भाषा

ENहिગુ
ग्रंथ पाठ

चीवरवस्तु · अध्याय 2

2.1

अन्यतमस्मिन् कर्वटके गृहपतिः । तेन विहारः कारितः सर्वोपकरणसंपन्नः । आयुष्मांश् च शारिपुत्रो जनपदचारिकां चरन् तं विहारम् अनुप्राप्तः । तेन गृहपतिना भोजयित्वा पंचभिः पटकशतैर् आच्छादितः । स तानि पंच पटकशतानि तस्मिन्न् एव विहारे दत्वा प्रक्रान्तः । यावत् तस्य द्वौ सार्धंविहारिणौ ऋषिल ऋषिदत्तश् च जनपदचारिकां चरन्तौ तम् एव कर्वटकम् अनुप्राप्तौ । ताव् अपि तेन ( म्स्व् इइ 109 ) गृहपतिना भोजयित्वा पंचभिः पटशतैर् आच्छादितौ । तौ भिक्षुभिर् उच्येते । आयुष्मन्तौ युवयोर् उपाध्यायेन तस्य गृहपतेः सकाशात् पंच पटशतानि लब्धानि । तान्य् अस्माभिर् एव भाजितानि । अधुनाप्य् एष लाभो ऽस्माकम् एव प्रापद्यते । तौ कथयतः । उपाध्यायो ज्ञातो महापुण्यः । तेन कदाचिद् युष्माकम् एवानुमोदितः स्यात्* । ते प्रतिबोढुम् आरब्धाः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । अष्टाव् इमे भिक्षवो लाभाः । कतमे ऽष्टौ । सीमाहृतो लाभः । क्रियाहृतः । निश्रयाहृतः । संघप्रज्ञप्तः । भिक्षुप्रज्ञप्तः । वार्षिकः । संमुखः । प्रत्यादेशश् च ।
सीमाहृतो लाभः कतमः । यथापि तद् एवावसथ एकः पोषधः । तयोर् विहारयोर् यो लाभः स उभयविहारप्रतिवासिनां भिक्षूणाम्* । तन् निवासिनो भिक्षवः कदाचिद् धि एकपोषधेन वर्षा उपगच्छन्ति । तत्र यो लाभः संपद्यते यम् अस्मिन्न् एव विहारे दत्तस् तस्मिन् निवासिभिर् एव भिक्षुभिः परिभोक्तव्यं हि । एकपोषधत्वात्* अयम् उच्यते सीमाहृतो लाभः ।
क्रियाहृतो लाभः कतमः । यथापि तद् भिक्षव इदम् एवंरूपं क्रियाकारं कृत्वा वर्षा उपगच्छन्ति । अमुकं कुलं युष्माकम्* । ( म्स्व् इइ 110 ) अमुकं कुलम् अस्माकम्* । रथ्यावीथीचत्वरशृङ्गाटका मध्यम् इति । ते चेद् ब्राह्मणगृहपतयः ( 265व्1 = ग्ब्म् 6.843 ) उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति । उपगतकानाम् एव पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानाम् एव

2.2

उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानाम् एव

2.3

उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां पानीयम् अनुप्रयच्छन्ति । अनुपगतकानां लाभम्* । लाभः कस्य प्रापद्यते । उपगतकानाम् एव

2.4

उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वानुपगतकानां लाभम् अनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते ॥ उपगतकानाम् एव

2.5

उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभम् अनुप्रयच्छन्ति । उपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानाम् एव

2.6

उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभम् अनुप्रयच्छन्ति । वृद्धान्ते पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानाम् एव

2.7

उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभम् अनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य ( म्स्व् इइ 111 ) प्रापद्यते । उपगतकानाम् एव

2.8

उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभम् अनुप्रयच्छन्ति । वृद्धान्ते पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानाम् एव

2.9

उपगतकानाम् आवासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानुपगतकानां लाभम् अनुप्रयच्छन्ति । वृद्धान्ते च पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानाम् एव

मूल पाठ: Cīvaravastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cīvaravastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc