भाषा

ENहिગુ
ग्रंथ पाठ

चीवरवस्तु · अध्याय 4

4.1

अयम् उच्यते क्रियाहृतो लभब्ः ।
निश्रयाहृतो लाभः कतमः । भिक्षुर् यं स्त्रीपुरुषपण्डकम् उपनिश्रित्य वर्षा उपगच्छति स यं लाभं ददाति तस्यैव सः । अयम् उच्यते निश्रयाहृतो लाभः ।
संघप्रज्ञप्तो लाभः कतमः । यो लाभो नियतो ऽविपंचितः । अयम् उच्यते संघप्रज्ञप्तो लाभः ।
भिक्षुप्रज्ञप्तो लाभः कतमः । यो लाभो नियतो ऽविपंचितः । लयने मठे वा कूटागारे वा प्रज्ञप्तः । तत्र यो भिक्षुः प्रतिवसति तस्यैव सः । अयम् उच्यते भिक्षुप्रज्ञप्तो लाभः ।
वार्षिको लाभः कतमः । यो लाभो वर्षोषितस्य भिक्षुसंघस्य दायिकैः प्रज्ञप्तः । अयम् उच्यते वार्षिको लाभः ।
संमुखलाभः कतमः । यो लाभो ऽनियतो ऽविपंचितः । अयम् उच्यते संमुखलाभः ।
प्रत्यादेशलाभः कतमः । यो लाभो जातौ बोधौ धर्मचक्रे परिनिर्वाणे निर्यातितः । सचेन् न शक्यते चतुर्महाचैत्येषु एकस्मिन्न् एव महाचैत्ये देयो नानयत्र । अयम् उच्यते प्रत्यादेशलाभः ।
उद्दानम्* ।
कालं कुर्वन्त्य् उत्क्षिप्तका मिश्रकाणां च भाजनम्* ।
उत्क्षिप्तश्रमणोद्देशा ( 266व्1 = ग्ब्म् 6.845 ) उसारयन्ति म्रियन्ते च ॥
श्रावस्त्यां निदानम्* । आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यथापि तद् भदन्त एकस्मिन्न् आवासे संबहुला उत्क्षिप्तकाः संबहुलाश् च प्रकृतिस्थकाः प्रतिवसन्ति । तेषाम् उत्क्षिप्तकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । प्रकृतिस्थकानाम् ( म्स्व् इइ 114 ) उपालिन्

4.2

द्वौ भदन्त उत्क्षिपकौ संबहुलाः प्रकृतिस्थकाः । उत्क्षिप्तकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । प्रकृतिस्थकानाम् एव

4.3

उत्क्षिपकाः संबहुलाः प्रकृतिस्थका अल्पाः । उत्क्षिप्तकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । प्रकृतिस्थकानाम् एव

मूल पाठ: Cīvaravastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc