भाषा

ENहिગુ
ग्रंथ पाठ

देवी भागवत पुराण · अध्याय 1

1.1

श्रीदुर्गादेव्यै नमः
श्रीमद्देवीभागवतमाहात्म्यम्
सृष्टी या सर्गरूपा जगदवनविधौ पालिनी या च रौद्री
संहारे चापि यस्या जगदिदमखिलं क्रीडनं याऽपराख्या ।
पश्यन्ती मध्यमाऽथो तदनु भगवती वैखरीवर्णरूपा
साऽस्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधिताऽलङ्करोतु

1.2

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

1.3

ऋषय ऊचुः।
सूत जीव समा बह्वीर्यस्त्वं श्रावयसीह नः ।
कथा मनोहराः पुण्या व्यासशिष्य महामते

1.4

सर्वपापहरं पुण्यं विष्णोश्चरितमद्भुतम् ।
अवतार कथोपेतमस्माभिर्भक्तितः श्रुतम्

1.5

शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा ।
सेतिहासं च माहात्म्यं श्रुतं तव मुखाम्बुजात्

1.6

अधुना श्रोतुमिच्छामः पावनात्पावनं परम् ।
भुक्तिमुक्तिप्रदं नॄणामनायासेन सर्वशः

1.8

तत्त्वं ब्रूहि महाभाग येन सिद्ध्यन्ति मानवाः ।
कलावपि वरं त्वत्तो न विद्यः संशयच्छिदम् ॥ ७ ।
सूत उवाच।
साधु पृष्टं महाभागा लोकानां हितकाम्यया ।
सर्वशास्त्रस्य यत्सारं तो वक्ष्याम्यशेषतः

1.9

तावद्गर्जन्ति तीर्थानि पुराणानि व्रतानि च ।
यावन्न श्रूयते सम्यग्देवीभागवतं नरैः

1.10

तावत्पापाटवी नॄणां क्लेशदाऽदभ्रकण्टका ।
यावन्न परशुः प्राप्तो देवीभागवताभिधः

1.11

तावत्क्लेशावहं नॄणामुपसर्गमहातमः ।
यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगुः

1.12

ऋषय ऊचुः।
सूत सूत महाभाग वद नो वदतांवर ।
कीदृशं तत्पुरायणं हि विधिस्तच्छ्रवणे च कः

1.13

कतिभिर्वासरैरेतच्छ्रोतव्यं किं च पूजनम् ।
कैर्मानवैः श्रुतं पूर्वं कान्कान्कामानवाप्नुयुः

1.14

सूत उवाच।
विष्णोरंशो मुनिर्जातः सत्यवत्यां पराशरात् ।
विभज्य वेदांश्चतुरः शिष्यानध्यापयत्पुरा

1.15

व्रात्यानां द्विजबन्धूनां वेदेष्वनधिकारिणाम् ।
स्त्रीणां दुर्मेधसां नॄणां धर्मज्ञानं कथं भवेत्

1.16

विचार्यैतत्तु मनसा भगवान्बादरायणः ।
पुराणं संहितां दध्यौ तेषां धर्मविधित्सया

1.17

अष्टादश पुराणानि स कृत्वा भगवान्मुनिः ।
मामेवाध्यापयामास भारताख्यानमेव च

1.18

देवीभागवतं तत्र पुराणं भोगमोक्षदम् ।
स्वयं तु श्रावयामास जनमेजयभूपतिम्

1.19

पूर्वं यस्य पिता राजा परीक्षित्तक्षकाहिना ।
संदष्टस्तस्य संशुद्ध्यै राज्ञा भागवतं श्रुतम्

1.21

नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् ।
त्रैलोक्यमातरं देवीं पूजयित्वा विधानतः ॥ २० ।
नवाह यज्ञे सम्पूर्णे परीक्षिदपि भूपतिः ।
दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात्

1.22

पितुर्दिव्यां गति राजा विलोक्य जनमेजयः ।
व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह

1.23

अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् ।
देवीभागवतं नाम धर्मकामार्थमोक्षदम्

1.24

ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् ।
तेषां सिद्धिर्न दूरस्था तस्मात्सेव्या सदा नृभिः

1.26

दिनमर्द्धं तदर्धं वा मुहूर्तं क्षणमेव वा ।
ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गतिः क्वचित् ॥
सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत्फलम् ।
सकृत्पुराणश्रवणात्तत्फलं लभते नरः

1.27

कृता दो बहवो धर्माः कलौ धर्मस्तु केवलम् ।
पुराणश्रवणादन्यो विद्यते नापरो नृणाम्

1.28

।
धर्माचारविहीनानां कलावल्पायुषां नृणाम् ।
व्यासो हिताय विदधे पुराणाख्यं सुधारसम्

1.29

सुधां पिबन्नेक एव नरः स्यादजरामरः ।
देव्याः कथामृतं कुर्यात्कुलमेवाजरामरम्

1.30

मासानां नियमो नात्र दिनानां नियमोऽपि न ।
सदा सेव्यं सदा सेव्यं देवीभागवतं नरैः

1.31

आश्विने मधुमासे वा तपोमासे शुचौ तथा ।
चतुर्षु नवरात्रेषु विशेषात्फलदायकम्

1.32

अतो नवाहयज्ञोऽयं सर्वस्मात्पुण्यकर्मणः ।
फलाधिकप्रदानेन प्रोक्तः पुण्यप्रदो नृणाम्

1.33

ये दुर्हृदः पापरता विमूढा मित्रद्रुहो वेदविनिंदकाश्च ।
हिंसारता नास्तिकमार्गसक्ता नवाहयज्ञेन पुनंति ते कलौ

1.34

परस्वदाराहणेतिऽलुब्धा ये वै नराः कल्मषभारभाजः ।
गोदेवता ब्राह्मणभक्तिहीना नवाहज्ञेन भवन्ति शुद्धाः

1.35

तपोभिरुग्रैर्व्रततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च ।
हुतैर्जपैर्यच्च फलेन लभ्यते नवाहयज्ञेन तदाप्यते नृणाम्

1.36

तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् ।
पुनाति सद्यो बदरीवनं नो यथा हि देवीमख एष विप्राः

1.37

अतो भागवतं देव्याः पुराणं परतः परम् ।
धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम्

1.38

आश्विनस्य सिते पक्षे कन्याराशिगते रवौ ।
महाष्टम्यां समभ्यर्च्य हैकसिंहासनस्थितम्

1.39

देवीप्रीतिपदं भक्त्या श्रीभागवतपुस्तकम् ।
दद्याद्विप्राय योग्याय स देव्याः पदवीं लभेत्

1.41

देवी भागवतस्यापि श्लोकं श्लोकार्द्धमेव वा ।
भक्त्या यश्च पठेन्नित्यं स देव्याः प्रीतिभाग्भवेत् ॥
उपसर्गभवं घोरं महामारीसमुद्भवम् ।
उत्पातानखिलांश्चापि हंति श्रवणमात्रतः

1.42

बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् ।
देवीभागवतस्यास्य श्रवणाद्याति दूरतः

1.43

यस्तु भागवतं देव्याः पठेद्भक्त्या शृणोति वा ।
धर्ममर्थं च कामं च मोक्षं च लभते नरः

1.44

श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् ।
चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह

1.46

य एतां शृणुयाद्भक्त्या श्रीमद्भागवतीं कथाम् ।
भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ।
रोगी रोगात्प्रमुच्येत श्रुत्वा भागवतामृतम्

1.47

वंध्या वा काकवंध्या वा मृतवत्सा च याङ्गना ।
देवीभागवतं श्रुत्वा लभेत्पुत्रं चिरायुषम्

1.48

पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् ।
तद्गृहं तीर्थंभूतं हि वसतां पापनाशकम्

1.49

अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुतः ।
यः पठेच्छृणुयाद्वापि स सिद्धिं लभते पराम्

1.50

पठन्द्विजो वेदविदग्रणीर्भवेद्वाहुप्रजातो धरणीपतिः स्यात् ।
वैश्यः पठन्वित्तसमृद्धिमेति शूद्रोऽपि शृण्वन्स्वकृतोत्तमः स्यात्

1.1

इति श्रीस्कन्द पुराणे मानसखण्डे देवीभागवतमाहात्म्ये प्रथमोऽध्यायः

मूल पाठ: devībhāgavatapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc