चीवरवस्तु · अध्याय 5
यथापि तद् भदन्त एकस्मिन्न् आवासे संबहुला उत्क्षिप्तकाः संबहुलाश् च प्रकृतिस्थकाः प्रतिवसन्ति । तेषां प्रकृतिस्थकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । प्रकृतिस्थकानाम्*
संबहुला उत्क्षिप्तका द्वौ प्रकृतिस्थकौ । प्रकृतिस्थकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । तस्यैकस्य प्रकृतिस्थकस्य
संबहुला उत्क्षिप्तका एकः प्रकृतिस्थकः । प्रकृतिस्थकः कालं करोति । लाभः कस्य प्रापद्यते । उत्क्षिप्तकानां यः प्रथमं पापकं दृष्टिगतं प्रतिनिसृजति
मूल पाठ: Cīvaravastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0