः ।
कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा

6.20.19

इन्द्र उवाच
पुत्रोऽयं वासुदेवस्य वाजिरूपधरस्य ह ।
हैहयोऽयं महाभाग लक्ष्म्यां जातः परन्तपः

6.20.20

उत्पादितो भगवता कार्यार्थं किल बालकः ।
दातुं नृपतये नूनं ययातितनयाय च

6.20.21

हरिणा प्रेरितः सोऽद्य राजा परमधार्मिकः ।
आगमिष्यति पुत्रार्थं तीर्थे तस्मिन्मनोरमे

6.20.22

तावत्त्वं गच्छ तत्रैव गृहीत्वा बालकं शुभम् ।
यावन्न याति नृपतिर्ग्रहीतुं हरिणेरितः

6.20.23

गत्वा तत्र विमुञ्चैनं विलम्बं मा कृथा वर ।
अदृष्ट्वा बालकं राजा दुःखितश्च भविष्यति

6.20.24

तस्माच्चम्पक मुञ्चैनं राजा प्राप्नोतु पुत्रकम् ।
एकवीरेति नाम्नायं ख्यातः स्यात् पृथिवीतले

6.20.25

व्यास उवाच
इति तस्य वचः श्रुत्वा चम्पकस्त्वरयान्वितः ।
जगाम पुत्रमादाय स्थले तस्मिन्महीपते

6.20.26

मुमोच बालकं तत्र यत्र पूर्वं स्थितो ह्यभूत् ।
आरुह्य स्वविमानं तु ययौ स्वाश्रममण्डलम्

6.20.27

तदैव कमलाकान्तो लक्ष्म्या सह जगद्‌गुरुः ।
विमानवरमारूढो जगाम नृपतिं प्रति

6.20.28

दृष्टस्तदा तेन नृपेण विष्णुः
समुत्तरंस्तत्र विमानमुख्यात् ।
जहर्ष राजा हरिदर्शनेन
पपात भूमौ खलु दण्डवच्च

6.20.29

उत्तिष्ठ वत्सेति हरिः पतन्त-
माश्वासयद्‌भूमिगतं स्वभक्तम् ।
सोऽप्युत्सुको वासुदेवं पुरःस्थं
तुष्टाव भक्त्या मुखरीकृतोऽथ

6.20.30

देवाधिदेवाखिललोकनाथ
कृपानिधे लोकगुरो रमेश ।
मन्दस्य मे ते किल दर्शनं य-
त्सुदुर्लभं योगिजनैरलभ्यम्

6.20.31

ये निःस्पृहास्ते विषयैरपेता-
स्तेषां त्वदीयं खलु दर्शनं स्यात् ।
आशापरोऽहं भगवन्ननन्त
योग्यो न ते दर्शने देवदेव

6.20.32

इति स्तुतस्तेन नृपेण विष्णु-
स्तमाह वाक्येन सुधामयेन ।
वृणीष्व राजन् मनसेप्सितं ते
ददामि तुष्टस्तपसा तवेति

6.20.33

ततो नृपस्तं प्रणिपत्य पादयोः
प्रोवाच विष्णुं पुरतः स्थितं च ।
तपस्तु तप्तं हि मया सुतार्थे
पुत्रं ददस्वात्मसमं मुरारे

6.20.34

श्रुत्वा नृपप्रार्थितमादिदेव-
स्तमाह राजानममोघवाक्यम् ।
ययातिसूनो व्रज तत्र तीर्थे
कलिन्दकन्यातमसाप्रसङ्गे

6.20.35

मयाद्य पुत्रस्तु यथेप्सितस्ते
तत्रैव मुक्तोऽस्त्यमितप्रभावः ।
लक्ष्म्याः प्रसूतो मम वीर्यजश्च
कृतस्तवार्थेऽथ गृहाण राजन्

6.20.36

श्रुत्वा हरेर्वाक्यमतीव मृष्टं
सन्तुष्टचित्तः प्रबभूव राजा ।
हरिस्तु दत्त्वेति वरं जगाम
वैकुण्ठलोकं रमया युतश्च

6.20.37

गते हरौ सोऽथ ययातिसूनु-
र्ययावनुद्धातरथेन राजा ।
प्रेमान्वितस्तत्र सुतोऽस्ति यत्र
वचो निशम्येति जनार्दनस्य

6.20.38

स तत्र गत्वातिमनोहरं तं
ददर्श बालं भुवि खेलमानम् ।
मुखे निवेश्यैककरेण कृत्वा
श्लक्ष्णं पदाङ्गुष्ठमनन्यसत्त्वः

6.20.39

तं वीक्ष्य पुत्रं मदनस्वरूपं
नारायणांशं कमलाप्रसूतम् ।
हरिप्रभावं हरिवर्मनामा
हर्षप्रफुल्लाननपङ्कजोऽभूत्

6.20.40

गृह्णन् सुवेगात् करपङ्कजाभ्यां
बभूव प्रेमार्णवमग्नदेहः ।
मूर्धन्युपाघ्राय मुदान्वितोऽसौ
ननन्द राजा सुतमालिलिङ्ग

6.20.41

मुखं समीक्ष्यातिमनोहरं त-
मुवाच नेत्राम्बुनिरुद्धकण्ठः ।
दत्तोऽसि देवेन जनार्दनेन
मात्रा हि पुत्रावमदुःखभीतेः

6.20.42

तप्तं मया पुत्र तपस्तवार्थे
सुदुष्करं वर्षशतं च पूर्णम् ।
तेनैव तुष्टेन रमाप्रियेण
दत्तोऽसि संसारसुखोदयाय

6.20.43

माता रमा त्वां तनुजं मदर्थे
त्यक्त्वा गता सा हरिणा समेता ।
धन्या तु सा या प्रहसन्तमङ्के
कृत्वा सुतं त्वां मुदितानना स्यात्

6.20.44

त्वमेव संसारसमुद्रनौका-
रूपः कृतः पुत्र लक्ष्मीधरेण ।
इत्येवमुक्त्वा नृपतिः सुतं तं
मुदा समादाय ययौ गृहाय

6.20.45

पुरीसमीपे नृपमागतं त-
माकर्ण्य सर्वे सचिवास्तु राज्ञः ।
ययुः समीपं नृपतेश्च लोकाः
सोपायनास्ते सपुरोहिताश्च

6.20.46

बन्दीजना गायनकाश्च सूताः
समाययुः सम्मुखमाशु राज्ञः ।
नृपः पुरं प्राप्य पुरः समागतं
जनं समाश्वास्य वाक्यैश्च दृष्ट्या

6.20.47

सम्पूजितः पौरजनेन राजा
विवेश पुत्रेण युतो नगर्याम् ।
मार्गेषु लाजैः कुसुमैः समन्ता-
द्विकीर्यमाणो नृपतिर्जगाम

6.20.48

गृहं समृद्धं सचिवैः समेतः
सुतं समादाय मुदा कराभ्याम् ।
राज्ये ददौ चाथ सुतं मनोज्ञं
सद्यःप्रसूतं च मनोभवाभम्

6.20.49

राज्ञी गृहीत्वाभिनवं तनूजं
पप्रच्छ राजानमनिन्दिता सा ।
राजन् कुतश्चैव सुतः सुजन्मा
प्राप्तस्त्वया मन्मथतुल्यरूपः

6.20.50

केनैष दत्तः कथयाशु कान्त
चेतो मदीयं प्रहृतं सुतेन ।
नृपस्तदोवाच मुदान्वितोऽसौ
प्रिये रमेशेन सुतो हि मह्यम्

6.20.51

लोलाक्षि दत्तः कमलासमुत्थो
जनार्दनांशोऽयमहीनसत्त्वः ।
सा तं गृहीत्वा मुदमाप राज्ञी
राजा चकारोत्सवमद्‌भुतं च

6.20.52

ददौ च दानं किल याचकेभ्यो
गीतानि वाद्यानि बहूनि नेदुः ।
कृत्वोत्सवं भूपतिरात्मजस्य
नामैकवीरेति चकार विश्रुतम्

6.20.53

सुखं च सम्प्राप्य मुदान्वितोऽसौ
ननन्द देवाधिपतुल्यवीर्यः ।
पुत्रं हरे रूपगुणानुरूपं
सम्प्राप्य वंशस्य ऋणाच्च मुक्तः

6.20.54

इति सकलसुराणामीश्वरेणार्पितं तं
सकलगुणगणाढ्यं पुत्रमासाद्य राजा ।
विविधसुखविनोदैर्भार्यया सेव्यमानो
व्यहरत निजगेहे शक्रतुल्यप्रतापः

6.20.20

इति श्रीमद्देवीभागवतेमहापुराणेऽष्टादशसाहस्र्यां संहितायां
षष्ठस्कन्धे एकवीराख्यानवर्णनं नाम विंशोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc