चीवरवस्तु · अध्याय 6
उपगतकानाम् आवासे अनुपगतकः श्रामणेरक आगत्य कालं करोति । उपगतकैर् अनुपगतकानां दूतो ऽनुप्रेषयितव्यः । श्रामणेरो वः कालगतः । हरत तस्य पात्रचीवरम् इति । उपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । अनुपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्*
( म्स्व् इइ 115 ) उपगतकानाम् आवासे अनुपगतकः श्रामणेरक आगत्य एवं वदेद् ओसारयन्तु माम् आयुष्मन्तः । उपगतको भविष्यामीति । स चानोसारितः कालं कुर्यात्* । उपगतकैर् अनुपगतकानां दूतो ऽनुप्रेषयितव्यः । श्रामणेरो वः कालगतः । हरतास्य पात्रचीवरम् इति । उपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । अनुपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्*
उपगतकानाम् आवासे अनुपगतको भिक्षुर् आगत्य कालं कुर्यात्* । उपगतकैर् अनुपगतकानां दूतो ऽनुप्रेषयितव्यः । सब्रह्मचारी वः कालगतः । हरतास्य पात्रचीवरम् इति । उपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । अनुपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय ( 267र्1 = ग्ब्म् 6.846 ) भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्*
उपगतकानाम् आवासे अनुपगतको भिक्षुर् आगत्यैवं वदेद् ओसारयन्तु माम् आयुष्मन्तः । उपगतको भविष्यामीति । स चानोसारित एव कालं कुर्यात्* । उपगतकैर् अनुपगतकानां दूतो ऽनुप्रेषयितव्यः । सब्राह्मचारी वः कालगतः । हरतास्य पात्रचीवरम् इति । उपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । अनुपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्*
मूल पाठ: Cīvaravastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0