चीवरवस्तु · अध्याय 3
यथा उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वे ति नव पर्यायाः । एवम् अनुपगतकानाम् आवासी उपगतकान् भिक्षून् भोजयित्वेति नव पर्यायाः ।
सचेत् ते ब्राह्मणगृहपतयः रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति । उपगतकानाम् एव पानीयम्* । लाभः कस्य प्रापद्यते । उभयोर् अपि
रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । ( 266र्1 = ग्ब्म् 6.844 ) उभयोर् अपि
रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभम् अनुप्रयच्छन्ति । उपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उभयोर् अपि
रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभम् अनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । ( म्स्व् इइ 112 ) लाभः कस्य प्रापद्यते । उभयोर् अपि
रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभम् अनुप्रयच्छन्ति । उपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उभयोर् अपि
रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति । वृद्धान्ते पानीयम्* । लाभः कस्य प्रापद्यते । उभयोर् अपि
रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभम् अनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उभयोर् अपि
रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभम् अनुप्रयच्छन्ति । वृद्धान्ते पानीयम्* । लाभः कस्य प्रापद्यते । उभयोर् अपि
रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते उपगतकानुपगतकानां लाभम् अनुप्रयच्छन्ति । वृद्धान्ते च पानीयम्* । लाभः कस्य प्रापद्यते । उभयोर् अपि
मूल पाठ: Cīvaravastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0