भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 4.14

4.14.1

प्रह्लादेन शुक्रकोपसान्त्वनम्
व्यास उवाच ॥
इति संचिंत्य मनसा तानुवाच हसन्निव ॥
वंचिता मत्स्वरूपेण दैत्याः किं गुरुणा किल

4.14.2

अहं काव्यो गुरुश्चाऽयं देवकार्यप्रसादकः ॥
अनेन वंचिता यूयं मद्याज्या नात्र संशयः

4.14.3

मा श्रद्धध्वं वचोऽस्याऽऽर्या दाभिकोऽयं मदा कृतिः ॥
अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम्

4.14.4

इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः ॥
विस्मयं परमं जग्मुः काव्योऽयमिति निश्चिताः

4.14.5

स तान्वीक्ष्य सुसंभ्रातान्गुरुर्वाक्यमुवाच ह ॥
गुरुर्वो वंचयत्येव मद्रूपोऽयं बृहस्पतिः

4.14.6

प्राप्तो वंचयितुं युष्मान्देवकार्यार्थसिद्धये ॥
मा विश्वासं वचस्यस्य कुरुध्वं दैत्यसत्तमाः

4.14.7

प्राप्ता विद्या मया शंभोर्युष्मानध्याप यामि ताम् ॥
देवेभ्यो विजयं नूनं करिष्यामि न संशयः

4.14.8

इति श्रुत्वा गुरोर्वाक्यं काव्यं रूपधरस्य ते ॥
निश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात्

4.14.9

काव्येन बहुधा तत्र बोधिताः किल दानवाः ॥
बुबुधुर्न गुरोर्मायामोहिताः काल पर्ययात्

4.14.4.14.10

एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् ॥
अयं गुरुर्नो धर्मात्मा बुद्धिदश्च हिते रतः

4.14.11

दशवर्षाणि सततमयं नः शास्ति भार्गवः ॥
गच्छ त्वं कुहको भासि नाऽस्माकं गुरुरप्युत

4.14.12

इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः ॥
जगृहुस्तं गुरुं प्रीत्या प्रणिपत्या ऽभिवाद्य च

4.14.13

काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाऽथ शशाप च ॥
दैत्यान्विबोधि तान्मत्वा गुरुणा चातिवंचितान्

4.14.14

यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः॥
तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ

4.14.15

मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ॥
तदाऽस्य कपटं सर्वं परिज्ञातं भविष्यति

4.14.16

व्यास उवाच ॥
इत्युक्त्वाऽसौ जगामाऽशु भार्गवः क्रोधसंयुतः ॥
बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः

4.14.17

ततः शप्तान्गुरु र्ज्ञात्वा दैत्यांस्तान्भार्गवेण हि ॥
जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च

4.14.18

गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम् ॥
शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः पुनः

4.14.19

निराधारा कृता नूनं यतध्वं सुरसत्तमाः ॥
संग्रामार्थं महाभाग शापदग्धा मया कृताः

4.14.4.14.20

इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् ॥
जहृषुश्च सुराः सर्वे प्रतिपूज्य बृहस्पतिम्

4.14.21

संग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः ॥
निर्ययुर्मिलिता सर्वे दानवाऽभिमुखाः सुराः

4.14.22

सुरान्समुद्यतान्ज्ञात्वा कृतोद्योगान्महाबलान् ॥
अंतर्हितं गुरुं चैव बभूवुश्चिंतयाऽन्विताः

4.14.23

परस्परमथोचुस्ते मोहितास्तस्य मायया ॥
संप्रसाद्यो महात्मा च यातोऽसौ रुष्टमानसः

4.14.24

वंचयित्वा गतः पापो गुरुः कपटपंडितः ॥
भ्रातृस्त्रीलंभनः प्रायो मलिनोंऽतर्बहिः शुचिः

4.14.25

किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम् ॥
कूर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम्

4.14.26

इति संचिंत्य ते सर्वे मिलिता भयकंपिताः ॥
प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः

4.14.27

प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा ॥
भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः

4.14.28

मया प्रबोधिता यूयं मोहिता गुरुमायया ॥
न गृहीतं वचो योग्यं तदा याज्या हितं शुचि

4.14.29

तदाऽवगणितश्चाहं भवद्भिस्तद्वशं गतैः ॥
प्राप्तं नूनं मदोन्मत्तैर्ममाऽवमानजं फलम्

4.14.4.14.30

तत्र गच्छत सद्भ्रष्टा यत्रासौ कपटाकृतिः ॥
वंचकः सुरकार्यार्थी नाहं तद्वद्धि वंचकः

4.14.31

व्यास उवाच ॥
एवं ब्रुवतं शुक्रं तु वाक्यं संदिग्धया गिरा ॥
प्रह्लादस्तं तदोवाच गृहीत्वा चरणौ ततः

4.14.32

प्रह्लाद उवाच ॥
भार्गवाऽद्य समायातान्याज्यानस्मांस्तथाऽऽतुरान् ॥
त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितांस्तनयान्हि नः

4.14.33

गते त्वयि तु मंत्रार्थं शैलूषेण दुरात्मना ॥
त्वद्वेषमधुराऽऽलापैर्वयं तेन प्रवंचिताः

4.14.34

अज्ञानकृतदोषेण नैव कुप्यति शांतिमान् ॥
सर्वज्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वयि

4.14.35

ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते ॥
ब्रुवंति मुनयः सर्वे क्षणकोपाहि साधवः

4.14.36

जलं स्वभावत शीतं वह्न्यातप समाग मात् ॥
भवत्युष्णं वियोगाच्च शीतत्वमनुगच्छति

4.14.37

क्रोधश्चांडालरूपो वै त्यक्तव्यः सर्वथा बुधैः ॥
तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत

4.14.38

यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान् ॥
त्वया त्यक्ता महाभाग गमिष्यामो रसातलम्

4.14.39

व्यास उवाच ॥
प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा ॥
विलोक्य सुमना भूत्वा तानुवाच हसन्निव

4.14.4.14.40

न भेतव्यं न गंतव्यं दानवा वा रसातलम् ॥
रक्षयिष्यामि वो याज्यान्मंत्रैरवितथैः किल

4.14.41

हितं सत्यं ब्रवीम्यद्य शृणुध्वं तत्तु निश्चयम् ॥
वचनं मम धर्मज्ञाः श्रुतं यद्ब्रह्मणः पुरा

4.14.42

अवश्यंभाविनो भावाः प्रभवंति शुभाऽशुभाः ॥
देवं न चाऽन्यथा कर्तुं क्षमः कोऽपि धरातले

4.14.43

अद्य मंदबला यूयं कालयोगादसंशयम् ॥
देवैर्जिताः सकृच्चाऽपि पातालं प्रतिपत्स्यथ

4.14.44

प्राप्तः पर्यायकालो वै इति ब्रह्माऽभ्यभाषत ॥
भुक्तं राज्यं भवद्भिश्च पूर्णं सर्वं समृद्धिमत्

4.14.45

युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि ॥
दैवयोगाच्च युस्माभिर्भुक्तं त्रैलोक्यमूर्जितम्

4.14.46

सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति ॥
पौत्रस्त्रैलोक्य विजयी राज्यं प्राप्स्यति ते बलिः

4.14.47

यदा वामनरूपेण हृतं देवेन विष्णुना ॥
तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना

4.14.48

हृतं येन बले राज्यं देववांछार्थ सिद्धये ॥
त्वमिंद्रो भविता चाग्रे स्थिते सावर्णिके मनौ

4.14.49

भार्गव उवाच ॥
इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद सांप्रतम् ॥
अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत्

4.14.4.14.50

एकदा वासवेनासौ बलिर्गर्दभरूपभाक् ॥
शून्ये गृहे स्थितः कामं भयभीतः शतक्रतो

4.14.51

पृष्टश्च बहुधा तेन वासवेन बलिस्तदा ॥
किमर्थं गार्दभं रूपं कृतवान्दैत्यपुंगव

4.14.52

भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता ॥
न लज्जा खररूपेण तव राक्षससत्तम ॥
तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा

4.14.53

प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो ॥
यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः

4.14.54

तथाऽहं खररूपेण संस्थितः कालयोगतः ॥
यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया

4.14.55

पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक् ॥
दैवाधीनस्य किं दुःखं किं सुखं पाकशासन

4.14.56

कालः करोति वै नूनं यदिच्छति यथा तथा ॥
भार्गव उवाच ॥
इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम्

4.14.57

प्रबोधं प्रापतुः कामं यथास्थानं च जग्मतुः ॥
इत्येतत्ते समाख्याता मया दैवबलिष्ठता

4.14.58

दैवाधीनं जगत्सर्वं सदेवासुरमानुषम्

4.14.14

इति श्रीदेवीभागवते महापुराणे चतुर्थस्कंधे चतुर्दशोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc